विष्णुपुराणम्/पञ्चमांशः/अध्यायः ९
श्रीपराशर उवाच
तस्मिन्रासभदैतेये सानुगे विनिपातिते ।
सौम्यं तद्गोपगोपीनां रम्यं तालवनं बभौ ॥ ५,९.१ ॥
ततस्तौ जातहर्षौ तु वसुदेवसुतावुभौ ।
हत्वा धेनुकदैतेयं भाण्डीरवटमागतौ ॥ ५,९.२ ॥
क्ष्वेलमानौ प्रगायन्तौ विचिन्वन्तौ च पादपान् ।
चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः ॥ ५,९.३ ॥
निर्योगपाशस्कन्धौ तौ वनमालाविभूषितौ ।
शुशुभाते महात्मानौ बालशृङ्गाविवर्षभौ ॥ ५,९.४ ॥
सुवर्णाञ्जनचूर्णाभ्यां तौ तदा रूषितांबरौ ।
महेन्द्रायुधसंयुक्तौ श्वेतकृष्णाविवांबुदौ ॥ ५,९.५ ॥
चेरतुर्लौकसिद्धाभिः क्रीडाभिरितरेतरम् ।
समस्तलोकनाथानां नाथभूतौ भुवं गतौ ॥ ५,९.६ ॥
मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् ।
तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥ ५,९.७ ॥
ततस्त्वान्दोलिकाभिश्च नियुद्धैश्च महाबलौ ।
व्यायामं चक्रतुस्तत्र क्षेपणीयैस्तथाश्मभिः ॥ ५,९.८ ॥
तल्लिप्सुरसुरस्तत्र ह्युभयो रममाणयोः ।
आजगाम प्रलंबाख्यो गोपवेषतिरोहितः ॥ ५,९.९ ॥
सोऽवगाहत निःशङ्कस्तेषां मध्यममानुषः ।
मानुषं वपुरास्थाय प्रलंबो दानवोत्तमः ॥ ५,९.१० ॥
तयोशिछ्द्रान्तरप्रेप्सुरविषह्यममन्यत ।
कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम् ॥ ५,९.११ ॥
हरिणाक्रीडनं नाम बालक्रीडनकं ततः ।
प्रकुर्वन्तो हि ते सर्वे द्वौद्वौ युगपदुत्थितौ ॥ ५,९.१२ ॥
श्रीदाम्ना सह गोविन्दः प्रलंबेन तथा बलः ।
गोपालौरपरैश्चान्ये गोपालाः पुप्लुवुस्ततः ॥ ५,९.१३ ॥
श्रीदामानं ततः कृष्णः प्रलंबं रोहिणीसुतः ।
जितवान्कृष्णपक्षीयैर्गोपैरन्ये पराजिताः ॥ ५,९.१४ ॥
ते वाहयन्तस्त्वन्योन्यं भाण्डीरं वटमेत्य वै ।
पुनर्निववृतुः सर्वे येये तत्र परिजिताः ॥ ५,९.१५ ॥
संकर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः ।
नभःस्थलं जगामाशु सचन्द्र इव वारिदः ॥ ५,९.१६ ॥
असहन्रौहिणेयस्य स भारं दानवोत्तमः ।
ववृधे स महाकायः प्रावृषीव बलाहकः ॥ ५,९.१७ ॥
संकर्षणस्तु तं दृष्ट्वा दग्धशैलोपमाकृतिम् ।
स्रग्दामलंबाभरणं मकुटाटोपमस्तकम् ॥ ५,९.१८ ॥
रौद्रं शकटचक्राक्षं पादन्यास चलत्क्षितिम् ।
अभीतमनसा तेन रक्षसा रोहिणीसुतः ।
ह्रियमाणस्ततः कृष्णमिदं वचनमब्रवीत् ॥ ५,९.१९ ॥
कृष्णाकृष्ण ह्रियाम्येष पर्वतोदग्रमूर्तिना ।
केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा ॥ ५,९.२० ॥
यदत्र सांप्रतं कार्यं मया मधुनिषूदन ।
तत्कथ्यतां प्रयात्येष दुरात्मातित्वरान्वितः ॥ ५,९.२१ ॥
श्रीपराशर उवाच
तमाह रामं गोविन्दः स्मितभिन्नोष्ठसंपुटः ।
महात्मा रौहिणेयस्य बलवीर्यप्रमाणवित् ॥ ५,९.२२ ॥
श्रीकृष्ण उवाच
किमयं मानुषो भावो व्यक्तमेवावलंब्यते ।
सर्वात्मन् सर्वगुह्यानां गुह्यगुह्यात्मना त्वया ॥ ५,९.२३ ॥
स्मराशेषजगद्बीजकारणं कारणाग्रज ।
आत्मानमेकं तद्वच्च जगत्येकार्णवे च यत् ॥ ५,९.२४ ॥
किं न वेत्सि यथाहं च त्वं चैकं कारणं भुवः ।
भारावतारणार्थाय मर्त्यलोकमुपागतौ ॥ ५,९.२५ ॥
नभश्शिरस्तेंबुवहाश्च केशाः पादौ क्षितिर्वक्त्रमनन्तवह्नि ।
सोमो मनस्ते श्वसितं समीरणो दिशश्चतस्रोऽव्यय बाहवस्ते ॥ ५,९.२६ ॥
सहस्रवक्त्रो भगवान्महात्मा सहस्रहस्ताङ्घ्रिशरीरभेदः ।
सहस्रपद्मोद्भवयोनिराद्यःसहस्रशस्त्वां मुनयो गृणन्ति ॥ ५,९.२७ ॥
दिव्यं हि रूपं तव वेत्ति नान्यो देवैरशेषैरवताररूपम् ।
तदर्च्यते वेत्सि न किं यदन्ते त्वय्येव विश्वं लयमभ्युपैति ॥ ५,९.२८ ॥
त्वया धृतेयं धरणी बिभर्ति चराचरं विश्वमनन्तमूर्ते ।
कृतादिभेदैरज कालरूपो निमेषपूर्वो जगदेतदत्सि ॥ ५,९.२९ ॥
अत्तं यथा बाडववह्निनांबु हिमस्वरूपं परिगृह्य कास्तम् ।
हिमाचले भानुमतोंशुसंगाज्जलत्वमभ्येति पुनस्तदेव ॥ ५,९.३० ॥
एवं त्वया संहरणेऽत्तमेतज्जगत्समस्तं त्वदधीनकं पुनः ।
तवैव सर्गाय समुद्यतस्य जगत्त्वमभ्येत्यसुकल्पमीश ॥ ५,९.३१ ॥
भवानहं च विश्वात्मन्नेकमेव च कारणम् ।
जगतोस्य जगत्यर्थे भेदेनावां व्यवस्थितौ ॥ ५,९.३२ ॥
तत्स्मर्यताममेयात्मस्त्वयात्मा जहि दानवम् ।
मानुष्यमेवावलंब्य बन्धूनां क्रियतां हितम् ॥ ५,९.३३ ॥
श्री पराशर उवाच
इति संस्मारितो विप्र कृष्णेन सुमहात्मना ।
विहस्य पीडयामास प्रलंबं बलवान्बलः ॥ ५,९.३४ ॥
मुष्टिना सोहनन्मूर्ध्नि कोपसंरक्तलोचनः ।
तेन चास्य प्रहारेण बहिर्याते विलोचने ॥ ५,९.३५ ॥
स निष्कासितमस्तिष्को मुखाच्छोणितमुद्वमन् ।
निपपात महीपृष्ठे दत्य वर्यो ममार च ॥ ५,९.३६ ॥
प्रलंबं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा ।
प्रहृष्टास्तुष्टुवुर्गौपाःसाधुसाध्विति चाब्रुवन् ॥ ५,९.३७ ॥
संस्तूयमानो गोपैस्तु रामो दैत्ये निपातिते ।
प्रलंबं सह कृष्णेन पुनर्गोकुलमाययौ ॥ ५,९.३८ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे नवमोऽध्यायः (९)