विष्णुपुराणम्/पञ्चमांशः/अध्यायः २०
श्रीपराशर उवाच।
राजमार्गे ततः कृष्णस्सानुलेपनभाजनाम् ।
ददर्श कुब्जामायांतीं नवयौवनगोचराम् १ ।
तामाह ललितं कृष्णः कस्येदमनुलेपनम् ।
भवत्या नीयते सत्यं वदेंदीवरलोचने २ ।
सकामेनेव सा प्रोक्ता सानुरागा हरिं प्रति ।
प्राह सा ललितं कुब्जा तद्दर्शनबलात्कृता ३ ।
कांत कस्मान्न जानासि कंसेन विनियोजिताम् ।
नैकवक्रेति विख्यातामनुलेपनकर्मणि ४ ।
नान्यपिष्टं हि कंसस्य प्रीतये ह्यनुलेपनम् ।
भवाम्यहमतीवास्य प्रसादधनभाजनम् ५ ।
श्रीकृष्ण उवाच।
सुगंधमेतद्रा जार्हं रुचिरं रुचिरानने ।
आवयोर्गात्र सदृशं दीयतामनुलेपनम् ६ ।
श्रीपराशर उवाच।
श्रुत्वैतदाह सा कुब्जा गृह्यतामिति सादरम् ।
अनुलेपनं च प्रददौ गात्रयोग्यमथोभयोः ७ ।
भक्तिच्छेदानुलिप्तांगौ ततस्तौ पुरुषर्षभौ ।
सेंद्र चापौ व्यराजेतां सितकृष्णाविवांबुदौ ८ ।
ततस्तां चुबुके शौरिरुल्लापन विधानवित् ।
उत्पाट्य तोलयामास द्व्यंगुलेनाग्रपाणिना ९ ।
चकर्ष पद्भ्यां च तदा ऋजुत्वं केशवोऽनयत् ।
ततस्सा ऋजुतां प्राप्ता योषितामभवद्वरा १० ।
विलासललितं प्राह प्रेमगर्भभरालसम् ।
वस्त्रे प्रगृह्य गोविंदं मम गेहं व्रजेति वै ११ ।
एवमुक्तस्तया शौरी रामस्यालोक्य चाननम् ।
प्रहस्य कुब्जां तामाह नैकवक्रामनिंदिताम् १२ ।
आयास्ये भवतीगेहमिति तां प्रहसन्हरिः ।
विससर्ज जहासोच्चै रामस्यालोक्य चाननम् १३ ।
भक्तिभेदानुलिप्तांगौ नीलपीतांबरौ तु तौ ।
धनुश्शालां ततो यातौ चित्रमाल्योपशोभितौ १४ ।
आयागं तद्धनूरत्नं ताभ्यां पृष्टैस्तु रक्षिभिः ।
आख्याते सहसा कृष्णो गृहीत्वा पूरयद्धनुः १५ ।
ततः पूरयता तेन भज्यमानं बलाद्धनुः ।
चकार सुमहच्छब्दं मथुरा येन पूरिता १६ ।
अनुयुक्तौ ततस्तौ तु भग्ने धनुषि रक्षिभिः ।
रक्षिसैन्यं निहत्योभौ निष्क्रांतौ कार्मुकालयात् १७ ।
अक्रूरागमवृत्तांतमुपलभ्य महद्धनुः ।
भग्नं श्रुत्वा च कंसोऽपि प्राह चाणूरमुष्टिकौ १८ ।
कंस उवाच।
गोपालदारकौ प्राप्तौ भवद्भ्यां तु ममाग्रतः ।
मल्लयुद्धेन हंतव्यौ मम प्राणहरौ हि तौ १९ ।
नियुद्धे तद्विनाश्नो भवद्भ्यां तोषितो ह्यहम् ।
दास्याम्यभिमतान्कामान्नान्यथैतौ महाबलौ २० ।
न्यायतोन्यायतो वापि भवद्भ्यां तौ ममाहितौ ।
हंताव्यौ तद्वधाद्रा ज्यं सामान्यं वां भविष्यति २१ ।
इत्यादिश्य स तौ मल्लौ ततश्चाहूय हस्तिपम् ।
प्रोवाचोच्चैस्त्वया मल्लसमाजद्वारि कुंजरः २२ ।
स्थाप्यः कुवलयापीडस्तेन तौ गोपदारकौ ।
घातनीयौ नियुद्धाय रंगद्वारमुपागतौ २३ ।
तमप्याज्ञाप्य दृष्ट्वा च सर्वान्मंचानुपाकृतान् ।
आसन्न मरणः कंसः सूर्योदयमुदैक्षत २४ ।
ततः समस्तमंचेषु नागरस्स तदा जनः ।
राजमंचेषु चारूढास्सह भृत्यैर्नराधिपाः २५ ।
मल्लप्राश्निकवर्गश्च रंगमध्यसमीपगः ।
कृतः कंसेन कंसोऽपि तुंगमंचे व्यवस्थितः २६ ।
अंतःपुराणां मंचाश्च तथाऽन्ये परिकल्पिताः ।
अन्ये च वारमुख्यानामन्ये नागरयोषिताम् २७ ।
नंदगोपादयो गोपा मंचेष्वन्येष्ववस्थिताः ।
अक्रूरवसुदेवौ च मंचप्रांते व्यवस्थितौ २८ ।
नागरीयोषितां मध्ये देवकीपुत्रगर्द्धिनी ।
अंतकालेऽपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता २९ ।
वाद्यमानेषु तूर्येषु चाणूरे चातिवल्गति ।
हाहाकारपरे लोके ह्यास्फोटयति मुष्टिके ३० ।
ईषद्धसंतौ तौ वीरौ बलभद्र जनार्दनौ ।
गोपवेषधरौ बालौ रंगद्वारमुपागतौ ३१ ।
ततः कुवलयापीडो महामात्रप्रचोदितः ।
अभ्यधावत वेगेन हंतुं गोपकुमारकौ ३२ ।
हाहाकारो महाञ्जज्ञे रंगमध्ये द्विजोत्तम ।
बलदेवोऽनुजं दृष्ट्वा वचनं चेदमब्रवीत् ३३ ।
हंतव्यो हि महाभाग नागोऽयं शत्रुचोदितः ३४ ।
इत्युक्तस्सोऽग्रजेनाथ बलदेवेन वै द्विज ।
सिंहनादं ततश्चक्रे माधवः परवीरहा ३५ ।
करेण करमाकृष्य तस्य केशिनिषूदनः ।
भ्रामयामास तं शौरिरैरावतसमं बले ३६ ।
ईशोपि सर्वजगतां बाललीलानुसारतः ।
क्रीडित्वा सुचिरं कृष्णः करिदंतपदांतरे ३७ ।
उत्पाट्य वामदंतं तु दक्षिणेनैव पाणिना ।
ताडयामास यंतारं तस्यासीच्छतधा शिरः ३८ ।
दक्षिणं दंतमुत्पाट्य बलभद्रो ऽपि तत्क्षणात् ।
स रोषस्तेन पार्श्वस्थान् गजपालानपोथयत् ३९ ।
ततस्तूत्प्लुत्य वेगेन रौहिणेयो महाबलः ।
जघान वामपादेन मस्तके हस्तिनं रुषा ४० ।
स पपात हतस्तेन बलभद्रे ण लीलया ।
सहस्राक्षेण वज्रेण ताडितः पर्वतो यथा ४१ ।
हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम् ।
मदासृगनुलिप्तांगौ हस्तिदंतवरायुधौ ४२ ।
मृगमध्ये यथा सिंहौ गर्वलीलावलोकिनौ ।
प्रविष्टौ सुमहारंगं बलभद्र जनार्दनौ ४३ ।
हाहाकारो महाञ्जज्ञे महारंगे त्वनंतरम् ।
कृष्णोऽयं बलभद्रो यमिति लोकस्य विस्मयः ४४ ।
सोऽयं येन हता घोरा पूतना बालघातिनी ।
क्षिप्तं तु शकटं येन भग्नौ तु यमलार्जुनौ ४५ ।
सोयं यः कालियं नागं ममर्दारुह्य वालकः ।
धृतो गोवर्द्धनो येन सप्तरात्रं महागिरिः ४६ ।
अरिष्टो धेनुकः केशी लीलयैव महात्मना ।
निहता येन दुर्वृत्ता दृश्यतामेष सोऽच्युतः ४७ ।
अयं चास्य महाबाहुर्बलभद्रो ऽग्रतोऽग्रजः ।
प्रयाति लीलया योषिन्मनोनयननंदनः ४८ ।
अयं स कथ्यते प्राज्ञैः पुराणार्थविशारदैः ।
गोपालो यादवं वंशं मग्नमभ्यद्धरिष्यति ४९ ।
अयं हि सर्वलोकस्य विष्णोरखिलजन्मनः ।
अवतीर्णो महीमंशो नूनं भारहरो भुवः ५० ।
इत्येवं वर्णिते पौरै रामे कृष्णे च तत्क्षणात् ।
उरस्तताप देवक्याः स्नेहस्नुतपयोधरम् ५१ ।
महोत्सवमिवासाद्य पुत्राननविलोकनात् ।
युवेव वसुदेवोऽभूद्विहायाभ्यागतां जराम् ५२ ।
विस्तारिताक्षियुगलो राजांतःपुरयोषिताम् ।
नागरस्त्रीसमूहश्च द्र ष्टुं न विरराम तम् ५३ ।
सख्यः पश्यत कृष्णस्य मुखमत्यरुणेक्षणम् ।
गजयुद्धकृतायासस्वेदांबुकणिकाचितम् ५४ ।
विकासिशरदंभोजमपश्यामजलोक्षितम् ।
परिभूयं स्थितं जन्म सफलं क्रियतां दृशः ५५ ।
श्रीवत्सांकं महद्धाम बालस्यैतद्विलोक्यताम् ।
विपक्षक्षपणं वक्षो भुजयुग्मं च भामिनि ५६ ।
किं न पश्यसि दुग्धेंदुमृणालधवलाकृतिम् ।
बलभद्र मिमं नीलपरिधानमुपागतम् ५७ ।
वल्गतामुष्टिकेनैव चाणूरेण तथा सखि ।
क्रीडतो बलभद्र स्य हरेर्हास्यं विलोक्यताम् ५८ ।
सख्यः पश्यत चाणूरं नियुद्धार्थमयं हरिः ।
समुपैति न संत्यत्र किं वृद्धा मुक्तकारिणः ५९ ।
क्व यौवनोन्मुखीभूतसुकुमारतनुर्हरिः ।
क्व वज्रकठिनाभोगशरीरोऽयं महासुरः ६० ।
इमौ सुललितैरंगैर्वर्त्तेते नवयौवनौ ।
दैतेयमल्लाश्चाणूरप्रमुखास्त्वतिदारुणाः ६१ ।
नियुद्धप्राश्निकानां तु महानेष व्यतिक्रमः ।
यद्बालबलिनोर्युद्धं मध्यस्थैस्समुपेक्ष्यते ६२ ।
श्रीपराशर उवाच।
इत्थं पुरस्त्रीलोकस्व वदतश्चालयन्भुवम् ।
ववल्ग बद्धकक्ष्यॐतर्जनस्य भगवान्हरिः ६३ ।
बलभद्रो ऽपि चास्फोट्य ववल्गललितं तथा ।
पदेपदे तथा भूमिर्यन्न शीर्णा तदद्भुतम् ६४ ।
चाणूरेण ततः कृष्णो ययुधेऽमितविक्रमः ।
नियुद्धकुशलो दैत्यो बलभद्रे ण मुष्टिकः ६५ ।
सन्निपातावधूतैस्तु चाणूरेण समं हरिः ।
प्रक्षेपणैर्मुष्टिभिश्च कीलवज्रनिपातनैः ६६ ।
पादोद्धूतैः प्रमृष्टैश्च तयोर्युद्धमभून्महत् ६७ ।
अशस्त्रमतिघोरं तत्तयोर्युद्धं सुदारुणम् ।
बलप्राणविनिष्पाद्यं समाजोत्सवसन्निधौ ६८ ।
यावद्यावच्च चाणूरो युयुधे हरिणा सह ।
प्राणहानिमवापाग्र्यां तावत्तावल्लवाल्लवम् ६९ ।
कृष्णोपि युयुधे तेन लीलयैव जगन्मयः ।
खेदाच्चालयता कोपान्निजकेसरश्खोरम् ७० ।
बलक्षयं विवृद्धिं च दृष्ट्वा चाणूकृष्णयोः ।
वारयामास तूर्याणि कंसः कोपपरायणः ७१ ।
मृदंगादिषु तूर्येषु प्रतिषिद्धेषु तत्क्षणात् ।
खे संगतान्यवाद्यंत देवतूर्याण्यनेकशः ७२ ।
जय गोविंद चाणूरं जहि केशव दानवम् ।
अंतर्द्धानगता देवास्तमूचुरतिहर्षिताः ७३ ।
चाणूरेण चिरं कालं पीडित्वा मधुसूदनः ।
उत्पाट्य भ्रामयामास तद्वधाय कृतोद्यमः ७४ ।
भ्रामयित्वा शतगुणं दैत्यमल्लममित्रजित् ।
भूमावास्फोटयामास गगने गतजीवितम् ७५ ।
भूमावास्फोटितस्तेन चाणूरः शतधाऽभवत् ।
रक्तस्रावमहापंकां चकार च तदा भुवम् ७६ ।
बलदेवोऽपि तत्कालं मुष्टिकेन महाबलः ।
युयुधे दैत्यमल्लेन चाणूरेण यथा हरिः ७७ ।
सोऽप्येनं मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना ।
पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम् ७८ ।
कृष्ण स्तोशलकं भूयो मल्लराजं महाबलम् ।
वाममुष्टिप्रहारेण पातयामास भूतले ७९ ।
चाणूरे नहते मल्ले मुष्टेके विनिपातिते ।
नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रु वुः ८० ।
ववल्गतुस्ततो रंगे कृष्णसंकर्षणावुभौ ।
समानवयसो गोपान्बलादाकृष्य हर्षितौ ८१ ।
कंसोऽपि कोपरक्ताक्षः प्राहोच्चैर्व्यायतान्नरान् ।
गोपावेतौ समाजौघान्निष्क्राम्येतां बलादितः ८२ ।
नंदोऽपि गृह्यतां पापो निर्गलैरायसैरिह ।
अवृद्धार्हेण दंडेन वसुदेवोऽपि बध्यताम् ८३ ।
वल्गंति गोपाः कृष्णेन ये चेमे सहिताः पुरः ।
गावो निगृह्य तामेषां यच्चास्ति वसु किंचन ८४ ।
एवमाज्ञापयानं तु प्रहस्य मधुसूदनः ।
उत्प्लुत्यारुह्य तं मंचं कंसं जग्राह वेगतः ८५ ।
केश्ष्वोआ!कृष्य विगलत्किरीटमवनीतले ।
स कंसं पातयामास तस्योपरि पपात च ८६ ।
अश्षोजगदाधारगुरुणा पततोपरि ।
कृष्णेन त्याजितः प्राणानुग्रसेनात्मजो नृपः ८७ ।
नृतस्य केश्षोउ! तदा गृहीत्वा मधुसूदनः ।
चकर्ष देहं कंसस्य रंगमध्ये महाबलः ८८ ।
गौरवेणातिपतता परिघातेन कृष्यता ।
कृता कंसस्य देहेन वेगेनेव महांभसः ८९ ।
कंसे गृहीते कृष्णेन तद्भ्राताऽभ्यागतो रुषा ।
सुनामा बलभद्रे ण लीलयैव निपातितः ९० ।
ततो हाहाकृतं सर्वमासीत्तद्रं गमंडलम् ।
अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् ९१ ।
कृष्णोऽपि वसुदेवस्य पादौ जग्राह सत्वरः ।
देवक्याश्च महाबाहुर्बलदेवसहायवान् ९२ ।
उत्थाप्य वसुदेवस्तं देवकी च जनार्दनम् ।
स्मृतजन्मोक्तवचनौ तावेव प्रणतौ स्थितौ ९३ ।
श्रीवसुदेव उवाच।
प्रसीद सीदतां दत्तो देवानां यो वरः प्रभो ।
तथावयोः प्रसादेन कृतोद्धारस्स केशव ९४ ।
आराधितो यद्भगवानवतीर्णो गृहे मम ।
दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम् ९५ ।
त्वमंतः सर्वभूतानां सर्वभूतमयस्थितः ।
प्रवर्त्तेते समस्तात्मंस्त्वत्तो भूतभविष्यती ९६ ।
यज्ञैस्त्वमिज्यसेऽचिंत्य सर्वदेवमयाच्युत ।
त्वमेव यज्ञो यष्टा च यज्वनां परमेश्वरः ९७ ।
समुद्भवस्समस्तस्य जगतस्त्वं जनार्दन ९८ ।
सापह्नवं मम मनो यदेतत्त्वयि जायते ।
देवक्याश्चात्मजप्रीत्या तदत्यंतविडंबना ९९ ।
त्वं कर्त्ता सर्वभूतानामनादिनिधनो भवान् ।
त्वं मनुष्यस्य कस्यैषा जिह्वा पुत्रेति वक्ष्यति १०० ।
जगदेतज्जगन्नाथ संभूतमखिलं यतः ।
कया युक्त्या विना मायां सोऽस्मत्तः संभविष्यति १०१ ।
यस्मिन्प्रतिष्ठितं सर्वं जगत्स्थावरजंगमम् ।
स कोष्ठोत्संगशयनो मानुषो जाय ते कथम् १०२ ।
स त्वं प्रसीद परमेश्वर पाहि विश्वमंशावतारकरणैर्न ममासि पुत्रः ।
आब्रह्यपादपमिदं जगदेतदीश त्वत्तो विमोहयसि किं पुरुषोत्तमास्मान् १०३ ।
मायाविमोहितदृशा तनयो ममेति कंसाद्भयं कृतमपास्तभयोऽतितीव्रम् ।
नीतोऽसि गोकुलमरातिभया कुलेन वृद्धिं गतोऽसि मम नास्ति ममत्वमीश १०४ ।
कर्माणि रुद्र मरुदश्विशतक्रतूनां साध्यानि यस्य न भवंति निरीक्षितानि ।
त्वं विष्णुरीश जगतामुपकारहेतोः प्राप्तोसि नः परिगतो विगतो हि मोहः १०५ ।
इति श्रीविष्णुमहापुराणे पंचमांशो! विंशोध्यायः २०।