रामायणम्/बालकाण्डम्/सर्गः ४१

← सर्गः ४० रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ४२ →

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥

एकचत्वारिंशः सर्गः श्रूयताम्
रामायणम्/बालकाण्डम्

श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥

पुत्रांश्चिरगताञ्ज्ञात्वा सगरो रघुनन्दन ।
नप्तारमब्रवीद् राजा दीप्यमानं स्वतेजसा ॥१-४१-१॥

शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा ।
पितॄणां गतिमन्विच्छ येन चाश्वोऽपवाहितः ॥१-४१-२॥

अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च ।
तेषां तु प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ॥१-४१-३॥

अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि ।
सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥१-४१-४॥

एवमुक्तोंऽशुमान् सम्यक् सगरेण महात्मना ।
धनुरादाय खड्गं च जगाम लघुविक्रमः ॥१-४१-५॥

स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः ।
प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः ॥१-४१-६॥

देवदानवरक्षोभिः पिशाचपतगोरगैः ।
पूज्यमानं महातेजा दिशागजमपश्यत ॥१-४१-७॥

स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् ।
पितॄन् स परिपप्रच्छ वाजिहर्तारमेव च ॥१-४१-८॥

दिशागजस्तु तच्छ्रुत्वा प्रत्युवाच महामतिः ।
आसमञ्ज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥१-४१-९॥

तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् ।
यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥१-४१-१०॥

तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः ।
पूजितः सहयश्चैवागन्तासीत्यभिचोदितः ॥१-४१-११॥

तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः ।
भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥१-४१-१२॥

स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा ।
चुक्रोश परमार्तस्तु वधात् तेषां सुदुःखितः ॥१-४१-१३॥

यज्ञियं च हयं तत्र चरन्तमविदूरतः ।
ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥१-४१-१४॥

स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् ।
स जलार्थी महातेजा न चापश्यज्जलाशयम् ॥१-४१-१५॥

विसार्य निपुणां दृष्टिं ततोऽपश्यत् खगाधिपम् ।
पितॄणां मातुलं राम सुपर्णमनिलोपमम् ॥१-४१-१६॥

स चैनमब्रवीद् वाक्यं वैनतेयो महाबलः ।
मा शुचः पुरुषव्याघ्र वधोऽयं लोकसम्मतः ॥१-४१-१७॥

कपिलेनाप्रमेयेण दग्धा हीमे महाबलाः ।
सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ॥१-४१-१८॥

गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।
तस्यां कुरु महाबाहो पितॄणां तु जल क्रियाम् ॥१-४१-१९ ॥

भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी ।
तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया ।
षष्टिं पुत्रसहस्राणि स्वर्गलोकं गमिष्यति ॥१-४१-२०॥

निर्गच्छाश्वं महाभाग संगृह्य पुरुषर्षभ।
यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि॥१-४१-२१ ॥

सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान् ।
त्वरितं हयमादाय पुनरायान्महातपाः ॥१-४१-२२ ॥

ततो राजानमासाद्य दीक्षितं रघुनन्दन ।
न्यवेदयद् यथावृत्तं सुपर्णवचनं तथा ॥१-४१-२३॥

तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः ।
यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि ॥१-४१-२४॥

स्वपुरं त्वगमच्छ्रीमानिष्टयज्ञो महीपतिः ।
गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥१-४१-२५॥

अगत्वा निश्चयं राजा कालेन महता महान् ।
त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥१-४१-२६॥

स्रोतः सम्पाद्यताम्

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।