रामायणम्/बालकाण्डम्/सर्गः ३

(बालकाण्डे तृतीयः सर्गः ॥१-३॥ इत्यस्मात् पुनर्निर्दिष्टम्)
← सर्गः २ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ४ →
तृतीयः सर्गः श्रूयताम्
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे तृतीयः सर्गः ॥१-३॥
श्रुत्वा वस्तु समग्रं तद्धर्मार्थसहितं हितम् ।
व्यक्तमन्वेषते भूयो यद् वृत्तं तस्य धीमतः ॥१-३-१॥

उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः ।
प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ॥१-३-२॥

रामलक्ष्मणसीताभी राज्ञा दशरथेन च ।
सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः ॥१-३-३॥

हसितं भाषितं चैव गतिर्यावच्च चेष्टितम् ।
तत् सर्वं धर्मवीर्येण यथावत् संप्रपश्यति ॥१-३-४॥

स्त्रीतृतीयेन च तथा यत् प्राप्तं चरता वने ।
सत्यसन्धेन रामेण तत् सर्वं चान्ववैक्षत ॥१-३-५॥

ततः पश्यति धर्मात्मा तत् सर्वं योगमास्थितः ।
पुरा यत् तत्र निर्वृत्तं पाणावामलकं यथा ॥१-३-६॥

तत् सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महामतिः ।
अभिरामस्य रामस्य तत् सर्वं कर्तुमुद्यतः ॥१-३-७॥

कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् ।
समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ॥१-३-८॥

स यथा कथितं पूर्वं नारदेन महात्मना ।
रघुवंशस्य चरितं चकार भगवान् मुनिः ॥१-३-९॥

जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् ।
लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥१-३-१०॥

नाना चित्राः कथाश्चान्या विश्वामित्रसहायने ।
जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥१-३-११॥

रामरामविवादं च गुणान् दाशरथेस्तथा ।
तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥१-३-१२॥

विघातं चाभिषेकस्य रामस्य च विवासनम् ।
राज्ञः शोकं विलापं च परलोकस्य चाश्रयम् ॥१-३-१३॥

प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् ।
निषादाधिपसंवादं सूतोपावर्तनं तथा ॥१-३-१४॥

गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम् ।
भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥१-३-१५॥

वास्तुकर्म निवेशं च भरतागमनं तथा ।
प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥१-३-१६॥

पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् ।
दण्डकारण्यगमनं विराधस्य वधं तथा ॥१-३-१७॥

दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम्
अनसूयासमाख्यां च अङ्गरागस्य चार्पणम् ॥१-३-१८॥

दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा ।
शूर्पणख्याश्च संवादं विरूपकरणं तथा ॥१-३-१९॥

वधं खरत्रिशिरसोरुत्थानं रावणस्य च ।
मारीचस्य वधं चैव वैदेह्या हरणं तथा ॥१-३-२०॥

राघवस्य विलापं च गृध्रराजनिबर्हणम् ।
कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ॥१-३-२१॥

शबरीदर्शनं चैव फलमूलाशनं तथा ।
प्रलापं चैव पम्पायां हनूमद्दर्शनं तथा ॥१-३-२२॥

ऋष्यमूकस्य गमनं सुग्रीवेण समागमम् ।
प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥१-३-२३॥

वालिप्रमथनं चैव सुग्रीवप्रतिपादनम्
ताराविलापं समयं वर्षरात्रनिवासनम् ॥१-३-२४॥

कोपं राघवसिंहस्य बलानामुपसंग्रहम्
दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥१-३-२५॥

अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम्
प्रायोपवेशनं चैव संपातेश्चापि दर्शनम् ॥१-३-२६॥

पर्वतारोहणं चैव सागरस्यापि लङ्घनम्
समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥१-३-२७॥

राक्षसीतर्जनं चैव च्छायाग्राहस्य दर्शनम्
सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ॥१-३-२८॥

रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम्
आपानभूमिगमनमवरोधस्य दर्शनम् ॥१-३-२९॥

दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम्
अशोकवनिकायानं सीतायाश्चापि दर्शनम् ॥१-३-३०॥

अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम्
राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ॥१-३-३१॥

मणिप्रदानं सीताया वृक्षभङ्गं तथैव च
राक्षसीविद्रवं चैव किंकराणां निबर्हणम् ॥१-३-३२॥

ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम्
प्रतिप्लवनमेवाथ मधूनां हरणं तथा ॥१-३-३३॥

राघवाश्वासनं चैव मणिनिर्यातनं तथा
संगमं च समुद्रेण नलसेतोश्च बन्धनम् ॥१-३-३४॥

प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम्
विभीषणेन संसर्गं वधोपायनिवेदनम् ॥१-३-३५॥

कुम्भकर्णस्य निधनं मेघनादनिबर्हणम्
रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥१-३-३६॥

बिभीषणाभिषेकं च पुष्पकस्य च दर्शनम्
अयोध्यायाश्च गमनं भरद्वाजसमागमम् ॥१-३-३७॥

प्रेषणं वायुपुत्रस्य भरतेन समागमम्
रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्
स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥१-३-३८॥

अनागतं च यत् किंचिद् रामस्य वसुधातले
तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥१-३-३९॥



इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे तृतीयः सर्गः ॥१-३॥


स्रोतः सम्पाद्यताम्

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।