विष्णुपुराणम्/पञ्चमांशः/अध्यायः ३७

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

श्रीपराशर उवाच।
एवं दैत्यवधं कृष्णो बलदेव सहायवान् ।
चक्रे दुष्टक्षितीशानां तथैव जगतः कृते १ ।
क्षितेश्च भारं भगवान्फाल्गुनेन समन्वितः ।
आवतारयामास विभुस्समस्ताक्षोहिणी वधात् २ ।
कृत्वा भारावतरणं भुवो हत्वाऽखिलान्नृपान् ।
शापव्याजेन विप्राणामुपसंहृतवान्कुलम् ३ ।
उत्सृज्य द्वारकां कृष्णस्त्यक्त्वा मानुष्यमात्मनः ।
सांशो विष्णुमयं स्थानं प्रविवेश मुने निजम् ४ ।
मैत्रेय उवाच।
स विप्रशापव्याजेन संजह्रे स्वकुलं कथम् ।
कथं च मानुषं देहमुत्ससर्ज जनार्दनः ५ ।
श्रीपराशर उवाच।
विश्वामित्रस्तथा कण्वो नारदश्च महामुनिः ।
पिंडारके महातीर्थे दृष्ट्वा यदुकुमारकैः ६ ।
ततस्ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः ।
सांबं जांबवतीपुत्रं भूषयित्वा स्त्रियं यथा ७ ।
प्रश्रितास्तान्मुनीनूचुः प्रणिपातपुरस्सरम् ।
इयं स्त्री पुत्रकामा वै ब्रूत किं जनयिष्यति ८ ।
श्रीपराशर उवाच।
दिव्यज्ञानोपपन्नास्ते विप्रलब्धाः कुमारकैः ।
मुनयः कुपिताः प्रोचुर्मुसलं जनयिष्यति ९ ।
सर्वयादवसंहारकारणं भुवनोत्तरम् ।
येनाखिलकुलोत्सादो यादवानां भविष्यति १० ।
इत्युक्तास्ते कुमारास्तु आचचक्षुर्यथातथम् ।
उग्रसेनाय मुसलं जज्ञे सांबस्य चोदरात् ११ ।
तदुग्रसेनो मुसलमयश्चूर्णमकारयत् ।
जज्ञे तदेरकाचूर्णं प्रक्षिप्तं तैर्महोदधौ १२ ।
मुसलस्याथ लोहस्य चूर्णितस्य तु यादवैः ।
खंडं चूर्णितशेषं तु ततो यत्तोमराकृति १३ ।
तदप्यंबुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः ।
घातितस्योदरात्तस्य लुब्धो जग्राह तज्जराः १४ ।
विज्ञातपरमार्थोपि भगवान्मधुसूदनः ।
नैच्छत्तदन्यथा कर्त्तुं विधिना यत्समीहितम् १५ ।
देवैश्च प्रहितो वायुः प्रणिपत्त्याह केशवम् ।
रहस्येवमहं दूतः प्रहितो भगवन्सुरैः १६ ।
वस्वश्विमरुदादित्यरुद्र साध्यादिभिस्सह ।
विज्ञापयति शक्रस्त्वां तदिदं श्रूयतां विभो १७ ।
भारावतरणार्थाय वर्षाणामधिकं शतम् ।
भगवानवतीर्णोत्र त्रिदशैस्सह चोदितः १८ ।
दुर्वृत्ता निहता दैत्या भुवो भारोऽवतारितः ।
त्वया मनाथास्त्रिदशा भवंतु त्रिदिवे सदा १९ ।
तदतीतं जगन्नाथ वर्षाणामधिकं शतम् ।
इदानीं गम्यतां स्वर्गो भवता यदि रोचते २० ।
देवैर्विज्ञाप्यते देव तथात्रैव रतिस्तव ।
तत्स्थीयतां यथाकालमास्थेयमनुजीविभिः २१ ।
श्रीभगवानुवाच।
यत्त्वमात्थाखिलं दूत वेद्म्येतदहमप्युत ।
प्रारब्ध एव हि मया यादवानां परिक्षयः २२ ।
भुवो नाद्यापि भारोऽयं यादवैरनिबर्हितैः ।
अवतार्य करोम्येतत्सप्तरात्रेण सत्वरः २३ ।
यथा गृहीतमंभोधेर्दत्त्वाहं द्वारकाभुवम् ।
यादवानुपसंहृत्य यास्यामि त्रिदशालयम् २४ ।
मनुष्यदेहमुत्सृज्य संकर्षणसहायवान् ।
प्राप्त एवास्मि मंतव्यो देवेंद्रे ण तथाऽमरैः २५ ।
जरासंधादयो येऽन्ये निहता भारहेतवः ।
क्षितेस्तेभ्यःकुमारोऽपि यदूनां नापचीयते २६ ।
तदेतं सुमहाभारमवतार्य क्षितेरहम् ।
यास्याम्यमरलोकस्य पालनाय ब्रवीहि तान् २७ ।
श्रीपराशर उवाच।
इत्युक्तो वासुदेवेन देवदूतः प्रणम्य तम् ।
मैत्रेय दिव्यया गत्या देवराजांतिकं ययौ २८ ।
भगवानप्यथोत्पातान्दिव्यभौमांतरिक्षजान् ।
ददर्श द्वारकापुर्य्यां विनाशाय दिवानिशम् २९ ।
तान्दृष्ट्वा यादवानाह पश्यध्वमतिदारुणान् ।
महोत्पाताञ्छमायैषां प्रभासं याम मा चिरम् ३० ।
श्रीपराशर उवाच।
एवमुक्ते तु कृष्णेन यादवप्रवरस्ततः ।
महाभागवतः प्राह प्रणिपत्योद्धवो हरिम् ३१ ।
भगवन्यन्मया कार्यं तदाज्ञापय सांप्रतम् ।
मन्ये कुलमिदं सर्वं भगवान्संहरिष्यति ३२ ।
नाशायास्य निमित्तानि कुलस्याच्युत लक्षये ३३ ।
श्रीभगवानुवाच।
गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया ।
यद्बदर्याश्रमं पुण्यं गंधमादनपर्वते ।
नरनारायणस्थाने तत्पवित्रं महीतले ३४ ।
मन्मना मत्प्रसादेन तत्र सिद्धिमवाप्स्यसि ।
अहं स्वर्गं गमिष्यामि ह्युपसंहृत्य वै कुलम् ३५ ।
द्वारकां च मया त्यक्तां समुद्र ः! प्लावयिष्यति ।
मद्वेश्म चैकं मुक्त्वा तु भयान्मत्तो जलाशये ।
तत्र सन्निहितश्चाहं भक्तानां हितकाम्यया ३६ ।
श्रीपराशर उवाच।
इत्युक्तः प्रणिपत्यैनं जगामाशु तपोवनम् ।
नरनारायणस्थानं केशवेनानुमोदितः ३७ ।
ततस्ते यादवास्सर्वे रथानारुह्य शीघ्रगान् ।
प्रभासं प्रययुस्सार्द्धं कृष्णरामादिभिर्द्विज ३८ ।
प्रभासं समनुप्राप्ताः कुकुरांधकवृष्णयः ।
चक्रुस्तत्र महापानं वासुदेवेन चोदिताः ३९ ।
पिबतां तत्र चैतेषां संघर्षेण परस्परम् ।
अतिवादेंधनो जज्ञे कलहाग्निः क्षयावहः ४० ।
मैत्रेय उवाच।
स्वंस्वं वै भुंजतां तेषां कलहः किंनिमित्तकः ।
संघर्षो वा द्विजश्रेष्ठ तन्ममाख्यातुमर्हसि ४१ ।
श्रीपराशर उवाच।
मृष्टं मदीयमन्नं ते न मृष्टमिति जल्पताम् ।
मृष्टामृष्टकथा जज्ञे संघर्षकलहौ ततः ४२ ।
ततश्चान्योन्यमभ्येत्य क्रोधसंरक्तलोचनाः ।
जघ्नुः परस्परं ते तु शस्त्रैर्दैवबलात्कृताः ४३ ।
क्षीणशस्त्राश्च जगृहुः प्रत्यासन्नामथैरकाम् ४४ ।
एरका तु गृहीता वै वज्रभूतेव लक्ष्यते ।
तया परस्परं जघ्नुस्संप्रहारे सुदारुणे ४५ ।
प्रद्युम्नसांबप्रमुखाः कृतवर्माथ सात्यकिः ।
अनिरुद्धादयश्चान्ये पृथुर्विपृथुरेव च ४६ ।
चारुवर्मा चारुकश्च तथाक्रूरादयो द्विज ।
एरकारूपिभिर्वज्रैस्ते निजघ्नुः परस्परम् ४७ ।
निवारयामास हरिर्यादवांस्ते च केशवम् ।
सहायं मेनिरेरीणां प्राप्तं जघ्नुः परस्परम् ४८ ।
कृष्णोऽपि कुपितस्तेषामेरकामुष्टिमाददे ।
वधाय सोपि मुसलं मुष्टर्लौहमभूत्तदा ४९ ।
जघान तेन निश्श्षोआ!न्यादवानाततायिनः ।
जघ्नुस्ते सहसाभ्येत्य तथाऽन्येपि परस्परम् ५० ।
ततश्चार्णवमध्येन जैत्रोऽसौ चक्रिणो रथः ।
पश्यतो दारुकस्याथ प्रायादश्वैर्धृतो द्विज ५१ ।
चक्रं गदा तथा शार्ङ्गं तूणीशंखोसिरेव च ।
प्रदक्षिणं हरिं कृत्वा जग्मुरादित्यवर्त्त्मना ५२ ।
क्षणेन नाभवत्कश्चिद्यादवानामघातितः ।
ऋते कृष्णं महात्मानं दारुकं च महामुने ५३ ।
चंक्रम्यमाणौ तौ रामं वृक्षमूले कृतासनम् ।
ददृशाते मुखाच्चास्य निष्क्रामंतं महोरगम् ५४ ।
निष्क्रम्य स मखात्तस्य महाभोगो भुजंगमः ।
प्रययावर्णवं सिद्धैः पूज्यमानस्तथोरगैः ५५ ।
ततोर्घ्यमादाय तदा जलधिस्संमुखं ययौ ।
प्रविवेश ततस्तोयं पूजितः पन्नगोत्तमैः ५६ ।
दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः ।
इदं सर्वं समाचक्ष्व वसुदेवोग्रसेनयोः ५७ ।
निर्याणं बलभद्र स्य यादवानां तथा क्षयम् ।
योगे स्थित्वाहमप्येतत्परित्यक्ष्ये कलेवरम् ५८ ।
वाच्यश्च द्वारकावासी जनस्सर्वस्तथाहुकः ।
यथेमां नगरीं सर्वां समुद्र ः! प्लावयिष्यति ५९ ।
तस्माद्भवद्भिस्सर्वैस्तु प्रतीक्ष्यो ह्यर्जुनागमः ।
न स्थेयं द्वारकामध्ये निष्क्रांते तत्र पांडवे ६० ।
तेनैव सह गंतव्यं यत्र याति स कौरवः ६१ ।
गत्वा च ब्रूहि कौंतेयमर्जुनं वचनान्मम ।
पालनीयस्त्वया शक्त्या जनोऽयं मत्परिग्रहः ६२ ।
त्वमर्जुनेन सहितो द्वारवत्यां तथा जनम् ।
गृहीत्वा यादि वज्रश्च यदुराजो भविष्यति ६३ ।
श्रीपराशर उवाच।
इत्युक्तो दारुकः कृष्णं प्रणिपत्य पुनःपुनः ।
प्रदक्षिणं च बहुशः कृत्वा प्रायाद्यथोदितम् ६४ ।
स च गत्वा तदाचष्ट द्वारकायां तथाऽर्जुनम् ।
आनिनाय महाबुद्धिर्वज्रं चक्रे तथा नृपम् ६५ ।
भगवानपि गोविंदो वासुदेवात्मकं परम् ।
ब्रह्मात्मनि समारोप्य सर्वभूतेष्वधारयत् ।
निष्प्रपंचे महाभाग संयोज्यात्मानमात्मनि ।
तुर्यावस्थसलीलं च श्तोए!स्म पुरुषोत्तमः ६६ ।
संमानयन्द्विजवचो दुर्वासा यदुवाच ह ।
योगयुक्तोऽभवत्पादं कृत्वा जानुनि सत्तम ६७ ।
आययौ स जरानाम तदा तत्र स लुब्धकः ।
मुसलावशेषलोहैकसायकन्यस्ततोमरः ६८ ।
स तत्पादं मृगाकारमवेक्ष्यारादवस्थितः ।
तले विव्याध तेनैव तोमरेण द्विजोत्तम ६९ ।
ततश्च ददृशो! तत्र चदुर्बाहुधरं नरम् ।
प्रणिपत्त्याह चैवैनं प्रसीदेति पुनःपुनः ७० ।
अजानता कृतमिदं मया हरिणशंकया ।
क्षम्यतां मम पापेन दग्धं मां त्रातुमर्हसि ७१ ।
श्रीपराशर उवाच।
ततस्तं भगवानाह न तेस्तु भयमण्वपि ।
गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गं सुरास्पदम् ७२ ।
श्रीपराशर उवाच।
विमानमागतं सद्यस्तद्वाक्यसमनंतरम् ।
आरुह्य प्रययौ स्वर्गं लुब्धकस्तत्प्रसादतः ७३ ।
गते तस्मिन्सभगवान्संयोज्यात्मानमात्मनि ।
ब्रह्मभूतेऽव्ययेचिंत्ये वासुदेवमयेऽमले ७४ ।
अजन्मन्यमरे विष्णावप्रमेयेऽखिलात्मनि ।
तत्याज मानुषं देहमतीत्य त्रिविधां गतिम् ७५ ।
इति श्रीविष्णुमहापुराणे पंचमांशे सप्तत्रिंशोऽध्यायः। ३७।