ऋग्वेदः सूक्तं २.१

(ऋग्वेद: सूक्तं २.१ इत्यस्मात् पुनर्निर्दिष्टम्)
ऋग्वेदः - मण्डल २
सूक्तं २.१
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.२ →
दे. अग्निः। जगती


त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि ।
त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः ॥१॥
तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः ।
तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥२॥
त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः ।
त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते त्वं विधर्तः सचसे पुरंध्या ॥३॥
त्वमग्ने राजा वरुणो धृतव्रतस्त्वं मित्रो भवसि दस्म ईड्यः ।
त्वमर्यमा सत्पतिर्यस्य सम्भुजं त्वमंशो विदथे देव भाजयुः ॥४॥
त्वमग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् ।
त्वमाशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः ॥५॥
त्वमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पृक्ष ईशिषे ।
त्वं वातैररुणैर्यासि शंगयस्त्वं पूषा विधतः पासि नु त्मना ॥६॥
त्वमग्ने द्रविणोदा अरंकृते त्वं देवः सविता रत्नधा असि ।
त्वं भगो नृपते वस्व ईशिषे त्वं पायुर्दमे यस्तेऽविधत् ॥७॥
त्वामग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रमृञ्जते ।
त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश प्रति ॥८॥
त्वामग्ने पितरमिष्टिभिर्नरस्त्वां भ्रात्राय शम्या तनूरुचम् ।
त्वं पुत्रो भवसि यस्तेऽविधत्त्वं सखा सुशेवः पास्याधृषः ॥९॥
त्वमग्न ऋभुराके नमस्यस्त्वं वाजस्य क्षुमतो राय ईशिषे ।
त्वं वि भास्यनु दक्षि दावने त्वं विशिक्षुरसि यज्ञमातनिः ॥१०॥
त्वमग्ने अदितिर्देव दाशुषे त्वं होत्रा भारती वर्धसे गिरा ।
त्वमिळा शतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती ॥११॥
त्वमग्ने सुभृत उत्तमं वयस्तव स्पार्हे वर्ण आ संदृशि श्रियः ।
त्वं वाजः प्रतरणो बृहन्नसि त्वं रयिर्बहुलो विश्वतस्पृथुः ॥१२॥
त्वामग्न आदित्यास आस्यं त्वां जिह्वां शुचयश्चक्रिरे कवे ।
त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविरदन्त्याहुतम् ॥१३॥
त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविरदन्त्याहुतम् ।
त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः ॥१४॥
त्वं तान्सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे ।
पृक्षो यदत्र महिना वि ते भुवदनु द्यावापृथिवी रोदसी उभे ॥१५॥
ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजन्ति सूरयः ।
अस्माञ्च ताँश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः ॥१६॥

सायणभाष्यम्

॥ अथ द्वितीयं मंडलं ॥ शतर्चिनां प्रथमं मंडलं व्याख्यातं । अथ गार्त्समदं द्वितीयं मंडलं व्याख्यायते । त्वमग्ने द्युभिरित्यादिकं द्वितीयं मंडलं । चत्वारोऽनुवाकाः । तेषु प्रथमेऽनुवाक एकादश सूक्तानि । तत्र त्वमग्ने द्युभिरिति षोडशर्चं प्रथमं सूक्तं । मंडलद्रष्टा गृत्समद ऋषिः । स च पूर्वमांगिरसकुले शुनहोत्रस्य पुत्रः सन् यज्ञकालेऽसुरैर्गृहीत इंद्रेण मोचितः। पश्चात्तद्वचनेनैव भृगुकुले शुनकपुत्रो गृत्समदनामाभूत्। तथा चानुक्रमणिका । य आंगिरस: शौनहोत्रो भूत्वा भार्गव: शौनकोऽभवत्स गृत्समदो द्वितीयं मंडलमपश्यदिति। तथा तस्यैव शौनकस्य वचनमृष्यनुक्रमणे। त्वमग्न इति गृत्समदः शौनको भृगुतां गतः । शौनहोत्र: प्रकृत्या तु य आंगिरस उच्यत इति। तस्मान्मंडलद्रष्टा शौनको गृत्समद ऋषिः। जगती छंदः। मंडलादिपरिभाषयाग्नेयं । अत्रानुक्रमणिका। त्वमग्ने जागतं त्विति ॥ प्रातरनुवाकाश्विन शस्त्रयोर्जागते छंदसीदमादिसूक्तद्वयस्य विनियोगः । त्वमग्ने द्युभिरिति सूक्ते । आ०४, १३.। इति सूत्रितत्वात ॥ उपाकरणोत्सर्जनयोरप्याद्या विनियुक्ता ॥


त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ ।

त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥१

त्वम् । अ॒ग्ने॒ । द्युऽभिः॑ । त्वम् । आ॒शु॒शु॒क्षणिः॑ । त्वम् । अ॒त्ऽभ्यः । त्वम् । अश्म॑नः । परि॑ ।

त्वम् । वने॑भ्यः । त्वम् । ओष॑धीभ्यः । त्वम् । नृ॒णाम् । नृ॒ऽप॒ते॒ । जा॒य॒से॒ । शुचिः॑ ॥१

त्वम् । अग्ने । द्युऽभिः । त्वम् । आशुशुक्षणिः । त्वम् । अत्ऽभ्यः । त्वम् । अश्मनः । परि ।

त्वम् । वनेभ्यः । त्वम् । ओषधीभ्यः । त्वम् । नृणाम् । नृऽपते । जायसे । शुचिः ॥१

हे अग्ने अग्रणीत्वादिगुणविशिष्ट हे नृणां नृपते। नृणां मनुष्याणां मध्ये ये नरा यष्टार: संति तेषां विशेषेण पालयितः। यद्वोभाभ्यां पदाभ्यां बहुत्वं नित्यस्वामित्वं च प्रतिपाद्यते। सर्वेषामपि नराणां नित्यपालकेत्यर्थः। नृणामित्यस्य निघाताभावश्छांदसः ॥ तादृश हे देव त्वं द्युभिर्यागदिवसैर्निमित्तभूतैर्जायसे । यागार्थं मथनेनोत्पद्यस इत्यर्थः। यद्वा तादृशैर्दिवसैः सहितो जायसे।तत्तद्यागदिवसेषु प्रसिद्धो भवसीत्यर्थः। तथा त्वमाशुशुक्षणिर्जायसे । आ सर्वतो दीप्यमानो भवसि ॥ आड्युपपदे शुच दीप्तावित्येतस्य सनंतस्य छांदसमिदं रूपं । यद्वा आशु शीघ्रं शुच दीप्त: सन् यतः स सेव्यत इति। आशु शुचं शोकं सनोति ददाति शत्रुभ्यो दाहादिनेत्याशुशुक्षणिः ॥ तादृशो भवसि । एवं सर्वत्र प्रतिविशेषणं जायस इति योज्यं । हे अग्ने त्वमद्भ्यो वृष्ट्युदकेभ्यो जायसे वैद्युतरूपेण वाडवरूपेण वा समुद्रोदकेभ्यः। अश्मनो मेघात्पाषाणाद्वा परि जायसे । यो अश्मनोरंतरग्निं जजान।।२. १२.३ । इति हि मंत्रांतरं। त्वं वनेभ्यो वृक्षादिसमूहेभ्यो दावरूपण। त्वमोषधीभ्यो वैश्वानररूपेण । एवं महानुभावस्त्वं मथनेनोत्पन्न: सन् सर्वात्मको भवसीत्यर्थः। शुचिरेव जायसे । यद्वा शुचिरादित्यरूपो जायस इत्यर्थ:। अत्र त्वमग्ने द्युभिरहोभिरित्यादि निरुक्तमनुसंधेयं। नि० ६. १


तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः ।

तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥२

तव॑ । अ॒ग्ने॒ । हो॒त्रम् । तव॑ । पो॒त्रम् । ऋ॒त्विय॑म् । तव॑ । ने॒ष्ट्रम् । त्वम् । अ॒ग्नित् । ऋ॒त॒ऽय॒तः ।

तव॑ । प्र॒ऽशा॒स्त्रम् । त्वम् । अ॒ध्व॒रि॒ऽय॒सि॒ । ब्र॒ह्मा । च॒ । असि॑ । गृ॒हऽप॑तिः । च॒ । नः॒ । दमे॑ ॥२

तव । अग्ने । होत्रम् । तव । पोत्रम् । ऋत्वियम् । तव । नेष्ट्रम् । त्वम् । अग्नित् । ऋतऽयतः ।

तव । प्रऽशास्त्रम् । त्वम् । अध्वरिऽयसि । ब्रह्मा । च । असि । गृहऽपतिः । च । नः । दमे ॥२

हे अग्ने होत्रं होतुः कर्म शस्त्रयाज्यादिलक्षणं यदस्ति तदपि तवैव । त्वदर्थमित्यर्थः । तथा पोत्रं पोतुः कर्म यदस्ति तदपि तवैव । तथा ऋत्वियं प्राप्तकालमार्त्विज्यं तवैव । नेष्ट्रं नेष्टुः कर्म प्रस्थितयाज्यादिरूपं तव ।। हे अग्ने त्वमग्नित् अग्नीध्रश्च त्वमेवासि । तथा ऋतायतो यज्ञमिच्छतस्तवैव प्रशास्त्रं यत्प्रशास्तुर्मैत्रावरुणस्य कर्म तत् । हे अग्ने त्वमध्वरीयसि । अध्वरं यज्ञं कामयसे । अध्वर्युर्भवसीत्यर्थः । तथाध्वर्युशब्दव्युत्पत्तेः । अध्वर्युरध्वरयुरध्वरं कामयत इति वेति हि निरुक्तं ।। १. ८. ॥ तथा ब्रह्मा ब्राह्मणाच्छंस्यप्यसि । तथा नो दमेऽस्मद्यज्ञगृहे गृहपतिश्चासीति ॥


त्वम॑ग्न॒ इन्द्रो॑ वृष॒भः स॒ताम॑सि॒ त्वं विष्णु॑रुरुगा॒यो न॑म॒स्यः॑ ।

त्वं ब्र॒ह्मा र॑यि॒विद्ब्र॑ह्मणस्पते॒ त्वं वि॑धर्तः सचसे॒ पुरं॑ध्या ॥३

त्वम् । अ॒ग्ने॒ । इन्द्रः॑ । वृ॒ष॒भः । स॒ताम् । अ॒सि॒ । त्वम् । विष्णुः॑ । उ॒रु॒ऽगा॒यः । न॒म॒स्यः॑ ।

त्वम् । ब्र॒ह्मा । र॒यि॒ऽवित् । ब्र॒ह्म॒णः॒ । प॒ते॒ । त्वम् । वि॒ध॒र्त॒रिति॑ विऽधर्तः । स॒च॒से॒ । पुर॑म्ऽध्या ॥३

त्वम् । अग्ने । इन्द्रः । वृषभः । सताम् । असि । त्वम् । विष्णुः । उरुऽगायः । नमस्यः ।

त्वम् । ब्रह्मा । रयिऽवित् । ब्रह्मणः । पते । त्वम् । विधर्तरिति विऽधर्तः । सचसे । पुरम्ऽध्या ॥३

हे अग्ने त्वं यतः सतां वृषभो वर्षितासि अत इंद्रोऽसि । यद्वा सतां साधूनामिंद्रोऽसि । कामानां वर्षितासि। त्वं विष्णुरसि । यत उरुगायो बहुभिर्गीयमानो नमस्यो नमस्कार्यश्च भवसि । हे ब्रह्मणस्पते परिवृढस्य कर्मणो मंत्रस्य वा पालयितस्त्वं यतो रयिवित् गवादिधनस्य वेत्ता अतो ब्रह्मासि । हे विधर्तर्विविधकारक वैश्वानररूपाग्ने पुरंध्या बहुप्रकारया बुद्ध्या सचसे । सह वर्तसे । सर्वदा बुद्ध्या स्तूयस इत्यर्थ: ॥


त्वम॑ग्ने॒ राजा॒ वरु॑णो धृ॒तव्र॑त॒स्त्वं मि॒त्रो भ॑वसि द॒स्म ईड्यः॑ ।

त्वम॑र्य॒मा सत्प॑ति॒र्यस्य॑ स॒म्भुजं॒ त्वमंशो॑ वि॒दथे॑ देव भाज॒युः ॥४

त्वम् । अ॒ग्ने॒ । राजा॑ । वरु॑णः । धृ॒तऽव्र॑तः । त्वम् । मि॒त्रः । भ॒व॒सि॒ । द॒स्मः । ईड्यः॑ ।

त्वम् । अ॒र्य॒मा । सत्ऽप॑तिः । यस्य॑ । स॒म्ऽभुज॑म् । त्वम् । अंशः॑ । वि॒दथे॑ । दे॒व॒ । भा॒ज॒युः ॥४

त्वम् । अग्ने । राजा । वरुणः । धृतऽव्रतः । त्वम् । मित्रः । भवसि । दस्मः । ईड्यः ।

त्वम् । अर्यमा । सत्ऽपतिः । यस्य । सम्ऽभुजम् । त्वम् । अंशः । विदथे । देव । भाजयुः ॥४

हे अग्ने त्वं यतो धृतव्रतो धारितकर्मासि अतो वरुणो राजासि । यतो दस्मः शत्रूणामुपक्षपयिता ईडयः स्तुत्यश्च अतो मित्र एतन्नामको देवोऽसि । यतः सत्पतिः सतामभिमतप्रदानेन पालयिता अतोऽर्यमा भवसि । दातृत्वं चार्यम्णो लिंगं। अर्यमेति तमाहुर्यो ददातीति। यस्यार्यम्णो दानं संभुजं संततभुजं व्यापकं भवति। यद्वा यस्य धनं संभुजं सम्यक् भोगाय साधु ग्रहीतॄणां । तथा त्वमंशः सूर्यमूर्त्यंतरभूत एतन्नामको देवोऽसि । तादृश हे देव विदथेऽस्मदीये यज्ञे भाजयुः फलानां भाजयिता प्रापयितासि ॥


त्वम॑ग्ने॒ त्वष्टा॑ विध॒ते सु॒वीर्यं॒ तव॒ ग्नावो॑ मित्रमहः सजा॒त्य॑म् ।

त्वमा॑शु॒हेमा॑ ररिषे॒ स्वश्व्यं॒ त्वं न॒रां शर्धो॑ असि पुरू॒वसुः॑ ॥५

त्वम् । अ॒ग्ने॒ । त्वष्टा॑ । वि॒ध॒ते । सु॒ऽवीर्य॑म् । तव॑ । ग्नावः॑ । मि॒त्र॒ऽम॒हः॒ । स॒ऽजा॒त्य॑म् ।

त्वम् । आ॒शु॒ऽहेमा॑ । र॒रि॒षे॒ । सु॒ऽअश्व्य॑म् । त्वम् । न॒राम् । शर्धः॑ । अ॒सि॒ । पु॒रु॒ऽवसुः॑ ॥५

त्वम् । अग्ने । त्वष्टा । विधते । सुऽवीर्यम् । तव । ग्नावः । मित्रऽमहः । सऽजात्यम् ।

त्वम् । आशुऽहेमा । ररिषे । सुऽअश्व्यम् । त्वम् । नराम् । शर्धः । असि । पुरुऽवसुः ॥५

हे अग्ने त्वष्टा फलस्य साधु संपादयिता त्वं विधते परिचरते जनाय सुवीर्यं शोभनवीर्यं। वीर्यं धनं। हेतुर्भवसि । ग्नावो याः स्तुतिवाचः संति तास्तव स्वभूताः । हे मित्रमहः हितकारितेजः सजात्यमस्माकं बांधवं रजस इत्यर्थ:। हे अग्ने आशुहेमा आशु प्रेरयिता त्वं स्वश्व्यं शोभनाश्वसमूहोपेतं फलं ररिषे। ददासि । हे अग्ने पुरूवसुः प्रभूतधनस्त्वं नरां नराणां शर्धो बलस्थानीयोऽसि ॥ ॥१७॥


त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे ।

त्वं वातै॑ररु॒णैर्या॑सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना॑ ॥६

त्वम् । अ॒ग्ने॒ । रु॒द्रः । असु॑रः । म॒हः । दि॒वः । त्वम् । शर्धः॑ । मारु॑तम् । पृ॒क्षः । ई॒शि॒षे॒ ।

त्वम् । वातैः॑ । अ॒रु॒णैः । या॒सि॒ । श॒म्ऽग॒यः । त्वम् । पू॒षा । वि॒ध॒तः । पा॒सि॒ । नु । त्मना॑ ॥६

त्वम् । अग्ने । रुद्रः । असुरः । महः । दिवः । त्वम् । शर्धः । मारुतम् । पृक्षः । ईशिषे ।

त्वम् । वातैः । अरुणैः । यासि । शम्ऽगयः । त्वम् । पूषा । विधतः । पासि । नु । त्मना ॥६

हे अग्ने त्वं महो दिवो महतो द्युलोकात् । उपलक्षणमेतत् । लोकत्रयात् । असुरः शत्रूणां निरसिता रुद्रो ऽसि । रुद्दुःखं दु:खहेतुर्वा पापादिः। तस्य द्रावयिता एतन्नामको देवोऽसि । रुद्रो वा एष यदग्निः। तै० ५.४.३.। इत्यादिष्वग्ने रुद्रशब्देन व्यवहारात्। यद्वां त्वं रुद्रः। रौति मामनिष्ट्वा नरा दुःखे पतिष्यंतीति रुद्रः। तादृशोऽसि । रुद्रो रौतीति सत इति हि निरुक्तं । तथा महो महतो द्युलोकस्य संबंध्यसुरोऽसि । असुर्बलं । तस्य दातादित्यरूपश्च त्वमसि । अग्नेर्द्युलोकसंबंध्यसुरत्वमुत वा दिवो असुराय मन्म । ५.४१. ३. । इत्यादिषु । तथा त्वं मारुतं शर्धो मरुत्समूहरूपं बलमसि । वायुरूपश्च त्वमसीत्यर्थः । एवमग्न्यादित्यवायुरूपस्त्वं । पृक्षोऽन्नस्य हविर्लक्षणस्य त्वमीशिषे। ईश्वरो भवसि। यस्मादेवं तस्मात्त्वं वातेर्वायुसदृशैररुणैररुणवर्णैरश्वैः शंगयः सुखस्य गृहरूप आवासभूतः सन् यासि । प्राप्नोषि यागगृहं । यद्वा अरुणैर्गमनशीलैर्वातैर्वायुभिरुत्पन्नः सन् यासि वने तथा त्वं पूषा सर्वस्य पोषकः सन् नु क्षिप्रं त्मना आत्मनानुग्रहरूपया स्वबुद्ध्यैव विधतः परिचरतो यजमानान् पासि ॥


त्वम॑ग्ने द्रविणो॒दा अ॑रं॒कृते॒ त्वं दे॒वः स॑वि॒ता र॑त्न॒धा अ॑सि ।

त्वं भगो॑ नृपते॒ वस्व॑ ईशिषे॒ त्वं पा॒युर्दमे॒ यस्तेऽवि॑धत् ॥७

त्वम् । अ॒ग्ने॒ । द्र॒वि॒णः॒ऽदाः । अ॒र॒म्ऽकृते॑ । त्वम् । दे॒वः । स॒वि॒ता । र॒त्न॒ऽधाः । अ॒सि॒ ।

त्वम् । भगः॑ । नृ॒ऽप॒ते॒ । वस्वः॑ । ई॒शि॒षे॒ । त्वम् । पा॒युः । दमे॑ । यः । ते॒ । अवि॑धत् ॥७

त्वम् । अग्ने । द्रविणःऽदाः । अरम्ऽकृते । त्वम् । देवः । सविता । रत्नऽधाः । असि ।

त्वम् । भगः । नृऽपते । वस्वः । ईशिषे । त्वम् । पायुः । दमे । यः । ते । अविधत् ॥७

हे अग्ने त्वमरंकृते स्वामलंकुर्वते यजमानाय द्रविणोदाः। हिरण्यस्य दातासि । देवो द्योतमानः सविता सर्वस्य सत्कर्मसु प्रेरकस्त्वं रत्नधा रमणीयानां धनानां मणिमुक्तादीनां धारयितासि । तथा हे नृपते नृणां पालकाग्ने त्वं भगो भजनीय: सन् वस्वो वसुनो धनस्येशिषे । समर्थों भवसि दातुं । यो यजमानो दमे यज्ञगृहे ते त्वामविधत् परिचरति तस्य पायुः पालकस्त्वमसि ॥


त्वाम॑ग्ने॒ दम॒ आ वि॒श्पतिं॒ विश॒स्त्वां राजा॑नं सुवि॒दत्र॑मृञ्जते ।

त्वं विश्वा॑नि स्वनीक पत्यसे॒ त्वं स॒हस्रा॑णि श॒ता दश॒ प्रति॑ ॥८

त्वाम् । अ॒ग्ने॒ । दमे॑ । आ । वि॒श्पति॑म् । विशः॑ । त्वाम् । राजा॑नम् । सु॒ऽवि॒दत्र॑म् । ऋ॒ञ्ज॒ते॒ ।

त्वम् । विश्वा॑नि । सु॒ऽअ॒नी॒क॒ । प॒त्य॒से॒ । त्वम् । स॒हस्रा॑णि । श॒ता । दश॑ । प्रति॑ ॥८

त्वाम् । अग्ने । दमे । आ । विश्पतिम् । विशः । त्वाम् । राजानम् । सुऽविदत्रम् । ऋञ्जते ।

त्वम् । विश्वानि । सुऽअनीक । पत्यसे । त्वम् । सहस्राणि । शता । दश । प्रति ॥८

हे अग्ने विश्पतिं यजमानानां पालकं त्वां विशो यजमाना दमे स्वकीये यज्ञगृह आ । आसादयति। उपसर्गवशाद्योग्यक्रियाध्याहारः ॥ तथा कृत्वा राजानं दीप्यमानं सुविदत्रं शोभनज्ञानमस्मदनुकूलचेतस्कं सुधनं वा त्वामृंजते । प्रसाधयंति ॥ ऋंजतिः प्रसाधनकर्मेति यास्कः ॥ यत एवं ततो हे स्वनीक शोभनज्वालारूपसेन त्वं विश्वानि सर्वाणि। हवींषीति शेषः। षष्ट्यर्थे द्वितीया। विश्वेषां हविषामाज्यसोमपुरोडाशादीनां पठ्यसे। ईश्वरो भवसि। ईश्वरनामैतत्। इरज्यति पत्यति इति तन्नामसु पाठात्। यद्वा पतिभावमाचरसि। त्वं तु सहस्राणि शता शतानि दश एतत्संख्याकानि प्रति। एतत्संख्याकानामभिमतसाधनानां प्रतिनिधिरित्यर्थः॥ प्रतिः प्रतिनिधिप्रतिदानयोरिति कर्मप्रवचनीयत्वं ॥ तैर्यत्फलं भवति तत्त्वया लभ्यत इत्यर्थः ॥


त्वाम॑ग्ने पि॒तर॑मि॒ष्टिभि॒र्नर॒स्त्वां भ्रा॒त्राय॒ शम्या॑ तनू॒रुच॑म् ।

त्वं पु॒त्रो भ॑वसि॒ यस्तेऽवि॑ध॒त्त्वं सखा॑ सु॒शेवः॑ पास्या॒धृषः॑ ॥९

त्वाम् । अ॒ग्ने॒ । पि॒तर॑म् । इ॒ष्टिऽभिः॑ । नरः॑ । त्वाम् । भ्रा॒त्राय॑ । शम्या॑ । त॒नू॒ऽरुच॑म् ।

त्वम् । पु॒त्रः । भ॒व॒सि॒ । यः । ते॒ । अवि॑धत् । त्वम् । सखा॑ । सु॒ऽशेवः॑ । पा॒सि॒ । आ॒ऽधृषः॑ ॥९

त्वाम् । अग्ने । पितरम् । इष्टिऽभिः । नरः । त्वाम् । भ्रात्राय । शम्या । तनूऽरुचम् ।

त्वम् । पुत्रः । भवसि । यः । ते । अविधत् । त्वम् । सखा । सुऽशेवः । पासि । आऽधृषः ॥९

हे अग्ने पितरं पालकं त्वां नरो नेतारो यजमाना इष्टिभिरेषणसाधनेर्यागैर्यजंत इति शेषः। पितृवत्पालनाय यजंत इत्यर्थः । तथा तनूरुचं शरीराणां दीपकं शरीरेषु दीप्यमानं वैश्वानरात्मना त्वां भ्रात्राय भ्रातृत्वाय सौभ्रात्राय शम्या ॥ कर्मनामैतत् ॥ कर्मणा यजंत इति शेषः। यद्वोभयत्र वक्ष्यमाणेनाविधदित्यनेन संबंध: । हे अग्ने यो नरस्ते त्वामविधत् परिचरति तस्य त्वं पुत्रो भवसि। पुत्रवत्पालयिता भवसि। तथा त्वं सखा समानख्यानः सखिवद्धितकारी सुशेवः। शेवमिति सुखनाम। सुष्ठुसुखकारी सन् आधृष आधर्षकात्मा पासि । रक्षसि । पितृत्वकामाय पितृत्वेन भ्रातृत्वकामाय भ्रातृत्वेन पुत्रत्वकामाय पुत्रस्थानीयो भवसि । त्रिप्रकारेण रक्षसीत्यर्थः ॥


त्वम॑ग्न ऋ॒भुरा॒के न॑म॒स्य१॒॑स्त्वं वाज॑स्य क्षु॒मतो॑ रा॒य ई॑शिषे ।

त्वं वि भा॒स्यनु॑ दक्षि दा॒वने॒ त्वं वि॒शिक्षु॑रसि य॒ज्ञमा॒तनिः॑ ॥१०

त्वम् । अ॒ग्ने॒ । ऋ॒भुः । आ॒के । न॒म॒स्यः॑ । त्वम् । वाज॑स्य । क्षु॒ऽमतः॑ । रा॒यः । ई॒शि॒षे॒ ।

त्वम् । वि । भा॒सि॒ । अनु॑ । ध॒क्षि॒ । दा॒वने॑ । त्वम् । वि॒ऽशिक्षुः॑ । अ॒सि॒ । य॒ज्ञम् । आ॒ऽतनिः॑ ॥१०

त्वम् । अग्ने । ऋभुः । आके । नमस्यः । त्वम् । वाजस्य । क्षुऽमतः । रायः । ईशिषे ।

त्वम् । वि । भासि । अनु । धक्षि । दावने । त्वम् । विऽशिक्षुः । असि । यज्ञम् । आऽतनिः ॥१०

हे अग्ने त्वमृभुः । उरुभासमानो मेधावी वा । त्वमाकेंऽतिके संनिधावेव नमस्यो नमस्कार्यः । स्तुत्य इत्यर्थ:। इतरदेवतावन्मंत्रप्रतिपाद्याकारेण स्तुत्यो न भवसि किंतु प्रत्यक्ष इत्यर्थ:। तथा त्वं क्षुमतः शब्दवतः सर्वत्र श्रूयमाणस्य वाजस्यान्नस्य रायो धनस्य चेशिषे । स्वामी भवसि । अतस्तद्देहीत्यर्थः । हे अग्ने त्वं विभासि । विशेषण दीप्यसे । तदर्थमनुक्रमेणैव धक्षि। दहसि काष्ठादीन् ॥ दहेर्लटि सिपि रूपं । संहितायां भष्भावाभावश्छांदसः ॥ किमर्थमेवं। दावने छेदनायांधकारस्य । यद्वा हविषो दानवते यजमानाय वा। किंच त्वं यज्ञं विशिक्षुर्विशेषेण शिक्षयिता साधयितासि ॥ न लोकाव्ययेति षष्ठ्या निषेधः ॥ तथातनिः । फलस्य सर्वतो विस्तारयिता ॥ ॥ १८ ॥


त्वम॑ग्ने॒ अदि॑तिर्देव दा॒शुषे॒ त्वं होत्रा॒ भार॑ती वर्धसे गि॒रा ।

त्वमिळा॑ श॒तहि॑मासि॒ दक्ष॑से॒ त्वं वृ॑त्र॒हा व॑सुपते॒ सर॑स्वती ॥११

त्वम् । अ॒ग्ने॒ । अदि॑तिः । दे॒व॒ । दा॒शुषे॑ । त्वम् । होत्रा॑ । भार॑ती । व॒र्ध॒से॒ । गि॒रा ।

त्वम् । इळा॑ । श॒तऽहि॑मा । अ॒सि॒ । दक्ष॑से । त्वम् । वृ॒त्र॒ऽहा । व॒सु॒ऽप॒ते॒ । सर॑स्वती ॥११

त्वम् । अग्ने । अदितिः । देव । दाशुषे । त्वम् । होत्रा । भारती । वर्धसे । गिरा ।

त्वम् । इळा । शतऽहिमा । असि । दक्षसे । त्वम् । वृत्रऽहा । वसुऽपते । सरस्वती ॥११

हे अग्ने देव त्वं दाशुषे हविर्दत्तवते यजमानायादितिरखंडयिता परिपालयितासि । यद्वा अदीना भूमिरसि । किंच त्वं होत्रा होमनिष्पादका भारती भरतख्यादित्यस्यादित्यसंबंधिनी रश्मिरूपा सती गिरा स्तुत्वा वर्धसे । प्रवृद्धो भवसि । किंच त्वं शतहिमा । हिमशब्दः कालोपलक्षकः । अपरिमितकाला नित्येळा भूमिरसि । तादृशी सती दक्षसे दानाय समर्था भवसि ॥ तिड् उत्तरवादनिघातः ॥ तथा हे वसुपते धनपालक वृत्रहा पापादेर्हंता त्वं सरस्वती। सरणवान्वायुः। तत्संबंधिन्येतन्नियामका माध्यमिकासि। आदित्याग्निवायुना संबंधिन्यो भारतीऴासरस्वत्याख्या यास्तिस्रो देव्यः संति ता अपि त्वमेवेत्यर्थः ॥


त्वम॑ग्ने॒ सुभृ॑त उत्त॒मं वय॒स्तव॑ स्पा॒र्हे वर्ण॒ आ सं॒दृशि॒ श्रियः॑ ।

त्वं वाजः॑ प्र॒तर॑णो बृ॒हन्न॑सि॒ त्वं र॒यिर्ब॑हु॒लो वि॒श्वत॑स्पृ॒थुः ॥१२

त्वम् । अ॒ग्ने॒ । सुऽभृ॑तः । उ॒त्ऽत॒मम् । वयः॑ । तव॑ । स्पा॒र्हे । वर्णे॑ । आ । स॒म्ऽदृशि॑ । श्रियः॑ ।

त्वम् । वाजः॑ । प्र॒ऽतर॑णः । बृ॒हन् । अ॒सि॒ । त्वम् । र॒यिः । ब॒हु॒लः । वि॒श्वतः॑ । पृ॒थुः ॥१२

त्वम् । अग्ने । सुऽभृतः । उत्ऽतमम् । वयः । तव । स्पार्हे । वर्णे । आ । सम्ऽदृशि । श्रियः ।

त्वम् । वाजः । प्रऽतरणः । बृहन् । असि । त्वम् । रयिः । बहुलः । विश्वतः । पृथुः ॥१२

हे अग्ने त्वं सुभृतः सुष्टु पोषितः सन् उत्तमं निरतिशयं वयोऽन्नमायुष्यं वा त्वमसि । तत्संपादकोऽसीत्यर्थ: । तथा तव स्पार्हे स्पृहणीये वणें लोहितशुष्कादिलक्षणे संदृशि सम्यग्दर्शनीये श्रिय ऐश्वर्याणि कांतयो वाश्रित्य वर्तंते ॥ उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥ किंच त्वं वाजोऽन्नं । तत्साधकत्वात्ताच्छब्द्यं । अन्नसाधक इत्यर्थः । प्रतरणः प्रतारयिता पापात् । अत एव बृहन् महानसि । तथा त्वं रयिर्धनरूपोऽसि बहुलः सर्वविषयबाहुल्योपेतो विश्वतः पृथुर्विस्तीर्णः प्रख्यात इत्यर्थः ॥


त्वाम॑ग्न आदि॒त्यास॑ आ॒स्यं१॒॑ त्वां जि॒ह्वां शुच॑यश्चक्रिरे कवे ।

त्वां रा॑ति॒षाचो॑ अध्व॒रेषु॑ सश्चिरे॒ त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ॥१३

त्वाम् । अ॒ग्ने॒ । आ॒दि॒त्यासः॑ । आ॒स्य॑म् । त्वाम् । जि॒ह्वाम् । शुच॑यः । च॒क्रि॒रे॒ । क॒वे॒ ।

त्वाम् । रा॒ति॒ऽसाचः॑ । अ॒ध्व॒रेषु॑ । स॒श्चि॒रे॒ । त्वे इति॑ । दे॒वाः । ह॒विः । अ॒द॒न्ति॒ । आऽहु॑तम् ॥१३

त्वाम् । अग्ने । आदित्यासः । आस्यम् । त्वाम् । जिह्वाम् । शुचयः । चक्रिरे । कवे ।

त्वाम् । रातिऽसाचः । अध्वरेषु । सश्चिरे । त्वे इति । देवाः । हविः । अदन्ति । आऽहुतम् ॥१३

हे अग्ने त्वामादित्यासोऽदितेः पुत्रा इंद्रादय आस्यं स्वकीयं मुखं भक्षणपानादिसाधनं चक्रिर इति वक्ष्यमाणेन संबंधः । तथा हे कवे कांतप्रज्ञ त्वामेव शुचयः शुद्धा दीप्ता वा देवा जिह्वां स्वकीयजिह्वास्थानीयमास्वादनसाधनं चक्रिरे । त्वन्मुखेनैव भक्षयंति त्वज्जिहयैवास्वादयंतीत्यर्थः । तथा त्वामेव रातिषाचः । रातिर्दान दत्तं हविरादि धनं वा। तेन समवेता देवा अध्वरेषु यज्ञेषु सश्चिरे । सेवंत त्वामेव प्रतीक्षंते विना त्वया स्वेषां हविर्भक्षणायोगात् । एवं कृत्वा त्वे त्वयि देवाः सर्व आहुतं सर्वतो दत्तं हविरदंति । भक्षयंति । एवं सर्वदेवोपकारिणं महानुभावं स्तौमीत्यर्थः ॥


त्वे अ॑ग्ने॒ विश्वे॑ अ॒मृता॑सो अ॒द्रुह॑ आ॒सा दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ।

त्वया॒ मर्ता॑सः स्वदन्त आसु॒तिं त्वं गर्भो॑ वी॒रुधां॑ जज्ञिषे॒ शुचिः॑ ॥१४

त्वे इति॑ । अ॒ग्ने॒ । विश्वे॑ । अ॒मृता॑सः । अ॒द्रुहः॑ । आ॒सा । दे॒वाः । ह॒विः । अ॒द॒न्ति॒ । आऽहु॑तम् ।

त्वया॑ । मर्ता॑सः । स्व॒द॒न्ते॒ । आ॒ऽसु॒तिम् । त्वम् । गर्भः॑ । वी॒रुधा॑म् । ज॒ज्ञि॒षे॒ । शुचिः॑ ॥१४

त्वे इति । अग्ने । विश्वे । अमृतासः । अद्रुहः । आसा । देवाः । हविः । अदन्ति । आऽहुतम् ।

त्वया । मर्तासः । स्वदन्ते । आऽसुतिम् । त्वम् । गर्भः । वीरुधाम् । जज्ञिषे । शुचिः ॥१४

हे अग्ने त्वे त्वयि विश्वे सर्वेऽमृतासोऽमरणधर्माणोऽद्रुहोऽद्रोग्धारो देवा आसा त्वदीयेनास्येनाहुतं हविरदंति । भक्षयंति ॥ आस्यशब्दस्य तृतीयेकवचने पद्दन्नोमासित्यादिनान्नादेशः । ऊडिदंपदादीति विभक्तेरुदात्तत्वं ॥ तथा मर्तासो मनुष्या अपि त्वया साधनभूतेनासुतिं रसरूपमन्नादिकं स्वदंते । आस्वादयंति । त्वमेव वीरुधां लतादीनां गर्भो गर्भस्थानीयः तेषां मध्यावस्थानात् । वसुः सर्वेषां निवासभूतः सन् जज्ञिषे । उत्पादयसि सस्याद्यन्नं ॥


त्वं तान्सं च॒ प्रति॑ चासि म॒ज्मनाग्ने॑ सुजात॒ प्र च॑ देव रिच्यसे ।

पृ॒क्षो यदत्र॑ महि॒ना वि ते॒ भुव॒दनु॒ द्यावा॑पृथि॒वी रोद॑सी उ॒भे ॥१५

त्वम् । तान् । सम् । च॒ । प्रति॑ । च॒ । अ॒सि॒ । म॒ज्मना॑ । अग्ने॑ । सु॒ऽजा॒त॒ । प्र । च॒ । दे॒व॒ । रि॒च्य॒से॒ ।

पृ॒क्षः । यत् । अत्र॑ । म॒हि॒ना । वि । ते॒ । भुव॑त् । अनु॑ । द्यावा॑पृथि॒वी इति॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥१५

त्वम् । तान् । सम् । च । प्रति । च । असि । मज्मना । अग्ने । सुऽजात । प्र । च । देव । रिच्यसे ।

पृक्षः । यत् । अत्र । महिना । वि । ते । भुवत् । अनु । द्यावापृथिवी इति । रोदसी इति । उभे इति ॥१५

हे अग्ने त्वं मज्मना बलेन तान् प्रसिद्धान्देवान् सं चासि । संगच्छसि । तैः सहितोऽपि भवसि । तथा सामर्थ्येन प्रति चासि। प्रत्येकं तैर्विभिन्नः प्रतिनिधिर्वा भवसि। प्रतिस्वीकारसमये तैः सहितो भवसि वियुक्तश्च भवसीत्यर्थः। हे सुजात शोभनजनन। शोभनमंत्रसहितमथनेनोत्पन्नत्वादग्नेः सुजन्मत्वं। तादृशाग्ने हे देव प्ररिच्यसे च । तैर्बलेन चाधिको भवसि । आधिक्ये कारणमाह ।। यत् यस्मादत्रास्मिन्यज्ञे पृक्षः सर्वमप्यन्नं ॥ व्यत्ययेन बहुवचनं। ते तवैव विभुवत्। समर्थं भवति महिना माहात्म्येन। यतो महत्त्वमस्ति अत इत्यर्थः। कुत्रेति तदुच्यते । रोदसी सर्वनिरोदनस्वभावे उभे द्यावापृथिव्यावनु । ते प्रति । तयोर्मध्ये व्याप्तमित्यर्थ: । त्वयि हुतमन्नं त्वन्महत्त्वेन लोकत्रये व्याप्तमित्यर्थः ॥


ये स्तो॒तृभ्यो॒ गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने॑ रा॒तिमु॑पसृ॒जन्ति॑ सू॒रयः॑ ।

अ॒स्माञ्च॒ ताँश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥१६

ये । स्तो॒तृऽभ्यः॑ । गोऽअ॑ग्राम् । अश्व॑ऽपेशसम् । अग्ने॑ । रा॒तिम् । उ॒प॒ऽसृ॒जन्ति॑ । सू॒रयः॑ ।

अ॒स्मान् । च॒ । तान् । च॒ । प्र । हि । नेषि॑ । वस्यः॑ । आ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥१६

ये । स्तोतृऽभ्यः । गोऽअग्राम् । अश्वऽपेशसम् । अग्ने । रातिम् । उपऽसृजन्ति । सूरयः ।

अस्मान् । च । तान् । च । प्र । हि । नेषि । वस्यः । आ । बृहत् । वदेम । विदथे । सुऽवीराः ॥१६

अनया होता स्तुतिनिगमव्याजेनाभिमतमाशास्ते । हे अग्ने सूरयो मेधाविनः प्रेरयितारो वा यजमानाः स्तोतृभ्यः स्तुतिकर्तृभ्यो गोअग्रां गावो ऽग्रगामिन्यो यस्यास्तादृशीं गोप्रमुखामश्वपेशसं ॥ पेश इति रूपनाम ॥ अश्वेन निरूपणीयां । एतद्द्वयप्राधान्याभिप्रायां । गौश्चाश्वश्चाजाश्चेति दक्षिणापरिगणनेषु गवाश्वयोः प्राथम्यात्। तादृशीं रातिमुपसृजंति। ददते। तान्यजमानानसमांश्चर्त्विजो वस्यो वसीयः श्रेष्ठं स्वर्गादिस्थान आ सर्वतः प्र हि नेषि । प्रकर्षेण नयसि खलु । नयेत्यर्थः । हि प्रसिद्धौ । वयं च सुवीराः शोभनपुत्रादिसहिता विदथे यज्ञे बृहन्महन्मंत्रजातं वदेम । उच्चारयामः । स्तुम इत्यर्थः ॥ ॥ १ ॥


टिप्पणी

अस्तौद्गृत्समदोऽग्निं च जातवेदस्यमाप्रियः ।

यज्ञेनाथ समिद्धोऽग्निर् अतोऽग्निं सप्तभिर्हुवे । ।बृहद्देवता ४.६५। ।


२.१.६ - त्वमग्ने रुद्रो असुरो मही दिवस्त्वं शर्व्वो मारुतं पृष्ट ईशिषे। त्वं पाशगन्धर्व्वशिषं पूषा विधत्तपासिना। इत्येव मन्त्रं मनसा सम्यगुच्चारयेद्द्विजः। अग्निं प्रविशते यस्तु रुद्रलोकं स गच्छति ।। - वायुपु. १.२१.६६

२.१.१५ त्वं तान्सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे।

अयं प्रतीयते यत् सं शब्दः मधुमासस्य प्रतीकः अस्ति, प्रति माधवमासस्य।



मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.१&oldid=400202" इत्यस्माद् प्रतिप्राप्तम्