महाभारतम्-16-मौसलपर्व-008

← मौसलपर्व-007 महाभारतम्
षोडशपर्व
महाभारतम्-16-मौसलपर्व-008
वेदव्यासः
मौसलपर्व-009 →


अर्जुनेन वसुदेवसमाश्वासनपूर्वकं सकलपौरान्प्रति नातिचिरादेव द्वारकायाः समुद्रेण समाप्लावननिवेदनपूर्वकं सर्वेषामिन्द्रप्रस्थंप्रति प्रयाणसंनाहसंचोदना।। 1 ।।
तथा परेद्युर्योगेन शरीरंत्यक्तवतो वसुदेवस्य पत्नीभिः सह संस्करणपूर्वकं रामकृष्णशरीरयोर्दाहनम्।। 2 ।।
ततो वज्रार्जुनपुरस्कारेण सकलपौरजने पुरःपुनः प्रयाते समुद्रेण पश्चाद्भागे पौरजनमुक्ततत्तद्भागस्य स्वजलेन समाक्रमणम्।। 3 ।।
अर्जुनेन मध्येमार्गं चोरापहृतावशिष्टयादवकलत्रादिभिः सह स्वदेशमेत्य युधिष्ठिराज्ञया वज्रस्येन्द्रप्रस्थराज्येऽभिषेचनम्। तथा सात्यकिसुतादीनां तत्रतत्र राज्येऽभिषेचनम्।। 3 ।।
रुक्मिण्यादिभिः काभिश्चिदग्निप्रवेशनम्। सत्यभामादिभिः काभिश्चन तपसे वनगमनम्।। 4 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
वैशम्पायन उवाच। 16-8-1x
एवमुक्तः स बीभत्सुर्मातुलेनि परंतप।
दुर्मना दीनवदनो वसुदेवमुवाच ह।।
16-8-1a
16-8-1b
नाहं वृष्णिप्रवीरेण बन्धुभिश्चैव मातुल।
विहीनां पृथिवीं द्रष्टुं शक्तश्चिरमिह प्रभो।।
16-8-2a
16-8-2b
राजा च भीमसेनश्च सहदेवश्च पाण्डवः।
नकुलो याज्ञसेनी च षडेकमनसो वयम्।।
16-8-3a
16-8-3b
राज्ञः संक्रमणे चापि कामोऽयं नित्यमेव हि।
तमिमं विद्धि सम्प्राप्तं कालं कालविदांवर।।
16-8-4a
16-8-4b
सर्वथा वृष्णिदारांस्तु बालं वृद्धं तथैव च।
नयिष्ये परिगृह्याहमिन्द्रप्रस्थमरिंदम।।
16-8-5a
16-8-5b
इत्युक्त्वा दारुकमिदं वाक्यमाह धनंजयः।
अमात्यान्वृष्णिवीराणां द्रष्टुमिच्छामि माचिरम्।।
16-8-6a
16-8-6b
इत्येवमुक्त्वा वचनं सुधर्मां यादवीं सभाम्।
प्रविवेशार्जुनः शूरः शोचमानो महाभुजः।।
16-8-7a
16-8-7b
तमासनगतं तत्र सर्वाः प्रकृतयस्तथा।
ब्राह्मणा नागरास्तत्र परिवार्योपतस्थिरे।।
16-8-8a
16-8-8b
तान्दीनमनसः सर्वान्विमूढान्गतचेतसः।
उवाचेदं वचः काले पार्थो दीनतरस्तथा।।
16-8-9a
16-8-9b
शक्रप्रस्थमहं नेष्ये पृष्णन्धकजनं स्वयम्।
इदं तु नगरं सर्वं समुद्रः प्लावयिष्यति।।
16-8-10a
16-8-10b
सज्जीकुरुत यानानि रत्नानि विविधानि च।
वज्रोऽयं भवतां राजा शक्रप्रस्थे भविष्यति।।
16-8-11a
16-8-11b
सप्तमे दिवसे चैव रवौ विमल उद्गते।
बहिर्वत्स्यामहे सर्वे सज्जीभावत माचिरम्।।
16-8-12a
16-8-12b
इत्युक्तास्तेन ते सर्वे पार्थेनाक्लिष्टकर्मणा।
सज्जमाशु ततश्चक्रुः स्वसिद्ध्यर्थं समुत्सुकाः।।
16-8-13a
16-8-13b
तां रात्रिमवसत्पार्थः केशवस्य निवेशने।
महता शोकमोहेन सहसाऽभिपरिप्लुतः।।
16-8-14a
16-8-14b
श्वोभूतेऽथ ततः शौरिर्वसुदेवः प्रतापवान्।
युक्त्वाऽऽत्मानं महातेजा जगाम गतिमुत्तमां।।
16-8-15a
16-8-15b
ततः शब्दो महानासीद्वसुदेवनिवेशने।
दारुणः क्रोशतीनां च रुदतीनां च योषिताम्।।
16-8-16a
16-8-16b
प्रकीर्णमूर्धजाः सर्वा विमुक्ताभरणस्रजः।
उरांसि पाणिभिर्घ्नन्त्यो व्यलपन्तकरुणं स्त्रियः।
16-8-17a
16-8-17b
तं देवकी च भद्रा च रोहिणी मदिरा तथा।
अन्वारोढुं व्यवसिता भर्तारं योषितां वराः।।
16-8-18a
16-8-18b
ततः शौरिं नृयुक्तेन बहुमूल्येन भारत।
यानेन महता पार्थो बहिर्निष्क्रामयत्तदा।।
16-8-19a
16-8-19b
तमन्वयुस्तत्रतत्रं दुःखसोकसमन्विताः।
द्वारकावासिनः सर्वे पौरजानपदा हिताः।।
16-8-20a
16-8-20b
तस्याश्वमेधिकं छत्रं दीप्यमानाश्च पावकाः।
पुरस्तात्तस्य यानस्य याजकाश्च ततो ययुः।।
16-8-21a
16-8-21b
अनुजग्मुश्च तं वीरं देव्यस्ता वै स्वलङ्कृताः।।
स्त्रीसहस्रैः परिवृता वधूभिश्च सहस्रशः।।
16-8-22a
16-8-22b
यस्तु देशः प्रियस्तस्य जीवतोऽभून्महात्मनः।
तत्रैनमुपसंकल्प्य वितृमेधं प्रचक्रिरे।।
16-8-23a
16-8-23b
तं चिताग्निगतं वीरं शूरपुत्रं वराङ्गनाः।
ततोन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः।।
16-8-24a
16-8-24b
तं वै चतसृभिः स्त्रीभिरन्वितं पाण्डुनन्दनः।
अदाहयच्चन्दनैश्च गन्धैरुच्चावचैरपि।।
16-8-25a
16-8-25b
ततः प्रादुरभूच्छब्दः समिद्धस्य विभावसोः।
सामगानां च निर्घोषो नराणां रुदतामपि।।
16-8-26a
16-8-26b
ततो वज्रप्रधानास्ते वृष्ण्यन्धककुमारकाः।
सर्वे चैवोदकं चक्रुः स्त्रियश्चैव महात्मनः।
16-8-27a
16-8-27b
अलुप्तधर्मस्तं धर्मं कारयित्वा स फल्गुनः।
जगाम वृष्णयो यत्र विनष्टा भरतर्षभ।।
16-8-28a
16-8-28b
स तान्दृष्ट्वा निपतितान्कदने भृशदुःखितः।
बभूवातीव कौरव्यः प्राप्तकालं चकार ह।।
16-8-29a
16-8-29b
यथाप्रधानतश्चैव चक्रे सर्वास्तथा क्रियाः।
ये हता ब्रह्मशापेन मुसलैरेरकोद्भवैः।।
16-8-30a
16-8-30b
`ततो भगवतो देहं दृष्ट्वा शिष्यः प्रलप्य च।
स्मृत्वा तद्वचनं सर्वं मोहशोकोपबृंहितः।।'
16-8-31a
16-8-31b
ततः शरीरे रामस्य वासुदेवस्य चोभयोः।
अन्वीक्ष्य दाहयामास पुरुषैराप्तकारिभिः।।
16-8-32a
16-8-32b
स तेषां विधिवत्कृत्वा प्रेतकार्याणि पाण्डवः।
सप्तमे दिवसे प्रायाद्रथमारुह्य सत्वरः।।
16-8-33a
16-8-33b
अश्वयुक्तै रथैश्चापि गोखरोष्ट्रयुतैरपि।
स्त्रियस्ता वृष्णिवीराणां रुदन्त्यः शोककर्शिताः।।
16-8-34a
16-8-34b
अनुजग्मुर्महात्मानं पाण्डुपुत्रं धनंजयम्।
भृत्याश्चान्धकवृष्णीनां सादिनो रथिनश्च ये।।
16-8-35a
16-8-35b
वीरहीना वृद्धबालाः पौरजानपदास्तथा।
ययुस्ते परिवार्याथ कलत्रं पार्थशासनात्।।
16-8-36a
16-8-36b
कुञ्जरैश्च गजारोहा ययुः शैलनिर्भस्तथा।
सपादरक्षैः संयुक्ताः सोत्तरायुधिका ययुः।।
16-8-37a
16-8-37b
पुत्राश्चान्धकवृष्णीनां सर्वे पार्थमनुव्रताः।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महाधनाः।।
16-8-38a
16-8-38b
दश षट् च सहस्राणि वासुदेवावरोधनम्।
पुरस्कृत्य ययुर्वज्रं पौत्रं कृष्णस्य धीमतः।।
16-8-39a
16-8-39b
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च।
भोजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर्ययुः।।
16-8-40a
16-8-40b
तत्सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत्।
उवाह रथिनांश्रेष्ठः पार्थः परपुरंजयः।।
16-8-41a
16-8-41b
निर्याते तु जने तस्मिन्सागरो मकरालयः।
द्वारकां रत्नसंपूर्णां जलेनाप्लावयत्तदा।।
16-8-42a
16-8-42b
यद्यद्धि पुरुषव्याघ्रो भूमेस्तस्या व्यमुञ्चत।
तत्तत्संप्लावयामास सलिलेन स सागरः।।
16-8-43a
16-8-43b
तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः।
तूर्णात्तूर्णतरं जग्मुरहो दैवमिति ब्रुवन्।।
16-8-44a
16-8-44b
काननेषु च रम्येषु पर्वतेषु नदीषु च।
निवसन्नानयामास वृष्णिदारान्धनंजयः।।
16-8-45a
16-8-45b
स पञ्चनदमासाद्य धीमानतिसमृद्धिमत्।
देशे गोपशुधान्याढ्ये निवासमकरोत्प्रभुः।।
16-8-46a
16-8-46b
ततो लोभः समभवद्दस्यूनां निहतेश्वराः।
दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन भारत।।
16-8-47a
16-8-47b
ततस्ते पापकर्माणो लोभोपहतचेतसः।
आभीरा मन्त्रयामासुः समेत्याशुभदर्शनाः।।
16-8-48a
16-8-48b
अयमेकोऽर्जुनो धन्वी वृद्धबालं हतेश्वरम्।
नयत्यस्मानतिक्रम्य् योधाश्चेमे हतौजसः।।
16-8-49a
16-8-49b
ततो यष्टिप्रहरणा दस्यवस्ते सहस्रशः।
अभ्यधावन्त वृष्णीनां तं जनं लोप्त्रहारिणः।।
16-8-50a
16-8-50b
महता सिंहनादेन त्रासयन्तः पृथग्जनम्।
अभिपेतुर्धनार्थं ते कालपर्यायचोदिताः।।
16-8-51a
16-8-51b
ततो निवृत्तः कौन्तेयः सहसा सपदानुगः।
उवाच तान्महाबाहुरर्जुनः प्रहसन्निव।।
16-8-52a
16-8-52b
निवर्तध्वमधर्मज्ञा यदि जीवितुमिच्छथ।
इदानीं शरनिर्भिन्नाः शोचध्वं निहता मया।।
16-8-53a
16-8-53b
तथोक्तास्तेन वीरेणि कदर्तीकृत्य तद्वचः।
अभिपेतुर्जनं मूढा वार्यमाणाः पुनःपुनः।।
16-8-54a
16-8-54b
ततोऽर्जुनो धनुर्दिव्यं गाण्डीवमजरं महत्।
कआरोपयितुमारेभे यत्नादिव कथञ्चन।।
16-8-55a
16-8-55b
चकार सज्यं कृच्छ्रेणि सम्भ्रमे तुमुले सति।
चिन्तयामास शस्त्राणि न च सस्मार तान्यपि।।
16-8-56a
16-8-56b
वैकृतं तन्महद्दृष्ट्वा भुजवीर्य तथा युधि।
दिव्यानां च महास्त्राणां विनाशाद्व्रीडितोऽभवत्।।
16-8-57a
16-8-57b
वृष्णियोधाश्च ते सर्वे गजाश्वरथयोधिनः।
न शेकुरावर्तयितुं ह्रियमाणं स्वकं धनम्।।
16-8-58a
16-8-58b
कलत्रस्य बहुत्वाद्धि सम्पतन्सु ततस्ततः।
प्रयत्नमकरोत्पार्थो जनस्य परिरक्षणे।।
16-8-59a
16-8-59b
मिषतां सर्वयोधानां ततस्ताः प्रमदोत्तमाः।
समन्ततोवकृष्यन्त कामाच्चान्याः प्रवव्रजुः।।
16-8-60a
16-8-60b
ततो गाण्डीवनिर्मुक्तैः शरैः पार्थो धनंजयः।
जघान दस्यून्सोद्वेगो वृष्णिभृत्यैः सहस्रशः।।
16-8-61a
16-8-61b
क्षणेन तस्य ते राजन्क्षयं जग्मुरजिह्मगाः।
अक्षया हि पुरा भूत्वा क्षीणाः क्षतजभोजनाः।।
16-8-62a
16-8-62b
स शरक्षयमासाद्य दुःखशोकसमाहतः।
धनुष्कोट्या तदा दस्यूनवधीत्पाकशासनिः।।
16-8-63a
16-8-63b
[प्रेक्षतस्त्वेव पार्थस्य वृष्ण्यन्धकवरस्त्रियः।
जग्मुरादाय ते म्लेच्छाः समन्ताज्जनमेजय।।]
16-8-64a
16-8-64b
धनंजयस्तु दैवं तन्मनसाऽचिन्तयत्प्रभुः।
दुःखसोकसमाविष्टो निःश्वासपरमोऽभवत्।।
16-8-65a
16-8-65b
अस्त्राणां च प्रणाशेन बाहुवीर्यस्य च क्षयात्।
धनुषश्चाविधेयत्वाच्छराणां संक्षयेण च।।
16-8-66a
16-8-66b
बभूव विमनाः पार्थो दैवमित्युनुचिन्तयन्।
न्यवर्तत ततो राजन्नेदमस्तीति चिन्तयन्।।
16-8-67a
16-8-67b
ततः शेषं समादाय कलत्रस्य महामतिः।
हृतभूयिष्ठरत्नस्य कुरुक्षेत्रमवातरत्।।
16-8-68a
16-8-68b
युधिष्ठिरस्यानुमते वंशकर्तॄन्कुमारकान्।
न्यवेशयत कौरव्यस्तत्रतत्र धनंजयः।।
16-8-69a
16-8-69b
हार्दिक्यतनयं पार्थो नगरे मृत्तिकावते।
अश्वपतिं खाण्डवारण्ये राज्ये तत्र न्येवशयत्।
भोजराजकलत्रं च हृतशेषं नरोत्तमः।।
16-8-70a
16-8-70b
16-8-70c
तथा वृद्धांश्च बालांश्च स्त्रियश्चादाय पाण्डवः।
वीरैर्विहीनान्सर्वांस्ताञ्शक्रप्रस्थे न्यवेशयत्।।
16-8-71a
16-8-71b
यौयुधानिं सरस्वत्याः पुत्रं सात्यकिनः प्रियम्।
न्यवेशयत धर्मात्मा वृद्धबालपुरस्कृतम्।।
16-8-72a
16-8-72b
इन्द्रप्रस्थे ददौ राज्यं व्रज्राय परवीरहा।
वज्रेणाक्रूरदारास्तु वार्यमाणाः प्रवव्रजुः।।
16-8-73a
16-8-73b
रुक्मिणी त्वथ गान्धारी शैब्दा हैमवतीत्यपि।
देवी जींबवती चैव विविशुर्जातवेदसम्।।
16-8-74a
16-8-74b
सत्यभामा तथैवान्या देव्यः कृष्णस्य सम्मताः।
वनं प्रविविशू राजंस्तापस्ये कृतनिश्चयाः।।
16-8-75a
16-8-75b
द्वारकावासिनो ये पुरुषाः पार्थमभ्ययुः।
यथार्हं संविभज्यैनान्वज्रे पर्यददज्जयः।।
16-8-76a
16-8-76b
स तत्कृत्वा प्राप्तकालं बाष्णेणापिहितोऽर्जुनः।
कृष्णद्वैपायनं व्यासं ददर्शासीनमाश्रमे।।
16-8-77a
16-8-77b
।। इति श्रीमन्महाभारते
मौसलपर्वणि अष्टमोऽध्यायः।। 8 ।।

सम्पाद्यताम्

16-8-32 अन्विष्य दाहयामासेति झ.पाठः।। 16-8-44 ब्रुवन् अब्रुवन्।।

मौसलपर्व-007 पुटाग्रे अल्लिखितम्। मौसलपर्व-009