मोक्षोपायटीका/मुमुक्षुप्रकरणम्/सर्गः ११

← सर्गः १० मोक्षोपायटीका/मुमुक्षुप्रकरणम्
भास्करकण्ठः
सर्गः १२ →
मोक्षोपायटीका/मुमुक्षुप्रकरणम्

 


पूर्वसर्गोक्तस्योपसंहारकाङ्क्षया परामर्शं करोति

एतत्ते कथितं सर्वं ज्ञानावतरणं भुवि ।

मया स्वमीहितं चैव कमलोद्भवकल्पितम् ॥ २,११.१ ॥

"स्वमीहितम्" निजचेष्टितम् । "कमलोद्भवेन" ब्रह्मणा शुद्धमनस्तत्त्वेन च । "कल्पितम्" आविर्भावितमिति । अनेन प्रकारेणैवेह ज्ञानमिहावतीर्णमिति भावः ॥ २,११.१ ॥

 

 

 

तदिदं परमं ज्ञानं श्रोतुमद्य तवानघ ।

भृशमुत्कण्ठितं चेतो महतः सुकृतोदयात् ॥ २,११.२ ॥

"तत्" ब्रह्मणा उक्तम् ॥ २,११.२ ॥

 

 

श्रीरामः पृच्छति

कथं ब्रह्मन् भगवतो लोके ज्ञानावतारणे ।

सर्गादनन्तरं बुद्धिः प्रवृत्ता परमेष्ठिनः ॥ २,११.३ ॥

"कथं" किमर्थमित्यर्थः ॥ २,११.३ ॥

 

 

 

श्रीवसिष्ठः उत्तरं कथयति

परमे ब्रह्मणि ब्रह्मा स्वभाववशतः स्वयम् ।

जातः स्पन्दमयो नित्यमूर्मिरम्बुनिधाविव ॥ २,११.४ ॥

"परमे" उत्कृष्टचिन्मात्रस्वरूपे । "स्पन्दमयः" परिमिताहंपरामर्शमयः ॥ २,११.४ ॥

 

 

 

सृष्ट्वैवमाततं सर्गं सर्गस्य सकला गतीः ।

भूतभव्यभविष्यत्स्था ददर्श परमेश्वरः ॥ २,११.५ ॥

"ददर्श" । "ज्ञाननेत्रेणे"ति शेषः ॥ २,११.५ ॥

 

 

सत्क्रियाक्रमकालस्य कृतादेः क्षय आगते ।

मोहमालोक्य लोकानां कारुण्यमगमत्प्रभुः ॥ २,११.६ ॥

"मोहम्" भविष्यन्तमित्यर्थः ॥ २,११.६ ॥

 

 

ततो मामीश्वरः सृष्ट्वा ज्ञानेनायोज्य चासकृत् ।

विससर्ज महीपीठे लोकस्याज्ञानशान्तये ॥ २,११.७ ॥

"माम्" वसिष्ठाख्यं "माम्" । "ज्ञानेन" परमात्मज्ञानेन । "आयोज्य" संयोज्य ॥ २,११.७ ॥

 

 

यथाहं प्रहितस्तेन तथान्येऽपि महर्षयः ।

सनत्कुमारप्रमुखा नारदाद्याश्च भूरिशः ॥ २,११.८ ॥

एतेन ये भूता भविष्यन्तश्चोपदेष्टारः सन्ति तत्रापीयमेव रीतिरस्तीति सूचितम् ॥ २,११.८ ॥

 

 

क्रियाक्रमेण पुण्येन तथा ज्ञानक्रमेण च ।

मनोमहामयोत्तब्धमुद्धर्तुं लोकमीरिताः ॥ २,११.९ ॥

"ईरिताः" विसर्जिताः । किं कर्तुम् । "लोकम्" अधिकारिभेदात्"क्रियाक्रमेण ज्ञानक्रमेण च उद्धर्तुम्" । "लोकं" कथंभूतम् । "मन" एव "महामयः" महारोगः । तेन्"ओत्तब्धम्" बद्धम् ॥ २,११.९ ॥

 

 

महर्षिभिस्ततस्तैस्तु क्षीणे कृतयुगे पुरा ।

क्रमात्क्रियाक्रमे शुद्धे पृथिव्यां तनुतां गते ॥ २,११.१० ॥

क्रियाक्रमविधानार्थं मर्यादानियमाय च । ।     पृथग्देशविभागेन भूपालाः परिकल्पिताः ॥ २,११.११ ॥

स्पष्टम् ॥ २,११.१०११ ॥

 

 

बहूनि स्मृतिशास्त्राणि यज्ञशास्त्राणि चावनौ ।

धर्मकामार्थे सिद्ध्यर्थं कल्पितान्युदितान्यथ ॥ २,११.१२ ॥

परि"कल्पितानि" कृतानि । "महर्षिभिर्" इति शेषः । यल्लोकैः तेषामुपदेशः न श्रुत इति भावः । "अथ"शब्दः उत्तरश्लोकेन संबन्धनीयः ॥ २,११.१२ ॥

 

 

 

कालचक्रे वहत्यस्मिंस्ततो विगलिते क्रमे ।

प्रत्यहं भोजनपरे जने शाल्यर्जनोन्मुखे ॥ २,११.१३ ॥

द्वन्द्वानि संप्रवृत्तानि विषयार्थं महीभुजाम् ।

दण्ड्यतां संप्रयातानि भूतानि भुवि भूरिशः ॥ २,११.१४ ॥

"द्वन्द्वानि" द्वन्द्वयुद्धानि । "विषयार्थम्" देशार्थम् । "दण्ड्यतां" दण्डयोग्यताम् । परदारगमनादिपापकरणातिति भावः ॥ २,११.१३१४ ॥

 

 

ततो युद्धं विना भूपा महीं पालयितुं क्रमात् ।

असमर्थास्तदायाताः प्रजाभिः सह दीनताम् ॥ २,११.१५ ॥

स्पष्टम् ॥ २,११.१५ ॥

 

 

 

तेषां दैन्यापनोदार्थं सम्यक्सृष्टिक्रमाय च ।

ततोऽस्मदादिभिः प्रोक्ता महत्यो ज्ञानदृष्टयः ॥ २,११.१६ ॥

"तेषाम्" राज्ञाम् ॥ २,११.१६ ॥

 

 

अध्यात्मविद्या तेनेयं पूर्वं राजसु वर्णिता ।

तदनु प्रसृता लोके राजविद्येत्युदाहृता ॥ २,११.१७ ॥

"राजविद्या राजगुह्यम्" इत्यादिना गीतादौ "राजविद्या"शब्देन व्यवहारातिति भावः ॥ २,११.१७ ॥

 

 

राजविद्या राजगुह्यमध्यात्मग्रन्थमुत्तमम् ।

ज्ञात्वा राघव राजानः परां निर्दुःखतां गताः ॥ २,११.१८ ॥

"राजगुह्यम्" इति अध्यात्मविद्यायाः अपरं नाम ॥ २,११.१८ ॥

 

 

 

अथ राजस्वतीतेषु बहुष्वमलकीर्तिषु ।

अस्माद्दशरथाद्राम जातोऽद्य त्वमिहावनौ ॥ २,११.१९ ॥

स्पष्टम् ॥ २,११.१९ ॥

 

 

तव चातिप्रसन्नेऽस्मिञ्जातं मनसि पावनम् ।

निर्निमित्तमिदं चारु वैराग्यमरिमर्दन ॥ २,११.२० ॥

"निर्निमित्तम्" बीभत्सादिरूपं निमित्तं विना ॥ २,११.२० ॥

 

 

 

ननु निर्निमित्तवैराग्येन कोऽतिशयः ममास्तीत्य् । अत्राह

सर्वस्यैव हि भव्यस्य साधोरपि विवेकिनः ।

निमित्तपूर्वं वैराग्यं जायते राम राजसम् ॥ २,११.२१ ॥

स्पष्टम् ॥ २,११.२१ ॥

 

 

इदं त्वपूर्वमुत्पन्नं चमत्कारकरं सताम् ।

तवानिमित्तं वैराग्यं सात्त्विकं स्वविवेकजम् ॥ २,११.२२ ॥

 

 

स्पष्टम् ॥ २,११.२२ ॥

 

 

बीभत्सं विषमं दृष्ट्वा को नाम न विरज्यते ।

सतां तूत्तमवैराग्यं विवेकादेव जायते ॥ २,११.२३ ॥

"बीभत्सम्" बीभत्सरसालम्बनं द्रव्यम् ॥ २,११.२३ ॥

 

 

ते महान्तो महाप्रज्ञा निमित्तेन विनैव हि ।

वैराग्यं जायते येषां त एवामलमानसाः ॥ २,११.२४ ॥

अमलमानसत्वं विना हि निर्निमित्तं वैराग्यं नोत्पद्यते इति भावः ॥ २,११.२४ ॥

 

 

स्वविवेकचमत्कारपरामर्शविरक्तया ।

राजते हि धिया जन्तुर्युवेव वनमालया ॥ २,११.२५ ॥

"स्वविवेकस्य" यः "चमत्कारः" । तस्य यः "परामर्शः" । तेन "विरक्तया" बाह्यपदार्थरागरहितया । न तु बीभत्सेन विरक्तया ॥ २,११.२५ ॥

 

 

परामृश्य विवेकेन संसाररचनामिमाम् ।

विरागं येऽधिगच्छन्ति त एव पुरुषोत्तमाः ॥ २,११.२६ ॥

स्पष्टम् ॥ २,११.२६ ॥

 

 

स्वविवेकवशादेव विचार्येदं पुनः पुनः ।

इन्द्रजालं परित्याज्यं सबाह्याभ्यन्तरं बलात् ॥ २,११.२७ ॥

"इन्द्रजालम् " संसाराख्यमिन्द्रजालम् । "परित्याज्यम्" समन्तात्त्यागविषयतां नेयम् ॥ २,११.२७ ॥

 

 

श्मशानमापदं दैन्यं दृष्ट्वा को न विरज्यते ।

तद्वैराग्यं परं श्रेयः स्वतो यदभिजायते ॥ २,११.२८ ॥

स्पष्टम् ॥ २,११.२८ ॥

अकृत्रिमविरागस्त्वं महत्तामलमागतः ।

योग्योऽसि ज्ञानसारस्य बीजस्येव मृदुस्थलम्  ॥ २,११.२९ ॥

स्पष्टम् ॥ २,११.२९ ॥

 

 

 

प्रसादात्परमेशस्य नाथस्य परमात्मनः ।

त्वादृशस्य शुभा बुद्धिर्विवेकमनुधावति ॥ २,११.३० ॥

न त्वत्रात्मप्रयत्नः कश्चित्प्रभवतीति भावः ॥ २,११.३० ॥

 

 

क्रियाक्रमेण महता तपसा नियमेन च ।

दानेन तीर्थयात्राभिश्चिरकालविवेकतः  ॥ २,११.३१ ॥

दुष्कृते क्षयमापन्ने परमार्थविचारणे ।

काकतालीययोगेन बुद्धिर्जन्तोः प्रवर्तते ॥ २,११.३२ ॥

"काकतालीययोगेने"त्यनेन "क्रियाक्रमा"देः शैथिल्यं सूचितम् । "काकतालीयेन" "परमा"त्म"विचारण"निमित्त"बुद्धियोगः" । तावत्तु क्रियाक्रमादिरवश्यमनुष्ठेयः । तस्यापि लेशतः तं प्रत्युपायत्वात् । न च तत्रैव मङ्क्तव्यम् । सद्गुरूपासादेरन्यस्य मुख्यस्योपायस्यापि सत्त्वातित्यलम् ॥ २,११.३२ ॥

 

 

 

क्रियापरास्तावदलं चक्रावृत्तिभिरादृताः ।

भ्रमन्तीह जना यावन्न पश्यन्ति परं पदम् ॥ २,११.३३ ॥

"क्रियापराः" क्रियामेवोपायत्वेन मन्यमानाः । "परं पदम्" चिन्मात्राख्यमुत्कृष्टं स्थानम् । "चक्रावृत्तिभिः क्रियापराः" पौनःपुन्येन सक्रियारता इत्यर्थः ॥ २,११.३३ ॥

 

 

 

यथाभूतमिमं दृष्ट्वा संसारं तन्मयीं धियम् ।

परित्यज्य परं यान्ति निरालाना गजा इव ॥ २,११.३४ ॥

"यथाभूतं दृष्ट्वा" यथास्ति तथा दृष्ट्वा । "तन्मयीं" संसारमयीम् । "परम्" उत्तीर्णं शुद्धचिन्मात्रतत्त्वम् । "यान्ति" तद्रूपं स्वात्मानमनुभवन्ति ॥ २,११.३४ ॥

 

विषमेयमनन्तेहा राम संसारसंसृतिः ।

देहमुक्ता महातन्तुर्विना ज्ञानं न नश्यति ॥ २,११.३५ ॥

"अनन्ताः ईहाः" भावाभावरूपाः चेष्टाः यस्याः । तादृशी "संसारसंसृतिः" संसारसरणिः । देहमुक्ता नाम महातन्तुः "देहमुक्ता महातन्तुः" । "ज्ञानम्" चिन्मात्रतत्त्वज्ञानम् ॥ २,११.३५ ॥

 

 

 

ज्ञानयुक्तिप्लवेनैव संसाराब्धिं सुदुस्तरम्  ।

महाधियः समुत्तीर्णा नेतरेण रघूद्वह ॥ २,११.३६ ॥

"ज्ञान"रूपा या "युक्तिः" उपायः । स एव "प्लवः" । तेन ॥ २,११.३६ ॥

 

 

 

तामिमां ज्ञानयुक्तिं त्वं संसारांभोधितारिणीम्  ।

शृणुष्वावहितो बुद्ध्या नित्यावहितयानया ॥ २,११.३७ ॥

"अवहितया बुद्ध्या" विना श्रोतुं न शक्नोषीति भावः ॥ २,११.३७ ॥

 

 

 

यस्मादनन्तसंरम्भा जगतो दुःखरीतयः ।

चिरायान्तर्दहन्त्येता विना युक्तिमनिन्दित ॥ २,११.३८ ॥

"युक्तिम्" ज्ञानाख्यां युक्तिम् ॥ २,११.३८ ॥

 

 

शीतवातातपादीनि द्वन्द्वदुःखानि राघव ।

ज्ञानयुक्तिं विना केन सह्यतां यान्ति साधुषु ॥ २,११.३९ ॥

"केन" केनान्येनोपायेन । न केनापीत्यर्थः । अत्र तु बालवृद्धयोः मरिचभक्षणं दृष्टान्तत्वेन योज्यम् ॥ २,११.३९ ॥

 

 

 

आपतन्ति प्रतिपदं यथाकालं दहन्ति च ।

दुःखचिन्ता नरं मूढं तृणमग्निशिखा इव ॥ २,११.४० ॥

दुःखदायिन्यः चिन्ताः "दुःखचिन्ताः" । ताश्च भोगविषयाः ज्ञेयाः ॥ २,११.४० ॥

 

 

प्राज्ञं विज्ञातविज्ञानं सम्यग्दर्शिनमाधयः ।

न दहन्ति वनं वर्षदब्दमग्निशिखा इव ॥ २,११.४१ ॥

"प्राज्ञं" कथंभूतम् । "विज्ञातम्" अनुभूतम् । "विज्ञानं" विज्ञानरूपमात्मतत्त्वं येन तम् । "आधयः" चिन्ताः । "वनं" कथम्भूतम् । "वर्षन्तः अब्दाः" मेघाः यस्य तत् ॥ २,११.४१ ॥

 

 

 

आधिव्याधिपरावर्ते संसारमरुमारुते  ।

क्षुभितेऽपि न तत्त्वज्ञो भज्यते कल्पवृक्षवत् ॥ २,११.४२ ॥

"आधिव्याध्योः परावर्तः" पौनःपुन्येनावृत्तिः यस्मिन् । तादृशे "क्षुभिते" भावाभावाख्यः क्षोभयुक्ते । "न" "भज्यते" हर्षशोकवशं न याति । "संसारमरुमारुते क्षुभिते" सतीति योज्यम् । "कल्पवृक्षोऽपि मारुते क्षुभिते" सति "न भज्यते" ॥ २,११.४२ ॥

 

 

 

तत्त्वं ज्ञातुमतो यत्नाद्धीमानेव हि धीमता ।

प्रामाणिकः प्रबुद्धात्मा प्रष्टव्यः प्रणयान्वितम् ॥ २,११.४३ ॥

"प्रामाणिकः" प्रमाणवक्ता । "प्रबुद्धः" ज्ञातः । "आत्मा" चिन्मात्ररूपः परमात्मा येन । सः "प्रबुद्धात्मा" । "प्रणयान्वितम्" याच्ञासहितम् । एतद्व्यतिरिक्तस्तु पृष्टः विरुद्धमेव किंचिद्ब्रूयादिति भावः ॥ २,११.४३ ॥

 

 

 

प्रामाणिकस्य पृष्टस्य वक्तुरुत्तमचेतसा ।

यत्नेन वचनं ग्राह्यमंशुकेनेव कुङ्कुमम् ॥ २,११.४४ ॥

"यत्नेना"वधानेन ॥ २,११.४४ ॥

 

 

अतत्त्वज्ञमनादेयवचनं वाग्विदां वर ।

यः पृच्छति नरं तस्मान्नास्ति मूढतरोऽपरः ॥ २,११.४५ ॥

न तत्त्वं जानातीति तादृशम् । देहादावात्माभिमानिनमित्यर्थः ॥ २,११.४५ ॥

 

 

प्रामाणिकस्य तज्ज्ञस्य वक्तुः पृष्टस्य यत्नतः ।

नानुतिष्ठति यो वाक्यं नान्यस्तस्मान्नराधमः ॥ २,११.४६ ॥

"वाक्यं नानुतिष्ठति" तदुक्तवाक्यवाच्यमर्थं न संपादयति ॥ २,११.४६ ॥

 

 

 

तज्ज्ञतातज्ज्ञते पूर्वं वक्तुर्निर्णीय कार्यतः ।

यः करोति नरः प्रश्नं पृच्छकः स महामतिः ॥ २,११.४७ ॥

"कार्यतः" न तु वचनमात्रात् । वचनमात्रेण हि बहवः ब्रह्मज्ञानिनमात्मानं दर्शयन्ति ॥ २,११.४७ ॥

 

 

अनिर्णीय प्रवक्तारं बालः प्रश्नं करोति यः ।

अधमः पृच्छकः स स्यान्न महार्थस्य भाजनम् ॥ २,११.४८ ॥

"बालः" बालवत्मूढः । "महार्थस्य" मोक्षाख्यस्य परमप्रयोजनस्य ॥ २,११.४८ ॥

 

 

पूर्वापरसमाधानक्षमबुद्धावनिन्दिते ।

पृष्टं प्राज्ञेन वक्तव्यं नाधमे पशुधर्मिणि ॥ २,११.४९ ॥

"प्राज्ञेन" बुद्धिमता गुरुणा । "पृष्टं" प्रश्नविषयीकृतं वस्तु । "अनिन्दिते" । तथा "पूर्वापरयोः" पूर्वापरवाक्यभागार्थयोः । यत्"समाधानम्" अन्योऽन्यविरुद्धतापनयनम् । तत्र "क्षमा बुद्धिः" यस्य । तादृशे प्रष्टरि वक्तव्यम् । "अधमे" अत एव "पशुधर्मिणि" मूढतया पशुसदृशे प्रष्टरि । "न" वक्तव्यं व्यर्थत्वात् ॥ २,११.४९ ॥

 

 

 

प्रामाणिकार्थयोग्यत्वं पृच्छकस्याविचार्य वा ।

यो वक्ति तमिह प्राज्ञाः प्राहुर्मूढतमं नरम् ॥ २,११.५० ॥

"पृच्छकस्य" मूढतरत्वातस्य "मूढतमत्वम्" । बहूनां जातिपरिप्रश्ने हि मूढतमः । पृच्छकादपि मूढः असौ किं ब्रूयादिति भावः ॥ २,११.५० ॥

 

 

 

त्वमतीव गुणाधारः पृच्छको रघुनन्दन ।

अहं च वक्तुं जानामि स च योगोऽयमावयोः ॥ २,११.५१ ॥

"सः" तव "गुणाधार"पृच्छकत्वं मम तादृक्वक्तृत्वमिति "योगः" सदृशसंबन्धः ॥ २,११.५१ ॥

 

 

यदहं वच्मि तद्यत्नात्त्वया शब्दार्थकोविद ।

एतद्वस्त्विति निर्णीय हृदि कार्यमखण्डितम् ॥ २,११.५२ ॥

निर्णयस्वरूपं कथयति । "एतद्" इति । "एतत्" श्रीवसिष्ठोक्तं "वस्तु" । परमार्थसत्यं भवति । पूर्वं भक्तिमात्रेणैव मद्वचनं सत्यतया ग्राह्यम् । ततः तत्सत्यता स्वयमेव प्रकटीभविष्यति । अन्यथारंभमात्रे एव स्वविकल्पकृताभिः सूक्ष्मेक्षिकाभिः तव किंचिदपि न सेत्स्यतीति भावः ॥ २,११.५२ ॥

 

 

 

ननु यदि त्वदुक्तंमयि न लगति तदा किं कार्यमित्य् । अत्राह

महानसि विरक्तोऽसि तज्ज्ञोऽसि जनतास्थितौ ।

त्वयि वस्तु लगत्यन्तः कुङ्कुमाम्बु यथांशुके ॥ २,११.५३ ॥

यतः त्वम् "महान्" न तु नीचः "असि" । नीचो हि नीचतया स्वल्पेनापि क्षुभ्यति । तथा "विरक्तः" संसारिकपदार्थेषु विरक्तः "असि" । अन्यथा हि पदार्थाविष्टबुद्धेः ते योग्यता न स्यात् । तथा "जनतायाः स्थितौ" रचनायाम् । "तज्ज्ञः" निपुणः "असि" । अन्यथा हि तद्दृष्टान्तानुसारेण प्रोक्तः उपदेशः त्वयि न लगेत् । अतः "वस्तु" मदुक्तपरमार्थतत्त्वम् । "त्वयि लगति" । किं "यथा" । "कुङ्कुमाम्बु" "यथा" । यथा तत्"अंशुके" लगति तथेत्यर्थः ॥ २,११.५३ ॥

 

 

 

उक्तावधानपरमा परमार्थविवेचिनी ।

विशत्यर्थं तव प्रज्ञा जलमध्यमिवार्कभा ॥ २,११.५४ ॥

"उक्ते" मदुक्ते । यत्"अवधानम्" । तदेव "परमम्" ग्राह्यत्वेनोत्कृष्टं यस्याः । तादृशी । तथा "परमार्थस्य" मदुक्तवाक्यान्तरार्थस्य । "विवेचिनी तव प्रज्ञा अर्थम्" मद्वाक्यार्थम् । "विशति" वर्तमानसमीपे वर्तमाना । अत्र दृष्टान्तमाह । "जले"ति ॥ २,११.५५ ॥

 

 

 

यद्यद्वच्मि तवादेयं हृदि कार्यं प्रयत्नतः ।

न चेत्प्रष्टव्य एवाहं न त्वयेह निरर्थकम् ॥ २,११.५५ ॥

"आदेयं" आदानार्हं तत्तदित्यध्याहार्यम् ॥ २,११.५५ ॥

 

 

ननु त्वद्वाक्यहृत्करणे कः प्रयासः अस्ति येनैवं ब्रवीषीत्य् । अत्राह

मनो हि चपलं राम संसारवनमर्कटम् ।

संरोध्य हृदि यत्नेन श्रोतव्या परमार्थगीः ॥ २,११.५६ ॥

"हि" यस्मात् । "मनो"निरोधेऽवश्यं प्रयासः । तं विना च मद्वाक्यहृत्करणं न संभवति । अतोऽस्त्येव मद्वाक्यहृत्करणे प्रयास इति भावः ॥ २,११.५६ ॥

 

 

ननु स्वकीयं बान्धवजनं त्यक्त्वा कथं त्वद्वाक्यमात्रपरो भवेयमित्य् । अत्राह

अविवेकिनमज्ञानमसज्जनरतिं जनम् ।

चिरं दूरतरं कृत्वा पूजनीया हि साधवः ॥ २,११.५७ ॥

अविद्यमानं ज्ञानं यस्य तम् "अज्ञानम्" । "असज्जनेभ्यः" विरतिः सज्जनेषु "रतिश्" च प्रथमं मोक्षसाधनमिति भावः ॥ २,११.५७ ॥

 

 

 

ननु साधुपूजनेन मम किं सेत्स्यतीत्य् । अत्राह

नित्यं सज्जनसंपर्काद्विवेक उपजायते ।

विवेकपादपस्यैते भोगमोक्षौ फले स्मृते ॥ २,११.५८ ॥

स्पष्टम् ॥ २,११.५८ ॥

 

 

कथं विवेकस्येदृशः प्रभावोऽस्तीत्य् । अत्राह

मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः ।

शमो विचारः संतोषश्चतुर्थः साधुसंगमः ॥ २,११.५९ ॥

एतैः व्यस्तैः समस्तैर्वा विना न कश्चिन्मोक्षं प्राप्नोतीति विवेकस्य मोक्षसाधकत्वमस्तीति भावः ॥ २,११.५९ ॥

 

 

 

एते सेव्याः प्रयत्नेन चत्वारो द्वौ त्रयोऽथवा ।

द्वारमुद्घाटयन्त्येते मोक्षराजगृहे बलात् ॥ २,११.६० ॥

स्पष्टम् ॥ २,११.६० ॥

 

 

 

एकं वा सर्वयत्नेन प्राणांस्त्यक्त्वा समाश्रयेत् ।

एतस्मिन् वशगे यान्ति चत्वारोऽपि वशं यतः ॥ २,११.६१ ॥

"एतस्मिन्" एकस्मिन् । "एकश्" चात्रोत्तरश्लोकानुरोधेन विवेकी ज्ञेयः ॥ २,११.६१ ॥

 

 

ननु कथमेकेनैव कार्यं सेत्स्यतीत्य् । अत्राह

सविवेको हि शास्त्रस्य ज्ञानस्य तपसो द्युतेः ।

भाजनं भूषणाकारो भास्करस्तेजसामिव ॥ २,११.६२ ॥

"भूषण"भूतः "आकारः" यस्य । तादृशः ॥ २,११.६२ ॥

 

 

विवेकपरिपन्थिनः प्रज्ञामान्द्यस्यानर्थोत्पादकत्वं कथयति

घनतामुपयातं हि प्रज्ञामान्द्यमचेतसाम् ।

याति स्थावरतामम्बु जाड्यात्पाषाणतामिव ॥ २,११.६३ ॥

"प्रज्ञामान्द्यं घनतामुपयातं" सत् । "स्थावरतां याति" इति संबद्धः ॥ २,११.६३ ॥

 

 

ननु यद्यहं प्रज्ञामान्द्येन विवेकयोग्यो न स्यां तर्हि किं कार्यमित्य् । अत्राह

त्वं तु राघव सौजन्यगुणशास्त्रार्थदृष्टिभिः ।

विकासितान्तःकरणः स्थितः पद्म इवोदये ॥ २,११.६४ ॥

इमां ज्ञानदृशं श्रोतुमवबोद्धुं च सन्मते  ।

अर्हस्युद्धृतकर्णस्थजन्तुर्वीणाध्वनिं यथा ॥ २,११.६५ ॥

सुजनस्य भावः "सौजन्यम्" । तद्युक्ताः गुणाः "सौजन्यगुणाः" । ते च "शास्त्रार्थदृष्टयश्" च । ताभिः "विकासितं" प्रज्ञामान्द्यरहितम् "अन्तःकरणं" यस्य सः । तथा "उद्धृतं" निष्कासितम् । "कर्णस्थं जन्तु"मलं यस्य सः । तादृशः । अतो विवेकयोग्य एवासीति भावः ॥ २,११.६४६५ ॥

 

 

 

ननु कथमेतदित्य् । अत्राह

वैराग्याभ्यासयोगेन समसौजन्यसंपदा ।

तत्पदं प्राप्यते राम यत्र नाशो न विद्यते ॥ २,११.६६ ॥

"अभ्यासः" सच्छास्त्राभ्यासः । "तत्पदम्" विवेकाख्यं स्थानम् ॥ २,११.६६ ॥

 

 

अत्यन्तमुख्यभूतस्य विवेकस्य वर्धनोपायमाह

शास्त्रैः सज्जनसंपर्कपूर्वकैस्सुतपोदमैः  ।

आदौ संसारमुक्त्यर्थं प्रज्ञामेवाभिवर्धयेत् ॥ २,११.६७ ॥

"तपः" बाह्येन्द्रियाणां निग्रहः । "दमः" आन्तराणाम् ॥ २,११.६७ ॥

 

 

 

संसारविषवृक्षोऽग्रसेकमास्पदमापदाम् ।

अञ्जनं मोहयामिन्या मौर्ख्यं यत्नेन नाशयेत् ॥ २,११.६८ ॥

 

 

"मोहः" विपर्यासः । "अञ्जनेन" हि मान्त्रिकाः दिवापि "यामिनीं" प्रकटयन्ति इत्य्"अञ्जनम्" इत्युक्तम् ॥ २,११.६८ ॥

 

 

ननु मम मौर्ख्यं कथं नश्यतीत्य् । अत्राह

एतदेव च मौर्ख्यस्य परमं विद्धि नाशनम् ।

यदिदं प्रेक्ष्यते शास्त्रं किंचित्संस्कृतया धिया ॥ २,११.६९ ॥

"नाशनम्" नाशकरणम् । "किंचित्संस्कृतया" किंचित्पदपदार्थज्ञानमात्रेण । न तु क्षोभोत्पादकेन महता व्याकरणजालज्ञानेन । "संस्कृतया" संस्कारयुक्तया ॥ २,११.६९ ॥

 

 

 

दुराशासर्पगतेन मौर्ख्येन हृदि वल्गता ।

चेतः संकोचमायाति चर्माग्नाविव योजितम् ॥ २,११.७० ॥

"दुराशाः" भोगाशाः एव "सर्पाः" । तासां "गतेन" । मौर्ख्यादेव दुराशा निर्यान्तीति भावः । "संकोचम्" चिद्विमर्शाख्यविकासराहित्यम् ॥ २,११.७० ॥

 

 

 

प्राज्ञे यथार्थभूतेयं वस्तुदृष्टिः प्रसीदति ।

दृगिवेन्दौ निरम्भोदसकलामलमण्डले ॥ २,११.७१ ॥

"इयं" मया वक्ष्यमाणा । "वस्तुदृष्टिः" परमार्थदृष्टिः । "प्रसीदति" प्रसन्ना भवति । तस्मिन्नैव विश्रान्तिं भजतीति भावः ॥ २,११.७१ ॥

 

 

पूर्वापरविचारार्थचारुचातुर्यशालिनी ।

सविकासा मतिर्यस्य स पुमानिति कथ्यते ॥ २,११.७२ ॥

पूर्वापरविचारविषयीकृतः अर्थः "पूर्वापरविचारार्थः" । तत्र यत्"चारुचातुर्यं" । तेन "शालिनी" ॥ २,११.७२ ॥

 

 

त्वमपीदृशोऽसीति सर्गान्तश्लोकेन कथयति

विकसितेन सितेन मनोमुषा

वरविचारणशीतलरोचिषा ।

गुणवता हृदयेन विराजसे

त्वममलेन नभः शशिना यथा ॥ २,११.७३ ॥

"विकसितेन" विवेकाख्यविकासयुक्तेन । "सितेन" मलराहितेन । "मनोमुषा" मनोहारिणा । "वरविचारणम्" एव "शीतला" "रुक्" यस्य । तादृशेन "गुणवता" मैत्र्यादिगुणयुक्तेन "हृदयेन" । त्वं "विराजसे" । किं "यथा" । "नभो" यथा । "यथा" तत्"अमलेन" नीहारादिमलादूषितेन । "शशिना" विराजते तथेत्यर्थः । इति शिवम् ॥ २,११.७३ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुव्यवहारप्रकरणे एकादशः सर्गः ॥ २,११ ॥