← सर्गः ४ मोक्षोपायटीका/मुमुक्षुप्रकरणम्
भास्करकण्ठः
सर्गः ६ →
मोक्षोपायटीका/मुमुक्षुप्रकरणम्

 

तदेवाह

अनर्थः प्राप्यते यत्र शास्त्रितादपि पौरुषात् ।

अनर्थकं तु बलवत्तत्र ज्ञेयं स्वपौरुषम् ॥ २,५.६ ॥

"यत्र" पुरुषेण "शास्त्रितादपि पौरुषातनर्थः प्राप्यते तत्र अनर्थकम्" अनर्थोत्पादकं "स्वपौरुषम्" अशास्त्रीयं पौरुषम् । "बलवज्ज्ञेयम्" । तन्मध्ये प्रविष्टाद्बलवतः स्वपौरुषादेवासौ अनर्थ उत्पन्न इति "ज्ञेयम्" इति भावः । अर्थात्तु यत्र अनर्थः न प्राप्यते तत्र शास्त्रीयमेव बलवज्ज्ञेयम् । द्वयोः पौरुषयोश्च सर्वत्र सन्धिरस्ति असहायस्यैककस्योत्थानासंभवात् ॥ २,५.६ ॥

 

 

 

पुरुषस्य कर्तव्यं दर्शयति

परं पौरुषमाश्रित्य दन्तैर्दन्तान् विचूर्णयन् ।

शुभेनाशुभमुद्युक्तः प्राक्तनं पौरुषं जयेत् ॥ २,५.७ ॥

"परं पौरुषम्" शास्त्रोक्तं पौरुषम् । "उद्युक्तः" उद्योगयुक्तः । "प्राक्तनं पौरुषम्" वासनाख्यं प्राक्तनम् । अपि "शुभं" शुभकार्येव । यतः शुभा वासनैव मोक्षदायिनी प्रोक्तेत्य्"अशुभम्" इत्युक्तम् ॥ २,५.७ ॥

 

 

प्राक्तनः पुरुषार्थोऽसौ मां नियोजयतीति धीः ।

बलादधस्पदीकार्या प्रत्यक्षादधिका न सा ॥ २,५.८ ॥

प्रत्यक्षेण तु पौरुषस्यैव नियोजने सामर्थ्यं दृष्टमित्येतदभिप्रेत्य "प्रत्यक्षादधिका न से"त्युक्तम् ॥ २,५.८ ॥

 

 

तावत्तावत्प्रयत्नेन यतितव्यं स्वपौरुषम् ।

प्राक्तनं पौरुषं यावदशुभं शाम्यति स्वयम् ॥ २,५.९ ॥

"स्वपौरुषं यतितव्यम्" शास्त्रानुसारेण स्वविषयं प्रति यत्नयुक्तं कार्यम् । "यतितव्यम्" इति णिच्युक्तः प्रयोगः ॥ २,५.९ ॥

 

 

दोषः शाम्यत्यसन्देहं प्राक्तनोऽद्यतनैर्गुणैः ।

दृष्टान्तोऽत्र ह्यस्तनस्य दोषस्याद्यगुणैः क्षयः  ॥ २,५.१० ॥

स्पष्टम् ॥ २,५.१० ॥

असद्दैवमधः कृत्वा नित्यमुद्युक्तया धिया ।

संसारोत्तरणं भूत्यै यतेताधातुमात्मनि ॥ २,५.११ ॥

"भूत्यै" मुक्तिरूपायैश्वर्याय ॥ २,५.११ ॥

 

 

 

न गन्तव्यमनुद्योगैः साम्यं पुरुषगर्दभैः ।

उद्योगस्तु यथाशास्त्रं लोकद्वितयसिद्धये ॥ २,५.१२ ॥

स्पष्टम् ॥ २,५.१२ ॥

संसारकुहरादस्मान्निर्गन्तव्यं स्वयं बलात् ।

पौरुषं यत्नमाश्रित्य हरिणेवारिपञ्जरात् ॥ २,५.१३ ॥

"संसारकुहरात्" संसारश्वभ्रात् । "हरिणा" सिंहेन । "अरिपञ्जरात्" अरिभूतात्पञ्जरात् ॥ २,५.१३ ॥

 

 

 

प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः ।

संत्यजेत्पशुभिस्तुल्यं श्रयेत्सत्पुरुषोचितम् ॥ २,५.१४ ॥

"प्रत्यवेक्षेत" कीदृशमिति विमर्शविषयं कुर्यात् ॥ २,५.१४ ॥

 

 

किंचित्कान्तान्नपानादिकलिलं कोमलं गृहे ।

व्रणे कीट इवास्वाद्य वयः कार्यं न भस्मसात् ॥ २,५.१५ ॥

"कलिलं" पापजनकम् । "कोमलं" आमुखे कोमलतया प्रतिभासमानम् । "व्रणे" रन्ध्रे ॥ २,५.१५ ॥

 

 

शुभेन पौरुषेणाशु शुभमासाद्यते फलम् ।

अशुभेनाशुभं नित्यं दैवं नाम न किंचन ॥ २,५.१६ ॥

स्पष्टम् ॥ २,५.१६ ॥

 

 

प्रत्यक्षदृष्टमुत्सृज्य योऽनुमानमनास्त्वसौ ।

स्वभुजाभ्यामिमौ सर्पाविति प्रेक्ष्य पलायताम् ॥ २,५.१७ ॥

"स्वभुजाभ्याम्" इति पञ्चमी ॥ २,५.१७ ॥

 

 

दैवं संप्रेरयति मामिति मुग्धधियां मुखम् ।

अदृष्टश्रेष्ठदृष्टीनां दृष्ट्वा लक्ष्मीर्निवर्तते ॥ २,५.१८ ॥

"अदृष्टा" । "श्रेष्ठा" उत्तमा । "दृष्टिः" पौरुषाख्या दृष्टिः । यैः तेषाम् ॥ २,५.१८ ॥

 

 

तस्मात्पुरुषयत्नेन विवेकं पूर्णमाश्रयेत् ।

आत्मज्ञानमहार्थानि शास्त्राणि प्रविचारयेत् ॥ २,५.१९ ॥

"आत्मज्ञानम्" एव "महानर्थः" येषां तानि ॥ २,५.१९ ॥

 

 

चित्ते चिन्तयतामर्थं यथाशास्त्रं निजेहितैः ।

असंसाधयतामेव मूढानां धिग्दुरीप्सितम् ॥ २,५.२० ॥

"निजेहितैः" स्वपौरुषैः । "दुरीप्सितम्" दुष्टकाङ्क्षितम् ॥ २,५.२० ॥

 

 

पौरुषं च न चानन्तं न यत्नमभिवाञ्छते ।

न यत्नेनापि महता तैलमासाद्यतेऽश्मनः ॥ २,५.२१ ॥

"पौरुषमनन्तं" अन्तरहितम् । "न च" भवति । किं तु नियतमेव भवति । "पौरुषं" कर्तृ । "यत्नं न अभिवाञ्छते" न स्वोत्पादकत्वेन काङ्क्षते । यत्नेन स्वस्य नियमं न लङ्घयति इति यावत् । पुरुषो "महतापि यत्नेन" स्वस्मिन्नियतं पौरुषं न लङ्घयितुं शक्नोतीति भावः । एतद्दृष्टान्तेन सुगमं करोति । "न यत्नेने"ति ॥ २,५.२१ ॥

 

 

 

पूर्वोक्तमेवार्थं स्फुटयति

यथा घटः परिमितो यथा परिमितः पटः ।

नियतः परिमाणस्थः पुरुषार्थस्तथैव वः ॥ २,५.२२ ॥

अतः स्वपौरुषाविषये आकाशगमनादौ न यतितव्यमिति भावः ॥ २,५.२२ ॥

 

 

स च शास्त्रार्थसत्सङ्गसमाचारैर्निजं फलम् ।

ददातीति स्वभावोऽयमन्यथानर्थसिद्धये ॥ २,५.२३ ॥

"अन्यथा" शास्त्रार्थसत्सङ्गसमाचाराणामभावे ॥ २,५.२३ ॥

 

 

स्वरूपं पौरुषस्यैतद्दैवं व्यवहरन्नरः ।

याति निष्फलयत्नत्वं न कदाचन कश्चन ॥ २,५.२४ ॥

"पौरुषस्य स्वरूपं दैवं व्यवहरन्" दैवमिति नाम्ना व्यवहरन् । न तु परमार्थतो दैवमिति जानन्निति यावत् ॥ २,५.२४ ॥

 

 

दैन्यदारिद्र्यदुःखार्ता अप्यन्ये पुरुषोत्तमाः ।

पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम् ॥ २,५.२५ ॥

स्पष्टम् ॥ २,५.२२ ॥

 

 

आ बाल्याच्चैवमभ्यस्तैः शास्त्रसत्सङ्गमादिभिः ।

गुणैः पुरुषयत्नेन स्वोऽर्थः संप्राप्यते हि तैः ॥ २,५.२६ ॥

"स्वोऽर्थः" मोक्षाख्यः काङ्क्षितोऽर्थः । "पुरुषेणे"ति शेषः । "हि"शब्दः निश्चये । "तैः" प्रसिद्धैः "गुणैर्" इति करणे तृतीया । "यत्नेने"ति तु हेतौ ॥ २,५.२६ ॥

 

 

उपसंहारं करोति

इति प्रत्यक्षतो दृष्टमनुभूतं कृतं श्रुतम् ।

दैवोत्थमिति मन्यन्ते ये हतास्ते कुबुद्धयः ॥ २,५.२७ ॥

"कृतं श्रुतम्" अनुष्ठितम् । सर्वम् "दैवातुत्थम्" अस्ति । "इति ये मन्यन्ते" । "ते कुबुद्धयः हताः" नष्टाः ॥ २,५.२७ ॥

 

 

 

आलस्यं यदि न भवेज्जगत्यनर्थः

को न स्याद्बहुधनिको बहुश्रुतो वा ।

आलस्यादियमवनिः ससागरान्ता

संपूर्णा नरपशुभिश्च निर्धनैश्च ॥ २,५.२८ ॥

"नरपशुभिः" अज्ञानिभिः । "निर्धनैः" दरिद्रैः । तस्माद्धनकाङ्क्षिभिः मोक्षकाङ्क्षिभिर्वा पौरुषमेव कार्यमिति भावः ॥ २,५.२८ ॥

 

 

पौरुषानुष्ठानप्रकारं कथयति

बाल्ये गतेऽविरतकल्पितकेलिलोले

पौगण्डमण्डनवयःप्रभृति प्रयत्नात् ।

सत्सङ्गमैः पदपदार्थविबुद्धबुद्धिः

कुर्यान्नरः स्वगुणदोषविचारणानि  ॥ २,५.२९ ॥

"अविरतं कल्पिता" या "केलिः" । तया "लोले बाल्ये" । बालभावे "गते" सति । पुरुषः "पौगण्डस्या"वस्थाविशेषस्य "मण्डन"भूतं यत्"वयः" । ततः "प्रभृति" यौवनात्प्रभृति इति यावत् । "प्रयत्नात्" यत्नेन । "स्वगुणदोषविचारणानि कुर्यात्" । कैः कृत्वा । "सत्सङ्गमैः" साधुसङ्गमैः । सत्सङ्गमाभावे हि स्वगुणदोषविचारणमशक्यक्रियमेव । पुरुषः कथंभूतः । "पदपदार्थविबुद्धबुद्धिः" । पदपदार्थयोः विबुद्धा बुद्धिः यस्य । तादृशः । पदपदार्थज्ञ इत्यर्थः ॥ २,५.२९ ॥

 

 

 

श्रीवाल्मीकिः सर्गान्तश्लोकेन भरद्वाजं प्रति तत्रत्यं दिनावसानं कथयति

इत्युक्तवत्यथ मुनौ दिवसो जगाम

सायन्तनाय विधयेऽस्तमिनो जगाम ।

स्नातुं सभा कृतनमस्करणा जगाम

श्यामाक्षये रविकरैश्च सहाजगाम ॥ २,५.३० ॥

"मुनौ" वसिष्ठे । "इति" एवम् । "उक्तवति" सति । "दिवसः जगाम" अवसानं गतः । यतः "इनः" सूर्यः । "अस्तं जगाम" । "सभा" दाशरथी सभा । "कृतनमस्करणा" कृतमुनिनमस्कारा सती । "सायन्तनाय" "विधये" सायं सन्ध्यार्थम् । "स्नातुं जगाम" । सा "सभा श्यामाक्षये" रात्रिक्षये । "रविकरैः" सूर्यकरैः । "सह आजगाम च" । इति शिवम् ॥ २,५.३० ॥

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे पञ्चमः सर्गः ॥ २,५ ॥