विष्णुपुराणम्/पञ्चमांशः/अध्यायः २३
श्रीपराशर उवाच
गार्ग्यं गोष्ठ्यां द्विजं श्यालष्षंड इत्युक्तवान्द्विज
यदूनां सन्निधौ सर्वे जहसुर्यादवास्तदा १
ततः कोपपरीतात्मा दक्षिणापथमेत्य सः
सुतमिच्छंस्तपस्तेपे यदुचक्रभयावहम् २
आराधयन्महादेवं लोहचूर्णमभक्षयत्
ददौ वरं च तुष्टोऽस्मै वर्षे तु द्वादशो! हरः ३
संतोषयामास च तं यवनेशो ह्यनात्मजः
तद्योषित्संगमाच्चास्य पुत्रोऽभूदलिसन्निभः ४
तं कालयवनं नाम राये स्वे यवनेश्वरः
अभिषिच्य वनं यातो वज्राग्रकठिनोरसम् ५
स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान्
अपृच्छन्नारदस्तस्मै कथयामास यादवान् ६
म्लेच्छकोटिसहस्राणां सहस्रैस्सोभिसंवृतः
गजाश्वरथसंपन्नैश्चकार परमोद्यमम् ७
प्रययौ स व्यवच्छिन्नं छिन्नयानो दिनेदिने
यादवान्प्रति सामर्षो मैत्रेय मथुरां पुरीम् ८
कृष्णोऽपि चिंतयामास क्षपितं यादवं बलम्
यवनेन रणे गम्यं मागधस्य भविष्यति ९
मागधस्य बलं क्षीणं स कालयवनो बली
हंतैतदेवमायातं यदूनां व्यसनं द्विधा १०
तस्माद्दुर्गं करिष्यामि यदूनामरिदुर्जयम्
स्त्रियोऽपि यत्र युद्धेयुः किं पुनर्वृष्णिपुंगवाः ११
मयि मत्ते प्रमत्ते वा सुप्ते प्रवसितेऽपि वा
यादवाभिभवं दुष्टा मा कुर्वंस्त्वरयोधिकाः १२
इति संचिंत्य गोविंदो योजनानां महोदधिम्
ययाचे द्वादशपुरीं द्वारकां तत्र निर्ममे १३
महोद्यानां महावप्रां तटाकशतशोभिताम्
प्रासादगृहसंबाधामिंद्रस्येवामरावतीम् १४
मथुरावासिनं लोकं तत्रानीय जनार्दनः
आसन्ने कालयवने मथुरां च स्वयं ययौ १५
बहिरावासिते सैन्ये मथुराया निरायुधः
निर्जगाम च गोविंदो ददर्श यवनश्च तम् १६
स ज्ञात्वा वासुदेवं तं बाहुप्रहरणं नृपः
अनुयातो महायोगी चेतोभिः प्राप्यते न यः १७
तेनानुयातः कृष्णोऽपि प्रविवेश महागुहाम्
यत्र शेते महावीर्यो मुचुकुंदो नरेश्वरः १८
सोऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नृपम्
पादेन ताडयामास मत्वा कृष्णं सुदुर्मतिः १९
उत्थाय मुचुकुंदोऽपि ददर्श यवनं नृपः २०
दृष्टमात्रश्च तेनाऽसौ जज्वाल यवनोग्निना
तत्क्रोधजेन मैत्रेय भस्मीभूतश्च तत्क्षणात् २१
स हि देवासुरे युद्धे गतो हत्वा महासुरान्
निद्रा र्त्तस्सुमहाकालं निद्रा ं! वव्रे वरं सुरान् २२
प्रोक्तश्च देवैस्संसुप्तं यस्त्वामुत्थापयिष्यति
देहजेनाग्निना सद्यस्स तु भस्मीभविष्यति २३
एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम्
कस्त्वमित्याह सोऽप्याह जातोहं शशिनः कुले
वसुदेवस्य तनयो यदोर्वंशसमुद्भवः २४
मुचुकुंदोऽपि तत्राऽसौ वृद्धगार्ग्यवचोऽस्मरत् २५
संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम्
प्राह ज्ञानो भवान्विष्णोरंशस्त्वं परमेश्वर २६
पुरा गार्ग्येण कथितमष्टाविंशतिमे युगे
द्वापरांते हरेर्जन्म यदुवंशो! भविष्यति २७
स त्वं प्राप्तो न संदेहो मर्त्त्यानामुपकारकृत् २८
तथाहि सुमहत्तेजो नालं सोढुमहं तव
तथाहि सजलांभोदनादधीरतरं तव
वाक्यं नमति चैवोर्वी युष्मत्पादप्रपीडिता २९
देवासुरमहायुद्धे दैत्यसैन्यमहाभटाः
न सेहुर्मम तेजस्ते त्वत्तेजो न सहाम्यहम् ३०
संसारपतितस्यैको जंतोस्त्वं शरणं परम्
प्रसीद त्वं प्रपन्नार्त्तिहर नाशय मेऽशुभम् ३१
त्वं पयो निधयश्शैलसरितस्त्वं वनानि च
मेदिनी गगनं वायुरापोग्निस्त्वं तथा मनः ३२
बुद्धिरव्याकृतप्राणाः प्राणेशस्त्वं तथा पुमान्
पुंसः परतरं यच्च व्याप्य जन्म विकारवत् ३३
शब्दादिहीनमजरममेयं क्षयवर्जितम्
अवृद्धिनाशं तद्ब्रह्म त्वमाद्यंतविवर्जितम् ३४
त्वत्तोऽमरास्सपितरो यक्षगंधर्वकिन्नराः
सिद्धाश्चाप्सरसस्त्वत्तो मनुष्याः पशवः खगाः ३५
सरीसृपा मृगास्सर्वे त्वत्तस्सर्वे महीरुहाः
यच्च भूतं भविष्यं च किंचिदत्र चराचरम् ३६
मूर्त्तामूर्त्तं तथा चापि स्थूलं सूक्ष्मतरं तथा
तत्सर्वं त्वं जगत्कर्त्ता नास्ति किंचित्त्वया विना ३७
मया संसारचक्रेऽस्मिन्भ्रमता भगवंस्तदा
तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्वचित् ३८
दुःखान्येव सुखानीति मृगतृष्णाजलाशयाः
मया नाथ गृहीतानि तानि तापाय मेऽभवन् ३९
राज्यमुर्वी बलं कोशो मित्रपक्षस्तथात्मजाः
भार्या भृत्य जनो ये च शब्दाद्या विषयाः प्रभो ४०
सुखबुद्ध्या मया सर्वं गृहीतमिदमव्ययम्
परिणामे तदेवेश तापात्मकमभून्मम ४१
देवलोकगतिं प्राप्तो नाथ देवगणोऽपि हि
मत्तस्साहाय्यकामोभूच्छाश्वती कुत्र निर्वृतिः ४२
त्वामनाराध्य जगतां सर्वेषां प्रभवास्पदम्
शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ४३
त्वन्मायामूढमनसो जन्ममृत्युजरादिकान्
अवाप्य तापान्पश्यंति प्रेतराजमनंतरम् ४४
ततो निजक्रियासूतिनरकेष्वतिदारुणम्
प्राप्नुवंति नरा दुःखमस्वरूपविदस्तव ४५
अहमत्यंतविषयी मोहितस्तव मायया
ममत्वगर्वगर्त्तांतर्भ्रमामि परमेश्वर ४६
सोऽहं त्वां शरणमपारमप्रमेयं संप्राप्तः परमपदं यतो न किंचित्
संसारभ्रमपरितापतप्तचेतानिर्वाणे परिणतधाम्नि साभिलाषः ४७
इति श्रीविष्णुमहापुराणे पंचमांशो! त्रयोविंशोऽध्यायः २३