← सर्गः ३८ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ४० →
एकोनचत्वारिंशः सर्गः श्रूयताम्
रामायणम्/बालकाण्डम्

श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-३९॥

विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनः ।
उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ॥१-३९-१॥

श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम् ।
पूर्वजो मे कथं ब्रह्मन् यज्ञं वै समुपाहरत् ॥१-३९-२॥

तस्य तद् वचनं श्रुत्वा कौतूहलसमन्वितः ।
विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव ॥१-३९-३॥

श्रूयतां विस्तरो राम सगरस्य महात्मनः ।
शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः ॥१-३९-४॥

विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम् ।
तयोर्मध्ये समभवद् यज्ञः स पुरुषोत्तम ॥१-३९-५॥

स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि ।
तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः ॥१-३९-६॥

अंशुमानकरोत् तात सगरस्य मते स्थितः ।
तस्य पर्वणि तं यज्ञं यजमानस्य वासवः ॥१-३९-७॥

राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत् ।
ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः ॥१-३९-८॥

उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् ।
अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते ॥१-३९-९॥

हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम् ।
यज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नः ॥१-३९-१०॥

तत् तथा क्रियतां राजन् यज्ञोच्छिद्रः कृतो भवेत् ।
सोपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः ॥१-३९-११॥

षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह ।
गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः ॥१-३९-१२॥

मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः ।
तद् गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः ॥१-३९-१३॥

समुद्रमालिनीं सर्वां पृथिवीमनुगच्छथ ।
एकैकं योजनं पुत्रा विस्तारमभिगच्छत ॥१-३९-१४॥

यावत् तुरगसंदर्शस्तावत् खनत मेदिनीम् ।
तमेव हयहर्तारं मार्गमाणा ममाज्ञया ॥१-३९-१५॥

दीक्षितः पौत्रसहितः सोपाध्यायगणस्त्वहम् ।
इह स्थास्यामि भद्रं वो यावत् तुरगदर्शनम् ॥१-३९-१६॥

ते सर्वे हृष्टमनसो राजपुत्रा महाबलाः ।
जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः ॥१-३९-१७॥

गत्वा तु पृथिवीं सर्वामदृष्ट्वा तं महाबलाः ।
योजनायामविस्तारमेकैको धरणीतलम् ।
बिभिदुः पुरुषव्याघ्रा वज्रस्पर्शसमैर्भुजैः ॥१-३९-१८॥

शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः ।
भिद्यमाना वसुमती ननाद रघुनन्दन ॥१-३९-१९॥

नागानां वध्यमानानामसुराणां च राघव ।
राक्षसानां दुराधर्षं सत्त्वानां निनदोऽभवत् ॥१-३९-२०॥

योजनानां सहस्राणि षष्टिं तु रघुनन्दन ।
बिभिदुर्धरणीं राम रसातलमनुत्तमम् ॥१-३९-२१॥

एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः ।
खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः ॥१-३९-२२॥

ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः ।
सम्भ्रान्तमनसः सर्वे पितामहमुपागमन् ॥१-३९-२३॥

ते प्रसाद्य महात्मानं विषण्णवदनास्तदा ।
ऊचुः परमसंत्रस्ताः पितामहमिदं वचः ॥१-३९-२४॥

भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः
बहवश्च महात्मानो वध्यन्ते जलचारिणः ॥१-३९-२५॥

अयं यज्ञहरोऽस्माकमनेनाश्वोऽपनीयते ।
इति ते सर्वभूतानि हिंसन्ति सगरात्मजाः ॥१-३९-२६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-३९॥

स्रोतः सम्पाद्यताम्

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।