← सर्गः २५ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः २७ →


श्रीमद्वाल्मीकीयरामायणे बालकाण्डे षड्विंशः सर्गः ॥१-२६॥

षड्विंशः सर्गः श्रूयताम्
रामायणम्/बालकाण्डम्

मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः ।
राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ॥१-२६-१॥

पितुर्वचननिर्देशात् पितुर्वचनगौरवात् ।
वचनं कौशिकस्येति कर्तव्यमविशङ्कया ॥१-२६-२॥

अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना ।
पित्रा दशरथेनाहं नावज्ञेयं हि तद्वचः ॥१-२६-१३

सोऽहं पितुर्वचः श्रुत्वा शासनाद् ब्रह्मवादिनः ।
करिष्यामि न संदेहस्ताटकावधमुत्तमम् ॥१-२६-४॥

गोब्राह्मणहितार्थाय देशस्य च हिताय च ।
तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः ॥१-२६-५॥

एवमुक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिमरिन्दमः ।
ज्याघोषमकरोत् तीव्रं दिशः शब्देन नादयन् ॥१-२६-६॥

तेन शब्देन वित्रस्तास्ताटकावनवासिनः ।
ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता ॥१-२६-७॥

तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्छिता ।
श्रुत्वा चाभ्यद्रवत् क्रुद्धा यत्र शब्दो विनिःसृतः ॥१-२६-८॥

तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् ।
प्रमाणेनातिवृद्धां च लक्ष्मणं सोऽभ्यभाषत ॥१-२६-९॥

पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः ।
भिद्येरन् दर्शनादस्या भीरूणां हृदयानि च ॥१-२६-१०॥

एतां पश्य दुराधर्षां मायाबलसमन्विताम् ।
विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् ॥१-२६-११॥

न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् ।
वीर्यं चास्या गतिं चैव हन्यामिति हि मे मतिः ॥१-२६-१२॥

एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्छिता ।
उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत ॥१-२६-१३॥

विश्वामित्रस्तु ब्रह्मर्षिर्हुंकारेणाभिभर्त्स्य ताम् ।
स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत ॥१-२६-१४॥

उद्धुन्वाना रजो घोरं ताटका राघवावुभौ ।
रजोमेघेन महता मुहूर्तं सा व्यमोहयत् ॥१-२६-१५॥

ततो मायां समास्थाय शिलावर्षेण राघवौ ।
अवाकिरत् सुमहता ततश्चुक्रोध राघवः ॥१-२६-१६॥

शिलावर्षं महत् तस्याः शरवर्षेण राघवः ।
प्रतिवार्योपधावन्त्याः करौ चिच्छेद पत्रिभिः ॥१-२६-१७॥

ततश्च्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम् ।
सौमित्रिरकरोत् क्रोधाद्धृतकर्णाग्रनासिकाम् ॥१-२६-१८॥

कामरूपधरा सा तु कृत्वा रूपाण्यनेकशः ।
अन्तर्धानं गता यक्षी मोहयन्ती स्वमायया ॥१-२६-१९॥

अश्मवर्षं विमुञ्चन्ती भैरवं विचचार सा ॥
ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः ॥१-२६-२०॥

दृष्ट्वा गाधिसुतः श्रीमानिदं वचनमब्रवीत् ।
अलं ते घृणया राम पापैषा दुष्टचारिणी ॥१-२६-२१॥

यज्ञविघ्नकरी यक्षी पुरा वर्धेत मायया ।
वध्यतां तावदेवैषा पुरा संध्या प्रवर्तते ॥१-२६-२२॥

रक्षांसि संध्याकाले तु दुर्धर्षाणि भवन्ति हि ।
इत्युक्तः स तु तां यक्षीमश्मवृष्ट्याभिवर्षणीम् ॥१-२६-२३॥

दर्शयञ्शब्दवेधित्वं तां रुरोध स सायकैः ।
सा रुद्धा बाणजालेन मायाबलसमन्विता ॥१-२६-२४॥

अभिदुद्राव काकुत्स्थं लक्ष्मणं च विनेषुदी ।
तामापतन्तीं वेगेन विक्रान्तामशनीमिव ॥१-२६-२५॥

शरेणोरसि विव्याध सा पपात ममार च ।
तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस्तदा ॥१-२६-२६॥

साधु साध्विति काकुत्स्थं सुराश्चाप्यभिपूजयन् ।
उवाच परमप्रीतः सहस्राक्षः पुरन्दरः ॥१-२६-२७॥

सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन् ।
मुने कौशिक भद्रं ते सेन्द्राः सर्वे मरुद्गणाः ॥१-२६-२८॥

तोषिताः कर्मणानेन स्नेहं दर्शय राघवे ।
प्रजापतेः कृशाश्वस्य पुत्रान् सत्यपराक्रमान् ॥१-२६-२९॥

तपोबलभृतो ब्रह्मन् राघवाय निवेदय ।
पात्रभूतश्च ते ब्रह्मंस्तवानुगमने रतः ॥१-२६-३०॥

कर्तव्यं सुमहत् कर्म सुराणां राजसूनुना ।
एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा विहायसम् ॥१-२६-३१॥

विश्वामित्रं पूजयन्तस्ततः संध्या प्रवर्तते ।
ततो मुनिवरः प्रीतस्ताटकावधतोषितः ॥१-२६-३२॥

मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत् ।
इहाद्य रजनीं राम वसाम शुभदर्शन ॥१-२६-३३॥

श्वः प्रभाते गमिष्यामस्तदाश्रमपदं मम ।
विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः ॥१-२६-३४॥

उवास रजनीं तत्र ताटकाया वने सुखम् ।
मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि ।
रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥१-२६-३५॥

निहत्य तां यक्षसुतां स रामः
प्रशस्यमानः सुरसिद्धसङ्घैः ।
उवास तस्मिन् मुनिना सहैव
प्रभातवेलां प्रतिबोध्यमानः ॥१-२६-३६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षड्विंशः सर्गः ॥१-२६॥

स्रोतः सम्पाद्यताम्

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।