← सर्गः ८ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः १० →
नवमः सर्गः श्रूयताम्
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे नवमः सर्गः ॥१-९॥

एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् ।
श्रूयतां तत् पुरावृत्तं पुराणे च मया श्रुतम् ॥१-९-१॥

ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः ।
सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् ॥१-९-२॥

ऋषीणां संनिधौ राजंस्तव पुत्रागमं प्रति ।
काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः ॥१-९-३॥

ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति ।
स वने नित्यसंवृद्धो मुनिर्वनचरः सदा ॥१-९-४॥

नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ।
द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः ॥१-९-५॥

लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा ।
तस्यैवं वर्तमानस्य कालः समभिवर्तत ॥१-९-६॥

अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् ।
एतस्मिन्नेव काले तु रोमपादः प्रतापवान् ॥१-९-७॥

अङ्गेषु प्रथितो राजा भविष्यति महाबलः ।
तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा ॥१-९-८॥

अनावृष्टिः सुघोरा वै सर्वलोकभयावहा ।
अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः ॥१-९-९॥

ब्राह्मणाञ्छ्रुतसंवृद्धान् समानीय प्रवक्ष्यति व ।
भवन्तः श्रुतकर्माणो लोकचारित्रवेदिनः ॥१-९-१०॥

समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् ।
इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः ॥१-९-११॥

वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः ।
विभाण्डकसुतं राजन् सर्वोपायैरिहानय ॥१-९-१२॥

आनाय्य तु महीपाल ऋष्यशृङ्गं सुसत्कृतम् ।
विभाण्डकसुतं राजन् ब्राह्मणं वेदपारगम् ।
प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥१-९-१३॥

तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते ।
केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ॥१-९-१४॥

ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् ।
पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान् ॥१-९-१५॥

ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः ।
न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥१-९-१६॥

वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान्क्षमान् ।
आनेष्यामो वयं विप्रं न च दोषो भविष्यति ॥१-९-१७॥

एवमङ्गाधिपेनैव गणिकाभिर्ऋषेः सुतः ।
आनीतोऽवर्षयद् देवः शान्ता चास्मै प्रदीयते ॥१-९-१८॥

ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति ।
सनत्कुमारकथितमेतावद् व्याहृतं मया ॥१-९-१९॥

अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत।
यथर्ष्यशृङ्गस्त्वानीतो येनोपायेन सोच्यताम् ॥१-९-२०॥


इति श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे नवमः सर्गः ॥१-९॥


स्रोतः सम्पाद्यताम्

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।