रामायणम्/बालकाण्डम्/सर्गः २०
← सर्गः १९ | रामायणम्/बालकाण्डम् बालकाण्डम् वाल्मीकिः |
सर्गः २१ → |
रामायणम्/बालकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे विंशः सर्गः ॥१-२०॥
तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।
मुहूर्तमिव निःसंज्ञः संज्ञावानिदमब्रवीत् ॥१-२०-१॥
ऊनषोडशवर्षो मे रामो राजीवलोचनः ।
न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥१-२०-२॥
इयमक्षौहिणी सेना यस्याहं पतिरीश्वरः ।
अनया सहितो गत्वा योद्धाहं तैर्निशाचरैः ॥१-२०-३॥
इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः ।
योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि ॥१-२०-४॥
अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि ।
यावत् प्राणान् धरिष्यामि तावद् योत्स्ये निशाचरैः ॥१-२०-५॥
निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता ।
अहं तत्र गमिष्यामि न रामं नेतुमर्हसि ॥१-२०-६॥
बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम् ।
न चास्त्रबलसंयुक्तो न च युद्धविशारदः ॥१-२०-७॥
न चासौ रक्षसां योग्यः कूटयुद्धा हि राक्षसाः ।
विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे ॥१-२०-८॥
जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि ।
यदि वा राघवं ब्रह्मन् नेतुमिच्छसि सुव्रत ॥१-२०-९॥
चतुरङ्गसमायुक्तं मया सह च तं नय ।
षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक ॥१-२०-१०॥
कृच्छ्रेणोत्पादितश्चायं न रामं नेतुमर्हसि ।
चतुर्णामात्मजानां हि प्रीतिः परमिका मम ॥१-२०-११॥
ज्येष्ठे धर्मप्रधानेच न रामं नेतुमर्हसि ।
किंवीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते ॥१-२०-१२॥
कथं प्रमाणाः के चैतान् रक्षन्ति मुनिपुंगव ।
कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम् ॥१-२०-१३॥
मामकैर्वा बलैर्ब्रह्मन् मया वा कूटयोधिनाम् ।
सर्वं मे शंस भगवन् कथं तेषां मया रणे ॥१-२०-१४॥
स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः ।
तस्य तद् वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत ॥१-२०-१५॥
पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः ।
स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ॥१-२०-१६॥
महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः ।
श्रूयते च महाराज रावणो राक्षसाधिपः ॥१-२०-१७॥
साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ।
यदा न खलु यज्ञस्य विघ्नकर्ता महाबलः ॥१-२०-१८॥
तेन संचोदितौ तौ तु राक्षसौ सुमहाबलौ ।
मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः ॥१-२०-१९॥
इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा ।
नहि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः ॥१-२०-२०॥
स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके ।
मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः ॥१-२०-२१॥
देवदानवगन्धर्वा यक्षाः पतगपन्नगाः ।
न शक्ता रावणं सोढुं किं पुनर्मानवा युधि ॥१-२०-२२॥
स तु वीर्यवतां वीर्यमादत्ते युधि रावणः ।
तेन चाहं न शक्तोऽस्मि संयोद्धुं तस्य वा बलैः ॥१-२०-२३॥
सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः ।
कथमप्यमरप्रख्यं संग्रामाणामकोविदम् ॥१-२०-२४॥
बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम् ।
अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः ॥१-२०-२५॥
यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम् ।
मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ॥१-२०-२६॥
तयोरन्यतरं योद्धुं यास्यामि ससुहृद्गणः ।
अन्यथा त्वनुनेष्यामि भवन्तं सहबान्धवः ॥१-२०-२७॥
इति नरपतिजल्पनात् द्विजेन्द्रं
कुशिकसुतं सुमहान् विवेश मन्युः ।
सुहुत इव मखेऽग्निराज्यसिक्तः
समभवदुज्ज्वलितो महर्षिवह्निः ॥१-२०-२८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे विंशः सर्गः ॥१-२०॥
स्रोतः
सम्पाद्यताम्पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।