← सर्गः १२ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः १४ →
त्रयोदशः सर्गः श्रूयताम्
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् ।
प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥१-१३-१॥

अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ।
अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥१-१३-२॥

यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुङ्गव ।
यथा न विघ्नाः क्रियन्ते यज्ञाङ्गेषु विधीयताम् ॥१-१३-३॥

भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् ।
वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥१-१३-४॥

तथेति च स राजानमब्रवीद् द्विजसत्तमः ।
करिष्ये सर्वमेवैतद् भवता यत् समर्थितम् ॥१-१३-५॥

ततोऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसुनिष्ठितान् ।
स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् ॥१-१३-६॥

कर्मान्तिकाञ्शिल्पकारान् वर्धकीन् खनकानपि ।
गणकाञ्शिल्पिनश्चैव तथैव नटनर्तकान् ॥१-१३-७॥

तथा शुचीञ्शास्त्रविदः पुरुषान् सुबहुश्रुतान् ।
यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ॥१-१३-८॥

इष्टका बहुसाहस्री शीघ्रमानीयतामिति ।
उपकार्याः क्रियन्तां च राज्ञो बहुगुणान्विताः ॥१-१३-९॥

ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ।
भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ॥१-१३-१०॥

तथा पौरजनस्यापि कर्तव्याश्च सुविस्तराः ।
आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक् ॥१-१३-११॥

वाजिवारणशालाश्च तथा शय्यागृहाणि च ।
भटानां महदावासा वैदेशिकनिवासिनाम् ॥१-१३-१२॥

आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः ।
तथा पौरजनस्यापि जनस्य बहुशोभनम् ॥१-१३-१३॥

दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया ।
सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ॥१-१३-१४॥

न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ।
यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा ॥१-१३-१५॥

तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ।
ये स्युः सम्पूजिताः सर्वे वसुभिर्भोजनेन च ॥१-१३-१६॥

यथा सर्वं सुविहितं न किंचित् परिहीयते ।
तथा भवन्तः कुर्वन्तु प्रीतियुक्तेन चेतसा ॥१-१३-१७॥

ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् ।
यथेष्टं तत् सुविहितं न किंचित् परिहीयते ॥१-१३-१८॥

यथोक्तं तत् करिष्यामो न किंचित् परिहास्यते ।
ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत् ॥१-१३-१९॥

निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः ।
ब्राह्मणान् क्षत्रियान् वैश्याञ्शूद्रांश्चैव सहस्रशः ॥१-१३-२०॥

समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ।
मिथिलाधिपतिं शूरं जनकं सत्यवादिनम् ॥१-१३-२१॥

तमानय महाभागं स्वयमेव सुसत्कृतम् ।
पूर्वं सम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥१-१३-२२॥

तथा काशिपतिं स्निग्धं सततं प्रियवादिनम् ।
सद्वृत्तं देवसंकाशं स्वयमेवानयस्व ह ॥१-१३-२३॥

तथा केकयराजानं वृद्धं परमधार्मिकम् ।
श्वशुरं राजसिंहस्य सपुत्रं तमिहानय ॥१-१३-२४॥

अङ्गेश्वरं महेष्वासं रोमपादं सुसत्कृतम् ।
वयस्यं राजसिंहस्य सपुत्रं तमिहानय ॥१-१३-२५॥

तथा कोसलराजानं भानुमन्तं सुसंस्कृतम् ।
मगधाधिपतिं शूरं सर्वशास्त्रविशारदम् ॥१-१३-२६॥

प्राप्तिज्ञं परमोदारं सत्कृतं पुरुषर्षभम् ।
राज्ञः शासनमादाय चोदयस्व नृपर्षभान् ।
प्राचीनान् सिन्धुसौवीरान् सौराष्ठ्रेयांश्च पार्थिवान् ॥१-१३-२७॥

दाक्षिणात्यान् नरेन्द्रांश्च समस्तानानयस्व ह ।
सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ॥१-१३-२८॥

तानानय यथा क्षिप्रं सानुगान् सहबान्धवान् ।
एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया ॥१-१३-२९॥

वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितं तदा ।
व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान् ॥१-१३-३०॥

स्वयमेव हि धर्मात्मा प्रयातो मुनिशासनात् ।
सुमन्त्रस्त्वरितो भूत्वा समानेतुं महामतिः ॥१-१३-३१॥

ते च कर्मान्तिकाः सर्वे वसिष्ठाय महर्षये ।
सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ॥१-१३-३२॥

ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् मुनिरब्रवीत् ।
अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ॥१-१३-३३॥

अवज्ञया कृतं हन्याद् दातारं नात्र संशयः ।
ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ॥१-१३-३४॥

बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह ।
ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ॥१-१३-३५॥

उपयाता नरव्याघ्र राजानस्तव शासनात् ।
मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः ॥१-१३-३६॥

यज्ञियं च कृतं सर्वं पुरुषैः सुसमाहितैः ।
निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् ॥१-१३-३७॥

सर्वकामैरुपहृतैरुपेतं वै समन्ततः ।
द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥१-१३-३८॥

तथा वसिष्ठवचनादृशष्यशृङ्गस्य चोभयोः ।
दिवसे शुभनक्षत्रे निर्यातो जगतीपतिः ॥१-१३-३९॥

ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः ।
ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥१-१३-४०॥

यज्ञवाटं गताः सर्वे यथाशास्त्रं यथाविधि ।
श्रीमांश्च सह पत्नीभी राजा दीक्षामुपाविशत् ॥१-१३-४१॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥

स्रोतः सम्पाद्यताम्

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।