महाभारतम्-16-मौसलपर्व-001

← मौसलपर्व महाभारतम्
षोडशपर्व
महाभारतम्-16-मौसलपर्व-001
वेदव्यासः
मौसलपर्व-002 →

प्रजापालनेन निजनगरे भ्रातृभिः सह सुखनिवासिना युधिष्ठिरेण कदाचनाशुभसूचकोत्पातदर्शनम्।। 1 ।।
ततः कालन्तरे सबलकृष्णानां सर्वयादवानां परस्परं मौसलप्रहारेणि निश्शेषनिधनश्रवणम्।। 2 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
श्रीवेदव्यासाय नमः। 16-1-1x
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्।।
16-1-1a
16-1-1b
वैशम्पायन उवाच। 16-1-1x
षट्त्रिंशे त्वथ् संप्राप्ते वर्षे कौरवन्दनः।
ददर्श विपरीतानि निमित्तानि युधिष्टिरः।।
16-1-1a
16-1-1b
ववुर्वाताश्च निर्घाता रूक्षाः शर्करवर्षिणः।
अपसव्यानि शकुना मण्डलानि प्रचक्रिरे।।
16-1-2a
16-1-2b
प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः।
उल्काश्चाङ्गारवर्षिण्यः प्रापतन्गगनाद्भुवि।।
16-1-3a
16-1-3b
आदित्यो रजसा राजन्समवच्छन्नगनाद्भुवि।।
विरश्मिरुदये नित्यं कबन्धैः समलङ्कृतः।।
16-1-4a
16-1-4b
परिवेषाश्च दृश्यन्ते दारुणाश्च द्रसूर्ययोः।
त्रिवर्णाः श्यामरुक्षान्तास्तथा भस्मारुणप्रभाः।।
16-1-5a
16-1-5b
एते चान्ये च बहव उत्पाता भयसंसिनः।
दृश्यन्ते जगतो नाथ दिवमारोढुमिच्छति।।
16-1-6a
16-1-6b
`यस्य प्रसादाद्धर्मोऽयं कृते यद्वत्कलावपि।
पाण्डवाश्च महाभाग युक्तास्तु यशसाऽनघ।।'
16-1-7a
16-1-7b
कस्य चित्त्वथ कालस्य कुरुराजो विशङ्कितः।
शुश्राव वृष्णिचक्रस्य मुसलोत्सादनं कृतम्।।
16-1-8a
16-1-8b
विमुक्तं वासुदेवं च श्रुत्वा रामं च पाण्डवः।
समानीयाब्रवीद्भ्रातृन्कि करिष्याम इत्युत।।
16-1-9a
16-1-9b
परस्परं समासाद्य ब्रह्मदण्डबलात्कृतान्।
वृष्णिन्विनष्टास्ते श्रुत्वा व्यथिताः पाण्डवा भृशम्।।
16-1-10a
16-1-10b
निधनं वासुदेवस्य समुद्रस्येव शोषणम्।
वीरा न श्रद्दधुस्तस्य विनाशं शार्ङ्गधन्वनः।।
16-1-11a
16-1-11b
मौसलं ते समाश्रित्य दुःखशोकसमन्विताः।
विष्ण्णा हतसंकल्पाःकि पाण्डवाः समुपाविशन्।।
16-1-12a
16-1-12b
।। इति श्रीमन्महाभारते
मौसलपर्वणि प्रथमोऽध्यायः।। 1 ।।

सम्पाद्यताम्

16-1-12 मौसलं मुसलकृतं कदनं समाश्रित्य मनसि धृत्वा।।

मौसलपर्व पुटाग्रे अल्लिखितम्। मौसलपर्व-002