← सर्गः ९ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ११ →
दशमः सर्गः श्रूयताम्
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे दशमः सर्गः ॥१-१०॥
सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा
यथर्ष्यशृङ्गस्त्वानीतो येनोपायेन मन्त्रिभिः
तन्मे निगदितं सर्वं शृणु मे मन्त्रिभिः सह ॥१-१०-१॥

रोमपादमुवाचेदं सहामात्यः पुरोहितः
उपायो निरपायोऽयमस्माभिरभिचिन्तितः ॥१-१०-२॥

ऋष्यशृङ्गो वनचरस्तपःस्वाध्यायसंयुतः
अनभिज्ञस्तु नारीणां विषयाणां सुखस्य च ॥१-१०-३॥

इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः
पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥१-१०-४॥

गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलङ्कृताः
प्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृताः ॥१-१०-५॥

श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम्
पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तथा ॥१-१०-६॥

वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत्
आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने ॥१-१०-७॥

ऋषेः पुत्रस्य धीरस्य नित्यमाश्रमवासिनः
पितुः स नित्यसन्तुष्टो नातिचक्राम चाश्रमात् ॥१-१०-८॥

न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना
स्त्री वा पुमान्वा यच्चान्यत् सत्त्वं नगरराष्ट्रजम् ॥१-१०-९॥

ततः कदाचित् तं देशमाजगाम यदृच्छया
विभाण्डकसुतस्तत्र ताश्चापश्यद् वराङ्गनाः ॥१-१०-१०॥

ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरम्
ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥१-१०-११॥

कस्त्वं किं वर्तसे ब्रह्मञ्ज्ञातुमिच्छामहे वयम्
एकस्त्वं विजने घोरे वने चरसि शंस नः ॥१-१०-१२॥

अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः
हार्दात्तस्य मतिर्जाता आख्यातुं पितरं स्वकम् ॥१-१०-१३॥

पिता विभाण्डकोऽस्माकं तस्याहं सुत औरसः
ऋष्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि ॥१-१०-१४॥

इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः
करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम् ॥१-१०-१५॥

ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै
तदाश्रमपदं द्रष्टुं जग्मुः सर्वास्ततोऽङ्गनाः ॥१-१०-१६॥

गतानां तु ततः पूजामृषिपुत्रश्चकार ह
इदमर्घ्यमिदं पाद्यमिदं मूलं फलं च नः ॥१-१०-१७॥

प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः
ऋषेर्भीताश्च शीघ्रं तु गमनाय मतिं दधुः ॥१-१०-१८॥

अस्माकमपि मुख्यानि फलानीमानि हे द्विज
गृहाण विप्र भद्रं ते भक्षयस्व च मा चिरम् ॥१-१०-१९॥

ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताः
मोदकान् प्रददुस्तस्मै भक्ष्यांश्च विविधाञ्छुभान् ॥१-१०-२०॥

तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते
अनास्वादितपूर्वाणि वने नित्यनिवासिनाम् ॥१-१०-२१॥

आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च
गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः ॥१-१०-२२॥

गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः
अस्वस्थहृदयश्चासीद् दुःखाच्च परिवर्तते ॥१-१०-२३॥

ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान्
विभाण्डकसुतः श्रीमान् मनसाचिन्तयन्मुहुः ॥१-१०-२४॥

मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलङ्कृताः
दृष्ट्वैव च ततो विप्रमायान्तं हृष्टमानसाः ॥१-१०-२५॥

उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः
एह्याश्रमपदं सौम्य अस्माकमिति चाब्रुवन् ॥१-१०-२६॥

चित्राण्यत्र बहूनि स्युर्मूलानि च फलानि च
तत्राप्येष विशेषेण विधिर्हि भविता ध्रुवम् ॥१-१०-२७॥

श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम्
गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः ॥१-१०-२८॥

तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि
ववर्ष सहसा देवो जगत् प्रह्लादयंस्तदा ॥१-१०-२९॥

वर्षेणैवागतं विप्रं तापसं स नराधिपः
प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥१-१०-३०॥

अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः
वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत् ॥१-१०-३१॥

अन्तःपुरं प्रवेश्यास्मै कन्यां दत्त्वा यथाविधि
शान्तां शान्तेन मनसा राजा हर्षमवाप सः ॥१-१०-३२॥

एवं स न्यवसत् तत्र सर्वकामैः सुपूजितः
ऋष्यशृङ्गो महातेजाः शान्तया सह भार्यया ॥१-१०-३३॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे दशमः सर्गः ॥१-१०॥

स्रोतः सम्पाद्यताम्

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।