ऋग्वेदः सूक्तं २.३१

(ऋग्वेद: सूक्तं २.३१ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं २.३० ऋग्वेदः - मण्डल २
सूक्तं २.३१
गृत्समद (आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः
सूक्तं २.३२ →
दे. विश्वे देवाः। जगती, ७ त्रिष्टुप्


अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा ।
प्र यद्वयो न पप्तन्वस्मनस्परि श्रवस्यवो हृषीवन्तो वनर्षदः ॥१॥
अध स्मा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम् ।
यदाशवः पद्याभिस्तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः ॥२॥
उत स्य न इन्द्रो विश्वचर्षणिर्दिवः शर्धेन मारुतेन सुक्रतुः ।
अनु नु स्थात्यवृकाभिरूतिभी रथं महे सनये वाजसातये ॥३॥
उत स्य देवो भुवनस्य सक्षणिस्त्वष्टा ग्नाभिः सजोषा जूजुवद्रथम् ।
इळा भगो बृहद्दिवोत रोदसी पूषा पुरंधिरश्विनावधा पती ॥४॥
उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगतामपीजुवा ।
स्तुषे यद्वां पृथिवि नव्यसा वच स्थातुश्च वयस्त्रिवया उपस्तिरे ॥५॥
उत वः शंसमुशिजामिव श्मस्यहिर्बुध्न्योऽज एकपादुत ।
त्रित ऋभुक्षाः सविता चनो दधेऽपां नपादाशुहेमा धिया शमि ॥६॥
एता वो वश्म्युद्यता यजत्रा अतक्षन्नायवो नव्यसे सम् ।
श्रवस्यवो वाजं चकानाः सप्तिर्न रथ्यो अह धीतिमश्याः ॥७॥


सायणभाष्यम्

' अस्माकम् ' इति सप्तर्चं नवमं सूक्तं गृत्समदस्यार्षं वैश्वदेवम् । अन्त्या त्रिष्टुप् शिष्टा जगत्यः । तथा चानुक्रान्तम्-' अस्माकं सप्त वैश्वदेवं त्रिष्टुबन्तम् ' इति । विनियोगो लैङ्गिकः ।।


अ॒स्माकं॑ मित्रावरुणावतं॒ रथ॑मादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ ।

प्र यद्वयो॒ न पप्त॒न्वस्म॑न॒स्परि॑ श्रव॒स्यवो॒ हृषी॑वन्तो वन॒र्षदः॑ ॥१

अ॒स्माक॑म् । मि॒त्रा॒व॒रु॒णा॒ । अ॒व॒त॒म् । रथ॑म् । आ॒दि॒त्यैः । रु॒द्रैः । वसु॑ऽभिः । स॒चा॒ऽभुवा॑ ।

प्र । यत् । वयः॑ । न । पप्त॑न् । वस्म॑नः । परि॑ । श्र॒व॒स्यवः॑ । हृषी॑ऽवन्तः । व॒न॒ऽसदः॑ ॥१

अस्माकं । मित्रावरुणा । अवतं । रथं। आदित्यैः। रुद्रैः। वसुऽभिः । सचाऽभुवा।

प्र। यत्। वयः। न । पप्तन्। वस्मनः। परि। श्रवस्यवः । हृषीऽवंतः। वनऽसदः ॥१॥

मित्रावरुणा हे मित्रावरुणौ आदित्यैर्धात्रर्यमादिभिर्द्वादशभिः रुद्रैरेकादशसंख्याकैः वसुभिर्धरो ध्रुव इत्यादिभिरष्टसंख्याकैः एवं त्रिभिर्देवगणैः सचाभुवा सह भवंतौ सह वर्तमानौ युवामस्माकं रथमन्नलाभाय प्रवृत्तमवतं । यद्यदास्मदीया रथा वस्मनस्परि ॥ वसंत्यस्मिन्निति वस निवासस्थानं । औणादिको मनिन् ॥ तस्मात्स्थानात्परि उपरि देशांतरे ॥ पंचम्याः परावध्यर्थ इति सत्वं । अध्यर्थ उपर्यर्थ इति वृत्तिः ॥ वयो न पक्षिण इव प्रपप्तन् । प्रपतंति । प्रकर्षेण गच्छंति ॥ पतेश्छांदसे लुङि लृदित्वात् च्लेरङादेशः । पतः पुमिति पुमागमः । कीदृशा वयः। श्रवस्यवो ऽन्नकामाः । हृषीवंतः प्राप्तहर्षाः । वनर्षदो वने वृक्षादौ निषणाः ॥ सांहितिकश्छांदसो रेफोपजनः ॥


अध॑ स्मा न॒ उद॑वता सजोषसो॒ रथं॑ देवासो अ॒भि वि॒क्षु वा॑ज॒युम् ।

यदा॒शव॒ः पद्या॑भि॒स्तित्र॑तो॒ रजः॑ पृथि॒व्याः सानौ॒ जङ्घ॑नन्त पा॒णिभिः॑ ॥२

अध॑ । स्म॒ । नः॒ । उत् । अ॒व॒त॒ । स॒ऽजो॒ष॒सः॒ । रथ॑म् । दे॒वा॒सः॒ । अ॒भि । वि॒क्षु । वा॒ज॒ऽयुम् ।

यत् । आ॒शवः॑ । पद्या॑भिः । तित्र॑तः । रजः॑ । पृ॒थि॒व्याः । सानौ॑ । जङ्घ॑नन्त । पा॒णिऽभिः॑ ॥२

अध। स्म। नः। उत्। अवत। सजोषसः। रथं । देवासः । अभि। विक्षु। वाजऽयुं ।

यत्। आशवः। पद्याभिः। तित्रतः। रजः। पृथिव्याः। सानौ। जंघनंत। पाणिऽभिः ॥२॥

हे सजोषसः समानं प्रीयमाणा देवासो देवा अध अधुना नोऽस्माकं वाजयुं वाजमन्नं कामयमानं गतिविशेषयुक्तं वा रथं विक्षु प्रजासु जनपदेष्वभिमुखमुदवत् । उदगमयत ॥ अवतिरत्र गत्यर्थः । यद्यदास्मिन्न्रथे युक्ता आशवो व्यापनशीला अश्वाः पद्याभिः पादसाध्याभिर्गतिभी रजो रंजकं मार्गं तित्रतस्तरंतः ॥ तरतेः शतरि बहुलं छंदसीति शपः श्लुः । बहुलं छंदसीत्यभ्यासस्येत्वं । अभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ पृथिव्याः प्रथिताया भूमेः सानौ समुच्छ्रिते प्रदेशे पाणिभिः पाण्युपलक्षितैः पादैर्जंघनंत । अत्यर्थं गच्छंति ॥ हंतेर्यङ्लुगंताच्छांदसो लङ् । व्यत्ययेनात्मनेपदं । बहुलं छंदसीति शपो लुगभावः ॥


उ॒त स्य न॒ इन्द्रो॑ वि॒श्वच॑र्षणिर्दि॒वः शर्धे॑न॒ मारु॑तेन सु॒क्रतुः॑ ।

अनु॒ नु स्था॑त्यवृ॒काभि॑रू॒तिभी॒ रथं॑ म॒हे स॒नये॒ वाज॑सातये ॥३

उ॒त । स्यः । नः॒ । इन्द्रः॑ । वि॒श्वऽच॑र्षणिः । दि॒वः । शर्धे॑न । मारु॑तेन । सु॒ऽक्रतुः॑ ।

अनु॑ । नु । स्था॒ति॒ । अ॒वृ॒काभिः॑ । ऊ॒तिऽभिः॑ । रथ॑म् । म॒हे । स॒नये॑ । वाज॑ऽसातये ॥३

उत । स्यः । नः । इंद्रः । विश्वऽचर्षणिः । दिवः । शर्धेन । मारुतेन । सुऽक्रतुः ।

अनु । नु। स्थाति। अवृकाभिः। ऊतिऽभिः। रथं। महे। सनये। वाजऽसातये ॥३॥

उत अपि च विश्वचर्षणिर्विश्वस्य सर्वस्य द्रष्टा यद्वा विश्वे चर्षणयो मनुष्या यस्य परिचारकाः । अथवा विश्वे सर्वे लोकाश्चर्षणयो द्रष्टव्या येन । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वं ॥ मारुतेन मरुत्समूहरूपेण शर्धेन बलेन सह सुक्रतुः शोभनकर्मा शोभनप्रज्ञो वा स्य स इंद्रोऽवृकाभिर्हिंसकरहिताभिरूतिभी रक्षाभिः सहितः सन् दिवो द्युलोकादागत्य नु अद्य नोऽस्माकं रथमनुस्थाति । आनुगुण्येनाधितिष्ठतु ॥ छांदसः शपो लुक् । किमर्थं । महे सनये महते धनाय । तथा वाजसातये वाजस्यान्नस्य सातये संभजनार्थं ॥


उ॒त स्य दे॒वो भुव॑नस्य स॒क्षणि॒स्त्वष्टा॒ ग्नाभिः॑ स॒जोषा॑ जूजुव॒द्रथ॑म् ।

इळा॒ भगो॑ बृहद्दि॒वोत रोद॑सी पू॒षा पुरं॑धिर॒श्विना॒वधा॒ पती॑ ॥४

उ॒त । स्यः । दे॒वः । भुव॑नस्य । स॒क्षणिः॑ । त्वष्टा॑ । ग्नाभिः॑ । स॒ऽजोषाः॑ । जू॒जु॒व॒त् । रथ॑म् ।

इळा॑ । भगः॑ । बृ॒ह॒त्ऽदि॒वा । उ॒त । रोद॑सी॒ इति॑ । पू॒षा । पुर॑म्ऽधिः । अ॒श्विनौ॑ । अध॑ । पती॒ इति॑ ॥४

उत । स्यः । देवः। भुवनस्य । सक्षणिः । त्वष्टा। ग्नाभिः । सऽजोषाः । जूजुवत्। रथं ।

इळा। भगः। बृहत् ऽदिवा। उत । रोदसी इति । पूषा। पुरंऽधिः । अश्विनौ। अध। पती इति ॥४॥

उत अपि च स्य स देवो दानादिगुणयुक्तो भुवनस्य भूतजातस्य सक्षणिः सचनीयः सेव्यो ग्नाभिर्देवपत्नीभिः । छंदांसि वै ग्ना इति तैत्तिरीयकं । गायत्र्यादीनि छंदांसि च देवपत्न्य इत्युक्तं । सजोषाः समानप्रीतिः । एवंगुणविशिष्टस्त्वष्टास्मदीयं रथं जूजुवत् । प्रेरयतु ॥ जु इति सौत्रो धातुर्गत्यर्थः । अस्माण्यंताल्लुङि रूपं । तथेळा तिसृणां देवीनामाद्येडाख्या देवी च रथं प्रेरयतु । बृहद्दिवा बृहन्महद्दीव्यति द्योतत इति बृहद्दिवः । इगुपधालक्षणः कः । सुपां सुलुगिति विभक्तेराकारः । तादृशो भगश्च प्रेरयतु । उत अपि च रोदसी द्यावापृथिव्यौ पुरंधिर्बहुधीः पूषा पोषको देवश्च । अधशब्दश्चार्थे ॥ पती सूर्याया भर्तारावश्विनौ च एते सर्वेऽस्मदीयं रथं प्रेरयंत्वित्यर्थः ।


उ॒त त्ये दे॒वी सु॒भगे॑ मिथू॒दृशो॒षासा॒नक्ता॒ जग॑तामपी॒जुवा॑ ।

स्तु॒षे यद्वां॑ पृथिवि॒ नव्य॑सा॒ वचः॑ स्था॒तुश्च॒ वय॒स्त्रिव॑या उप॒स्तिरे॑ ॥५

उ॒त । त्ये इति॑ । दे॒वी इति॑ । सु॒भगे॒ इति॑ सु॒ऽभगे॑ । मि॒थु॒ऽदृशा॑ । उ॒षसा॒नक्ता॑ । जग॑ताम् । अ॒पि॒ऽजुवा॑ ।

स्तु॒षे । यत् । वा॒म् । पृ॒थि॒वि॒ । नव्य॑सा । वचः॑ । स्था॒तुः । च॒ । वयः॑ । त्रिऽव॑याः । उ॒प॒ऽस्तिरे॑ ॥५

उत। त्ये इति । देवी इति। सुभगे इति सुऽभगे। मिथुऽदृशा। उषसानक्ता । जगतां। अपिऽजुवः ।।

स्तुषे। यत्। वां। पृथिवि।नव्यसा। वचः।स्थातुः। च।वयः।त्रिऽवयाः। उपऽस्तिरे॥५॥

उत अपि च त्ये ते प्रसिद्धे देवी देव्यौ देवनशीले सुभगे शोभनधने मिथूदृशा मिथः परस्परं पश्यंत्यौ एवंभूते उषासानक्ता उषाश्च रात्रिश्च जगतां जंगमानामपीजुवा प्रेरयित्र्यौ भवतः । तस्मादस्मदीयमपि रथं प्रेरयतां। उत्तरोऽर्धर्चो द्यावापृथिव्यः प्रत्यक्षकृतः । हे पृथिवि वां युवां त्वां दिवं च नव्यसा नवीयसा नवतरेण प्रशस्येन वचो वचसा ॥ सुपां सुलुगिति तृतीयाया लुक् ॥ यद्यदा स्तुषे स्तुवे ॥ उत्तमस्य व्यत्ययेन मध्यमः । तदानीं स्थातुः स्थावरस्य व्रीह्यादेः संबंधि वयोऽन्नं चरुपुरोडाशादिलक्षणं विवयाः। वय इत्यन्ननाम । ओषधिपशुसोमात्मकानि हविर्लक्षणान्यन्नानि यस्य तादृशोऽहमुपस्तिरे । उपस्तृणामि । आज्येनोपस्तरणाभिघारणपूर्वकं प्रयच्छामीत्यर्थः ॥ स्तृड् आच्छादने । लट्युत्तमे छांदसो विकरणस्य लुक् । अत्रत्यश्चशब्दश्चणिति निपातांतरं पादपूरणं । ऋत इद्धातोरितीत्वं । निपातैर्यद्यदिहंतेति निघातप्रतिषेधः ।


उ॒त व॒ः शंस॑मु॒शिजा॑मिव श्म॒स्यहि॑र्बु॒ध्न्यो॒३॒॑ऽज एक॑पादु॒त ।

त्रि॒त ऋ॑भु॒क्षाः स॑वि॒ता चनो॑ दधे॒ऽपां नपा॑दाशु॒हेमा॑ धि॒या शमि॑ ॥६

उ॒त । वः॒ । शंस॑म् । उ॒शिजा॑म्ऽइव । श्म॒सि॒ । अहिः॑ । बु॒ध्न्यः॑ । अ॒जः । एक॑ऽपात् । उ॒त ।

त्रि॒तः । ऋ॒भु॒क्षाः । स॒वि॒ता । चनः॑ । द॒धे॒ । अ॒पाम् । नपा॑त् । आ॒शु॒ऽहेमा॑ । धि॒या । शमि॑ ॥६

उत। वः । शंसं। उशिजांऽइव। श्मसि । अहिः। बुध्न्यः । अजः । एकऽपात्। उत ।

त्रितः।ऋभुक्षाः। सविता। चनः। दधे।अपां।नपात्। आशुऽहेमा।धिया।शमि ॥६॥

उत अपि च हे देवा उशिजामिव । इवेति संप्रत्यर्थीयः । अस्मत्तः स्तुतिं कामयमानानां वो युष्माकं शंसं स्तुतिं संप्रति श्मसि । उश्मसि कामयामहे ॥ वश कांतौ। इदंतो मसिः । ग्रहिज्यादिना संप्रसारणं । छांदसो वर्णलोपः ॥ उत अपि च अहिर्बुध्न्यः । बुध्नमंतरिक्षं । तत्र भवोऽहिनामा देवः । अज एकपात् । न जायत इत्यजः । एक एव पद्यते गच्छतीत्येकपात् । अज एकपात्संज्ञकः सूर्यः । त्रितस्तीर्णतम ऋभुक्षा उरुक्षय उरुनिवास ऋभूणां निवासयिता वेंद्रश्च सविता सर्वस्य प्रसविता चनोऽन्नं दधे। विदधातु । अस्मभ्यं करोतु । तथाशुहेमा शीघ्रगामी ॥ हि गतावित्यस्मादन्येभ्योऽपि दृश्यत इति मनिन् । तादृशोऽपां नपात् अपां पौत्रीयस्थानीयोऽग्निः । अद्भ्य ओषधिवनस्पतयो जायंते । ओषधिवनस्पतिभ्यश्चायमग्निर्जायत इत्यग्नेरपां पौत्रत्वं । स च धिया स्तुत्या शमि । शमीति कर्मनाम । यज्ञकर्मणि प्रीतो भवत्विति शेषः ।।


ए॒ता वो॑ व॒श्म्युद्य॑ता यजत्रा॒ अत॑क्षन्ना॒यवो॒ नव्य॑से॒ सम् ।

श्र॒व॒स्यवो॒ वाजं॑ चका॒नाः सप्ति॒र्न रथ्यो॒ अह॑ धी॒तिम॑श्याः ॥७

ए॒ता । वः॒ । व॒श्मि॒ । उत्ऽय॑ता । य॒ज॒त्राः॒ । अत॑क्षन् । आ॒यवः॑ । नव्य॑से । सम् ।

श्र॒व॒स्यवः॑ । वाज॑म् । च॒का॒नाः । सप्तिः॑ । न । रथ्यः॑ । अह॑ । धी॒तिम् । अ॒श्याः॒ ॥७

एता। वः । वश्मि। उत्ऽयता । यजत्राः । अतक्षन् । आयवः । नव्यसे । सं ।

श्रवस्यवः । वाजं। चकानाः । सप्तिः । न। रथ्यः । अह। धीतिं । अश्याः ॥७॥

हे यजत्रा यजनीया विश्वे देवा वो युष्मदीयान्येतैतान्युद्यतोद्यतानि वचांसि वश्मि । कामये । नव्यसे नवतराय स्तुत्यतमाय युष्मद्गणायायवो मत्प्रभृतयो मनुष्याः कामितानि स्तोत्राणि समतक्षन्। समस्कुर्वन् । किमिच्छंतः । श्रवस्यवः श्रवणीयं यशोऽन्नं वात्मन इच्छंतः । वाजं बलं चकानाः कामयमानाः ॥ कन दीप्तिकांतिगतिषु । लिटः कानच् ॥ रथ्यो रथसंबंधी सप्तिर्न सर्पणशीलोऽश्व इव युष्मद्गणो धीतिमस्मदीयं कर्माश्याः । प्राप्नोतु ॥ अशू व्याप्तौ । व्यत्ययेन परस्मैपदमध्यमौ । बहुलं छंदसीति विकरणस्य लुक् ॥ ॥ १४ ॥
मण्डल २

सूक्तं २.१

सूक्तं २.२

सूक्तं २.३

सूक्तं २.४

सूक्तं २.५

सूक्तं २.६

सूक्तं २.७

सूक्तं २.८

सूक्तं २.९

सूक्तं २.१०

सूक्तं २.११

सूक्तं २.१२

सूक्तं २.१३

सूक्तं २.१४

सूक्तं २.१५

सूक्तं २.१६

सूक्तं २.१७

सूक्तं २.१८

सूक्तं २.१९

सूक्तं २.२०

सूक्तं २.२१

सूक्तं २.२२

सूक्तं २.२३

सूक्तं २.२४

सूक्तं २.२५

सूक्तं २.२६

सूक्तं २.२७

सूक्तं २.२८

सूक्तं २.२९

सूक्तं २.३०

सूक्तं २.३१

सूक्तं २.३२

सूक्तं २.३३

सूक्तं २.३४

सूक्तं २.३५

सूक्तं २.३६

सूक्तं २.३७

सूक्तं २.३८

सूक्तं २.३९

सूक्तं २.४०

सूक्तं २.४१

सूक्तं २.४२

सूक्तं २.४३


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_२.३१&oldid=208865" इत्यस्माद् प्रतिप्राप्तम्