← सर्गः ३१ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः ३३ →


श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वात्रिंशः सर्गः ॥१-३२॥

द्वात्रिंशः सर्गः श्रूयताम्
रामायणम्/बालकाण्डम्


ब्रह्मयोनिर्महानासीत्कुशो नाम महातपाः
वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान् १
कुशाम्बं कुशनाभं च आधूर्त रजसं वसुम्
दीप्तियुक्तान्महोत्साहान् क्षत्रधर्मचिकीर्षया
तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः २
कुशस्य वचनं श्रुत्वा चत्वारो लोकसंमताः
निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ३
कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत्पुरीम्
कुशनाभस्तु धर्मात्मा परं चक्रे महोदयम् ४
आधूर्तरजसो राम धर्मारण्यं महीपतिः
चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम् ५
एषा वसुमती राम वसोस्तस्य महात्मनः
एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ६
सुमागधी नदी रम्या मागधान् विश्रुताययौ
पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ७
सैषा हि मागधी राम वसोस्तस्य महात्मनः
पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ८
कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम्
जनयामास धर्मात्मा घृताच्यां रघुनन्दन ९
तास्तु यौवनशालिन्यो रूपवत्यः स्वलंकृताः
उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः १०
गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च राघव
आमोदं परमं जग्मुर्वराभरणभूषिताः ११
अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि
उद्यानभूमिमागम्य तारा इव घनान्तरे १२
ताः सर्वगुणसंपन्ना रूपयौवनसंयुताः
दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् १३
अहं वः कामये सर्वा भार्या मम भविष्यथ
मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ १४
तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः
अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् १५
अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम
प्रभावज्ञाश्च ते सर्वाः किमस्मानवमन्यसे १६
कुशनाभसुताः सर्वाः समर्थास्त्वां सुरोत्तम
स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् १७
मा भूत्स कालो दुर्मेधः पितरं सत्यवादिनम्
नावमन्यस्व धर्मेण स्वयंवरमुपास्महे १८
पिता हि प्रभुरस्माकं दैवतं परमं हि सः
यस्य नो दास्यति पिता स नो भर्ता भविष्यति १९
तासां तद्वचनं श्रुत्वा वायुः परमकोपनः
प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः २०
ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम्
दृष्ट्वा भग्नास्तदा राजा संभ्रान्त इदमब्रवीत् २१
किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते
कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ २२

ब्रह्म योनिर् महान् आसीत् कुशो नाम महातपाः ।
अक्लिष्ट व्रत धर्मज्ञः सज्जन प्रति पूजकः ॥१-३२-१॥

स महात्मा कुलीनायाम् युक्तायाम् सुमहाबलान् ।
वैदर्भ्याम् जनयाम् आस चतुरः सदृशान् सुतान् ॥१-३२-२॥
कुशाम्बम् कुशनाभम् च आसूर्तरजसम् वसुम् ।

दीप्ति युक्तान् महोत्साहान् क्षत्रधर्म चिकीर्षया ॥१-३२-३॥
तान् उवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ।
क्रियताम् पालनम् पुत्रा धर्म प्राप्यथ पुष्कलम् ॥१-३२-४॥

कुशस्य वचनम् श्रुत्वा चत्वारो लोक सत्तमाः ।
निवेशम् चक्रिरे सर्वे पुराणाम् नृ वराः तदा ॥१-३२-५॥

कुशाम्बः तु महातेजाः कौशांबीम् अकरोत् पुरीम् ।
कुशनाभः तु धर्मात्मा पुरम् चक्रे महोदयम् ॥१-३२-६॥

असूर्तरजसो राम धर्मारण्यम् महामतिः ।
चक्रे पुरवरम् राजा वसुर् नाम गिरिव्रजम् ॥१-३२-७॥

एषा वसुमती नाम वसोः तस्य महात्मनः ।
एते शैलवराः पंच प्रकाशन्ते समंततः ॥१-३२-८॥

सुमागधी नदी रम्या मागधान् विश्रुता आययौ ।
पंचानाम् शैल मुख्यानाम् मध्ये माला इव शोभते ॥१-३२-९॥

सा एषा हि मागधी राम वसोः तस्य महात्मनः ।
पूर्व अभिचरिता राम सुक्षेत्रा सस्य मालिनी ॥१-३२-१०॥

कुशनाभः तु राजर्षिः कन्या शतम् अनुत्तमम् ।
जनयामास धर्मात्मा घृताच्याम् रघु नंदन ॥१-३२-११॥

ताः तु यौवन शालिन्यो रूपवत्यः स्वलंकृताः ।
उद्यान भूमिम् आगम्य प्रावृषि इव शतह्रदाः ॥१-३२-१२॥
गायंत्यो नृत्यमानाः च वादयंत्यः च राघव ।
आमोदम् परमम् जग्मुर् वर आभरण भूषिताः ॥१-३२-१३॥

अथ ताः चारु सर्व अंग्यो रूपेण अप्रतिमा भुवि ।
उद्यान भूमिम् आगम्य तारा इव घन अन्तरे ॥१-३२-१४॥

ताः सर्वगुण संपन्ना रूप यौवन संयुताः ।
दृष्ट्वा सर्वात्मको वायुर् इदम् वचनम् अब्रवीत् ॥१-३२-१५॥

अहम् वः कामये सर्वा भार्या मम भविष्यथ ।
मानुषः त्यज्यताम् भावो दीर्घम् आयुर् अवाप्स्यथ ॥१-३२-१६॥

चलम् हि यौवनम् नित्यम् मानुषेषु विशेषतः ।
अक्षयम् यौवनम् प्राप्ता अमर्यः च भविष्य्थ ॥१-३२-१७॥

तस्य तद् वचनम् श्रुत्वा वायोः अक्लिष्ट कर्मणः ।
अपहास्य ततो वाक्यम् कन्या शतम् अथ अब्रवीत् ॥१-३२-१८॥

अन्तः चरसि भूतानाम् सर्वेषाम् त्वम् सुर सत्तम ।
प्रभावज्ञाः च ते सर्वाः किम् अर्थम् अवमन्यसे ॥१-३२-१९॥

कुशनाभ सुताः देवम् समस्ता सुर सत्तम ।
स्थानात् च्यावयितुम् देवम् रक्षामः तु तपो वयम् ॥१-३२-२०॥

मा भूत् स कालो दुर्मेधः पितरम् सत्य वादिनम् ।
अवमन्यस्व स्व धर्मेण स्वयम् वरम् उपास्महे ॥१-३२-२१॥

पिता हि प्रभुर् अस्माकम् दैवतम् परमम् च सः ।
यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥१-३२-२२॥

तासाम् तु वचनम् श्रुत्वा हरिः परम कोपनः ।
प्रविश्य सर्व गात्राणि बभंज भगवान् प्रभुः ॥१-३२-२३॥

ताः कन्या वायुना भग्ना विविशुर् नृपतेः गृहम् ।
प्रविश्य च सुसंभ्रान्ताः स लज्जाः स अस्र लोचन ॥१-३२-२४॥

स च ता दयिता भग्नाः कन्याः परम शोभनाः ।
दृष्ट्वा दीनाः तदा राजा संभ्रांत इदम् अब्रवीत् ॥१-३२-२५॥

किम् इदम् कथ्यताम् पुत्र्यः को धर्मम् अवमन्यते ।
कुब्जाः केन कृताः सर्वाः चेष्टन्त्यो न अभिभाषथ ।
एवम् राजा विनिःश्वस्य समाधिम् संदधे ततः ॥१-३२-२६॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे द्वात्रिंशः सर्गः ॥१-३२॥

स्रोतःसंपादित करें

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।