विष्णुपुराणम्/पञ्चमांशः/अध्यायः १४

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

श्रीपराशर उवाच।
प्रदोषाग्रे कदाचित्तु रासासक्ते जनार्दने।
त्रासयन्समदो गोष्ठमरिष्टस्समुपागमत् १।
स तोयतोयदच्छायस्तीक्ष्णशृंगोर्कलोचनः।
खुराग्रपातैरत्यर्थं दारयन्धरणीतलम् २।
लेलिहानस्सनिष्पेषं जिह्वयोष्ठौ पुनःपुनः।
संरंभाविद्धलांगूलः कठिनस्कंधबंधनः ३।
उदग्रककुदाभोगप्रमाणो दुरतिक्रमः।
विण्मूत्रलिप्तपृष्ठांगो गवामुद्वेगकारकः ४।
प्रलंबकंठोऽतिमुखस्तरुखातांकिताननः।
पातयन्स गवां गर्भान्दैत्यो वृषभरूपधृक् ५।
सूदयंस्तापसानुग्रो वनानटति यस्सदा ६।
ततस्तमतिघोराक्षमवेक्ष्यातिभयातुराः।
गोपा गोपस्त्रियश्चैव कृष्णकृष्णेति चुक्रुशुः ७।
सिंहनादं ततश्चक्रे तलशब्दं च केशवः।
तच्छब्दश्रवणाच्चाऽसौ दामोदरमुपाययौ ८।
अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः ।
अभ्यधावत दुष्टात्मा कृष्णं वृषभदानवः ९।
आयांतं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलः।
न चचाल तदा स्थानादवज्ञास्मितलीलया १०।
आसन्नं चैव जग्राह ग्राहवन्मधुसूदनः।
जघान जानुना कुक्षौ विषाणग्रहणाचलम् ११।
तस्य दर्पबलं भंक्त्वा गृहीतस्य विषाणयोः।
अपीडयदरिष्टस्य कंठं क्लिन्नमिवांबरम् १२।
उत्पाट्य शृंगमेकं तु तेनैवाताडयत्ततः।
ममार स महादैत्यो मुखाच्छोणितमुद्वमन् १३।
तुष्टुवुर्निहते तस्मिन्दैत्ये गोपा जनार्दनम् ।
जंभे हते सहस्राक्षं पुरा देवगणा यथा १४।
इति श्रीविष्णुमहापुराणे पंचमांशे चतुर्दशोऽध्यायः १४।