मोक्षोपायटीका/मुमुक्षुप्रकरणम्/सर्गः १३
← सर्गः १२ | मोक्षोपायटीका/मुमुक्षुप्रकरणम् भास्करकण्ठः |
सर्गः १४ → |
मोक्षोपायटीका/मुमुक्षुप्रकरणम् |
---|
ओं पूर्वोक्तां दृष्टिमनूद्य तदवष्टंभेन सुबुद्धीनां विचरणं कथयति
एतां दृष्टिमवष्टभ्य पुष्टात्मानः सुबुद्धयः ।
विचरन्त्यसमुन्नद्धा महान्तोऽभ्युदिता इव ॥ २,१३.१ ॥
"एतां" पूर्वसर्गोक्ताम् । "अवष्टभ्य" सततं विमर्षविषयं कृत्वा । "पुष्टात्मानः" । "पुष्टः" अत्यन्ताभिव्यक्तियोग्यतां गतः । "आत्मा" शुद्धचिन्मात्राख्य आत्मा येषां ते । तादृशाः "असमुन्नद्धाः" दर्परहिताः । "अभ्युदिताः इव" प्राप्तराज्या इव ॥ २,१३.१ ॥
न शोचन्ति न याचन्ते न वाञ्छन्ति शुभाशुभम् ।
सर्वमेव च कुर्वन्ति कुर्वन्ति न च किंचन ॥ २,१३.२ ॥
"सर्वमेव" प्रवाहागतं सर्वमेव । "कुर्वन्ति" कर्तव्यमिति निश्चयेन "कुर्वन्ति" । "किंचन न कुर्वन्ति" स्वस्मिन् कर्तृत्वाभिमानाभावात् ॥ २,१३.२ ॥
स्वस्थमेवावतिष्ठन्ति स्वस्थं कुर्वन्ति यान्ति च ।
हेयोपादेयतापक्षरहिताः स्वात्मनि स्थिताः ॥ २,१३.३ ॥
"स्वस्थम्" इत्युभयत्र क्रियाविशेषणं निश्चितमित्यर्थः । "हेयोपादेयतापक्षरहिताः" उपेक्षापक्षे स्थिता इत्यर्थः ॥ २,१३.३ ॥
आयान्ति च न चायान्ति वनं यान्ति न यान्ति च ।
न कुर्वन्त्यपि कुर्वन्ति न वदन्ति वदन्ति च ॥ २,१३.४ ॥
अत्र सर्वत्रापि क्रियाकरणं जीवन्मुक्ततयाश्रितदेहादिद्वारेण ज्ञेयम् । अकरणं त्वशुद्धचिन्मात्रत्वद्वारेणेत्यलम् ॥ २,१३.४ ॥
ये केचन समारम्भा याश्च काश्चन दृष्टयः ।
हेयादेयदृशो यास्ताः क्षीयन्तेऽधिगते पदे ॥ २,१३.५ ॥
"क्षीयन्ते" लीयन्ते । परपदरूपतयैव स्फुरन्ति इति यावत् ॥ २,१३.५ ॥
परित्यक्तसमस्तेहं मनो मधुरवृत्तिमत् ।
सर्वतः सुखमभ्येति चन्द्रबिम्ब इव स्थितम् ॥ २,१३.६ ॥
"मधुरवृत्तिमत्" मैत्रीयुक्तम् ॥ २,१३.६ ॥
अपि निर्मननारम्भमप्यस्ताखिलकौतुकम् ।
आत्मन्येव न मात्यन्तरिन्दाविव रसायनम् ॥ २,१३.७ ॥
"आत्मन्येव न माति" न प्रभवति । अत्यन्तानन्दमयत्वादिति भावः । "मननारम्भ"रहितस्य "कौतुकरहितस्य" च आनन्देन स्व्"आत्मनि" अमानं न युक्तमिति लोकप्रसिद्धिर्"अपि"शब्दाभिप्रायः । रसायनममृतम् ॥ २,१३.७ ॥
न करोतीन्द्रजालानि नानुधावति वासनाम् ।
बालचापलमुत्सृज्य पूर्णमेव विराजते ॥ २,१३.८ ॥
"इन्द्रजालानि" मन्त्रादिप्रभावेन सिद्धानि आकाशगमनादीनि । "वासनां नानुधावति" अपि तु ततो निवृत्तिमेव करोति । बालवत्चापलम् "बालचापलमुत्सृज्य" । "पूर्णम्" तृप्तिसहितं यथा भवति । तथा "विराजते" ॥ २,१३.८ ॥
आत्मतत्त्वावलोकनस्यैव पूर्वोक्तासु वृत्तिषु कारणत्वं गद्येन कथयति
एवंविधा हि वृत्तय आत्मतत्त्वावलोकनाल्लभ्यन्ते । नान्यतस्। तस्माद्विचारेणात्मैवान्वेष्टव्य उपासनीयो ज्ञातव्यो यावज्जीवं पुरुषेन नेतरदिति ॥ २,१३.९ ॥
"इती"त्यन्तम् । टीका । "हि" यस्मात् । "एवंविधाः" पूर्वोक्ताः । वृत्तयः व्यापाराः । "आत्मतत्त्वस्य" परमात्मस्वरूपस्य । यद्"अवलोकनं" । तस्मादेव । "पुरुषेण लभ्यन्ते" । "नान्यतः" । "तस्माद्पुरुषेण यावज्जीवं विचारेणात्मैवान्वेष्टव्यः" । किंरूपोऽसाविति विमर्शनीयः । ततः "उपासनीयः" । उपासनं चात्र अविच्छिन्नप्रवाहेणानुसन्धानविषयीकरणमेव ज्ञेयम् । ततः "ज्ञातव्यः" । स्थूलदेहादिव्यतिरेकेन स्थूलदेहवत्निःसंशयमात्मतत्त्वेन ज्ञातव्यः । "इतरत्" स्थूलदेहादि । "न" ज्ञातव्यम् । "इति"शब्दः गद्यसमाप्तौ ॥ २,१३.९ ॥
नन्वात्मावलोकनं कर्तव्यत्वेन त्वया प्रतिपादितम् । तदवलोकनं कथं सेत्स्यतीत्य् । अत्र पद्येनाह
स्वानुभूतेः सुशास्त्रस्य गुरोश्चैवैकवाक्यता ।
यत्राभ्यासेन तेनात्मा सन्ततेनावलोक्यते ॥ २,१३.१० ॥
"स्वा" निजा । या "अनुभूतिः" । तस्याः । "सुशास्त्रस्य" शोभनशास्त्रस्य । "गुरोः" सद्गुरोश् । "च" इति त्रयस्य । "यत्र" यस्मिनभ्यासे । "एकवाक्यता" अर्थात्मेलनं स्यात् । "सन्ततेना"विच्छिन्नेन । "तेनाभ्यासेन" करणेन । पुरुषेण कर्त्रा । "आत्मावलोक्यते" ॥ २,१३.१० ॥
अवहेलितशास्त्रार्थैरवज्ञातमहाजनैः ।
कष्टामप्यापदं प्राप्तो न मूढैः समतामियात् ॥ २,१३.११ ॥
स्वस्थस्तु कथम् "इयाद्" इत्य्"अपि"शब्दाभिप्रायः ॥ २,१३.११ ॥
एतत्प्रसङ्गेन मौर्ख्यं निन्दति
न व्याधिर्न विषं नापत्तथा नामास्ति भूतले ।
खेदाय स्वशरीरस्थं मौर्ख्यमेव यथा नृणाम् ॥ २,१३.१२ ॥
स्पष्टम् ॥ २,१३.१२ ॥
किंचित्संस्कृतबुद्धीनां श्रव्यं शास्त्रमिदं यथा ।
मौर्ख्यापहं तथा शास्त्रमन्यदस्ति न किंचन ॥ २,१३.१३ ॥
"किंचित्संस्कृतबुद्धीनाम्" पदपदार्थज्ञानामित्यर्थः । "श्रव्यम्" श्रवणार्हम् । "इदं" मोक्षोपायाख्यम् । "मौर्ख्यापहं" मौर्ख्यमुपहन्तीति "मौर्ख्यापहम्" ॥ २,१३.१३ ॥
इदं श्रव्यं सुखकरं कथादृष्टान्तसुन्दरम् ।
अविरुद्धमशेषेण शास्त्रवाक्यार्थबन्धुना ॥ २,१३.१४ ॥
कथाभिः वक्ष्यमाणाः दृष्टान्ताः "कथादृष्टान्ताः" । तैः "सुन्दरम्" । "शास्त्रवाक्यानां" यः "अर्थः" । स एव "बन्धुः" । तेन "अविरुद्धम्" । शास्त्रार्थानुसारीत्यर्थः ॥ २,१३.१४ ॥
आपदो या दुरुत्तारा याश्च तुच्छाः कुयोनयः ।
तास्ता मौर्ख्यात्प्रसूयन्ते खदिरात्कण्ठका इव ॥ २,१३.१५ ॥
स्पष्टम् ॥ २,१३.१५ ॥
वरं शरावहस्तस्य चण्डालागारवीथिषु ।
भिक्षार्थमटनं राम न मौर्ख्यहतजीवितम् ॥ २,१३.१६ ॥
"अटनं" भ्रमणम् ॥ २,१३.१६ ॥
इममालोकमासाद्य मोक्षोपायमयं जनः ।
अन्धतामेति न पुनः कश्चिन्मोहतमस्यपि ॥ २,१३.१७ ॥
"आलोकम्" परतत्त्वप्रकाशकत्वातालोकस्वरूपम् ॥ २,१३.१७ ॥
तावन्नयति संकोचं तृष्णा श्यामा नराम्बुजम् ।
यावद्विवेकसूर्यस्य नोदिता विमला प्रभा ॥ २,१३.१८ ॥
स्पष्टम् ॥ २,१३.१८ ॥
संसारदुःखमोक्षार्थं मादृशैः सह बन्धुभिः ।
स्वरूपमात्मनो ज्ञात्वा गुरुशास्त्रप्रमाणतः ॥ २,१३.१९ ॥
"मादृशैः" साधुभिरित्यर्थः । गुरुशास्त्राख्यं यत्"प्रमाणं" प्रमाकरणम् । तस्मात्"गुरुशास्त्रप्रमाणतः" । "ज्ञात्वे"त्यस्यानन्तरं स्थेयमिति शेषः ॥ २,१३.१९ ॥
जीवन्मुक्ताश्चरन्तीह यथा हरिहरादयः ।
यथा ब्रह्मर्षयश्चान्ये तथा विहर राघव ॥ २,१३.२० ॥
"विहर" हर्षामर्षरहितत्वेन क्रीडां कुरु ॥ २,१३.२० ॥
अनन्तानीह दुःखानि सुखं क्षणलवोपमम् ।
नातः सुखेषु बध्नीयाद्दृष्टिं दुःखानुबन्धिषु ॥ २,१३.२१ ॥
"दुःखानुबन्धिषु" दुःखानुविद्धेषु ॥ २,१३.२१ ॥
पुनः किं कार्यमित्य् । अत्राह
यदनन्तमनायासं तत्पदं सारसिद्धये ।
साधनीयं प्रयत्नेन पुरुषेण विजानता ॥ २,१३.२२ ॥
"अनन्तम्" त्रिविधपरिच्छेदरहितम् । "अनायासं" आयाससाध्यत्वाभावात् । "सारसिद्धये" परमपुरुषार्थसिद्धये । "साधनीयं" स्वोपलब्धिविषयतां नेयम् । "विजानता" किंचिन्मात्रज्ञानयुक्तेन मूर्खस्यात्रानधिकरत्वात् ॥ २,१३.२२ ॥
त एव पुरुषार्थस्य भाजनं पुरुषोत्तमाः ।
अनुत्तमपदालम्बि मनो येषां गतज्वरम् ॥ २,१३.२३ ॥
अविद्यमान उत्तमः यस्मात्तत्"अनुत्तमम्" निरतिशयमिति यावत् । तादृशं यत्"पदम्" । तत्"आलम्बते" इति तादृशम् ॥ २,१३.२३ ॥
संभोगाशनमात्रेषु राज्यादिषु सुखेषु ये ।
संतुष्टा दुष्टमनसो विद्धि तानन्धदुन्दुभान् ॥ २,१३.२४ ॥
"अन्धदुन्दुभान्" अन्धराजिलान् । असम्यग्दर्शित्वादित्यर्थः ॥ २,१३.२४ ॥
ये शठेषु दुरन्तेषु दुष्कृतारम्भशालिषु ।
द्विषत्सु मित्ररूपेषु भक्ता वै भोगभोगिषु ॥ २,१३.२५ ॥
ते यान्ति दुर्गमाद्दुर्गं दुःखाद्दुःखं भयाद्भयम् ।
नरकान्नरकं मूढा मोहमन्थरबुद्धयः ॥ २,१३.२६ ॥
"मित्ररूपेषु द्विषत्सु" आ मुखे सुखकारित्वात्"मोहमन्थरा" मोहनिर्भरा । "बुद्धिः" येषां ते । तादृशाः ॥ २,१३.२५२६ ॥
परस्परविनाशोत्के श्रेयस्यौ न कदाचन ।
सुखदुःखदशे राम तडित्प्रसरभङ्गुरे ॥ २,१३.२७ ॥
स्पष्टम् ॥ २,१३.२७ ॥
ये विरक्ता महात्मानः सुविविक्ता भवादृशः ।
पुरुषान् विद्धि तान् वन्द्यान् भोगमोक्षैकभागिनः ॥ २,१३.२८ ॥
"भोगभाक्त्वं" चैषां प्रवाहगतमेव ज्ञेयम् । न यत्नसाधितम् ॥ २,१३.२८ ॥
विवेकं परमाश्रित्य वैराग्याभ्यासयोगतः ।
संसारसरितं घोरामिमामापदमुत्तरेत् ॥ २,१३.२९ ॥
"अभ्यासः" सच्छास्त्राभ्यासः । "आपदम्" आपद्रूपाम् ॥ २,१३.२९ ॥
न सुप्तव्यं तु संसारमायास्विह हि जानता ।
विषमूर्च्छनसंमोहदायिनीषु विवेकिना ॥ २,१३.३० ॥
"न सुप्तव्यम्" अवहेला न कर्तव्या ॥ २,१३.३० ॥
संसारमिममासाद्य यस्तिष्ठत्यवहेलया ।
ज्वलितस्य गृहस्योच्चैः शेते तार्णस्य सोऽन्तरे ॥ २,१३.३१ ॥
"तार्णस्य" तृणनिर्मितस्य ॥ २,१३.३१ ॥
यत्प्राप्य न निवर्तन्ते यदासाद्य न शोच्यते ।
तत्पदं शेमुषीलभ्यमस्त्येवात्र न संशयः ॥ २,१३.३२ ॥
"शेमुषीलभ्यमेव" बुद्धिलभ्यमेव । न तु बाह्ययत्नलभ्यम् ॥ २,१३.३२ ॥
ननु यदि तत्पदं नास्ति तत्किं शेमुष्या लभ्यते इत्य् । अत्राह
नास्ति चेत्तद्विचारेण दोषः को भवतां भवेत् ।
अस्ति चेत्तत्समुत्तीर्णा भविष्यथ भवार्णवात् ॥ २,१३.३३ ॥
स्पष्टम् ॥ २,१३.३३ ॥
प्रवृत्तिः पुरुषस्येह मोक्षोपायविचारणे ।
यदा भवत्याशु तदा मोक्षभागी स उच्यते ॥ २,१३.३४ ॥
स्पष्टम् ॥ २,१३.३४ ॥
अनपायि निराशङ्कं स्वास्थ्यं विगतविभ्रमम् ।
न विना केवलीभावं विद्यते भुवनत्रये ॥ २,१३.३५ ॥
"स्वास्थ्यम्" स्वस्थता । "केवलीभावं विना" अद्वितीयतां विना ॥ २,१३.३५ ॥
तत्प्राप्तावुत्तमप्राप्तौ न क्लेश उपयुज्यते ।
न मित्राण्युपकुर्वन्ति न धनानि न बान्धवाः ॥ २,१३.३६ ॥
"तत्प्राप्तौ" केवलीभावप्राप्तौ । "क्लेशः" शारीरिकः क्लेशः ॥ २,१३.३६ ॥
न हस्तपादचलनं न देशान्तरसंगमः ।
क्लेशातिशयसाध्यो वा न तीर्थायतनाश्रयः ॥ २,१३.३७ ॥
अस्मिन्नर्थे "हस्तपादा"दि"चलनं न" भवति । "देशान्तरसंगमः" च "न" भवति । अयमर्थः "क्लेशातिशयसाध्यः न" भवति । "तीर्थायतनाश्रयः" च "न" भवति ॥ २,१३.३७ ॥
पुरुषार्थैकसाध्येन वासनैकार्थकर्मणा ।
केवलं तन्मनोमात्रजयेनासाद्यते पदम् ॥ २,१३.३८ ॥
पुरुषेण "तत्" केवलीभावाख्यं "पदम्" । "एवलं मनोमात्रजयेन आसाद्यते" प्राप्यते । "मनोमात्रजयेन" कथंभूतेन । "पुरुषार्थेन" पौरुषेण । "एकम्" केवलं "साध्येन" । पुनः कथंभूतेन "वासनैकार्थकर्मणा" । "वासना" भावना । सा एव "एकार्थः" । तस्य "कर्मणा" । भावनामात्रसाध्येनेत्यर्थः ॥ २,१३.३८ ॥
विवेकमात्रसाध्यं तद्विचारैकान्तनिश्चयम् ।
त्यजता दुःखजालानि नरेण तदवाप्यते ॥ २,१३.३९ ॥
"तद्विचारेण" तद्विषयेण विवेकेन । "एकं" केवलम् । "निश्चयः" यस्य । तम् । विचारनिश्चेयमित्यर्थः । "तत्" केवलीभावाख्यं पदम् ॥ २,१३.३९ ॥
सुखसेव्यासनस्थेन तद्विचारवता स्वयम् ।
न शोच्यते पदं प्राप्य न च भूयोऽभिजायते ॥ २,१३.४० ॥
"तद्विचारवता" केवलीभावविचारयुक्तेन । तत्"पदं" केवलीभावाख्यं पदम् ॥ २,१३.४० ॥
तत्समस्तसुखासारसीमान्तं साधवो विदुः ।
तदनुत्तमनिष्ष्यन्दं परमाहू रसायनम् ॥ २,१३.४१ ॥
स्पष्टम् ॥ २,१३.४१ ॥
क्षयित्वात्सर्वभावानां स्वर्गमानुष्ययोर्द्वयोः ।
सुखं नास्त्येव सलिलं मृगतृष्णास्विवैतयोः ॥ २,१३.४२ ॥
"स्वर्गमानुष्ययोः" स्वर्लोकमनुष्यलोकयोः ॥ २,१३.४२ ॥
अतो मनोजयश्चिन्त्यः शमसंतोषसाधनः ।
अनन्तशमसंभोगस्तस्मादानन्द आप्यते ॥ २,१३.४३ ॥
"अतः" कारणात् । पुरुषेण "मनोजयः चिन्त्यः" । कथंभूतः । "शमसंतोषौ साधनं" यस्य । तादृशः पुरुषः । "तस्मात्" मनोजयात् । "अनन्तशमस्य संभोगः" चमत्कारः । शमास्वादरूपः इति यावत् । "आनन्दः आप्यते" प्राप्यते ॥ २,१३.४३ ॥
जीवता गच्छता चैव भ्रमता पतता तथा ।
रक्षसा दानवेनापि देवेन पुरुषेण वा ॥ २,१३.४४ ॥
मनःप्रशमनोद्भूतं तत्प्राप्य परमं सुखम् ।
विकासिशमपुष्पस्य विवेकोच्चतरोः फलम् ॥ २,१३.४५ ॥
व्यवहारपरेणापि कार्यवृन्दमचिन्वता ।
भानुनेवाम्बरस्थेन नोज्झ्यते न च वाञ्छ्यते ॥ २,१३.४६ ॥
"जीवता गच्छता भ्रमता" । अथ "पतता" । उपलक्षणं चैतत् । सर्वाः क्रियाः कुर्वतेति यावत् । "रक्षसा दानवेनापि देवेन पुरुषेण वा मनःप्रशमनोद्भूतं" तथा "विकासिशमपुष्पस्य" "विवेकोच्चतरोः" फलम् । तत्परमं सुखं निर्वाणाख्यं सुखम् । "प्राप्याम्बरस्थेन भानुना इव नोज्झ्यते न च वाञ्छ्यते" सूर्यवतुपेक्षामेव सर्वत्र क्रियते इत्यर्थः । रक्षःप्रभृतिना कथंभूतेन । "व्यवहारपरेणापि कार्यवृन्दम्" कार्यसमूहम् । "अचिन्वता" नाहंकर्तेति निश्चयात्स्वकृतत्वेनाननुभवता ॥ २,१३.४४४६ ॥
मनः प्रशान्तमत्यच्छं विश्रान्तं गतविभ्रमम् ।
अनीहं विगताभीष्टं नाभिवाञ्छति नोज्झति ॥ २,१३.४७ ॥
"अनीहम्" विकल्पाख्यचेष्टारहितम् । "विगताभीष्टम्" अभीष्टमिदमिति निश्चयरहितम् । प्रवाहागतमुपेक्षया एव करोतीति भावः ॥ २,१३.४७ ॥
पूर्वतरं प्रकृतानां शमादिद्वारपालानां निर्णयं प्रस्तौति
मोक्षद्वारे द्वारपालानिमाञ्शृणु यथाक्रमम् ।
येषामेकतमासक्त्या मोक्षद्वारे प्रविश्यते ॥ २,१३.४८ ॥
"एकतमासक्त्या" एकतमासेवनेन ॥ २,१३.४८ ॥
तत्रापि प्रथमोद्दिष्टं शमं निरूपयति
दुःखदोषदशा दीर्घा संसारमरुमण्डली ।
जन्तोः शीतलतामेति शीतलेन शमाम्बुना ॥ २,१३.४९ ॥
दुःखदोषरूपा दशा यस्यां सा "दुःखदोषदशा" ॥ २,१३.४९ ॥
शमेनासाद्यते श्रेयः शमो हि परमं पदम् ।
शमः शिवं शमः शान्तिः शमो भ्रान्तिनिवारणम् ॥ २,१३.५० ॥
"परमं पदम्" चिन्मात्राख्यमुत्कृष्टं स्थानम् ॥ २,१३.५० ॥
पुंसः प्रशमतृप्तस्य शीतलाच्छतरात्मनः ।
शमतोषितचित्तस्य शत्रुरप्येति मित्रताम् ॥ २,१३.५१ ॥
द्वेषेणैव हि शत्रुः शत्रुः भवति । स च तस्य नास्तीति तस्य "शत्रुः मित्रतामेती"ति भावः ॥ २,१३.५१ ॥
शमचन्द्रमसा येषामाशयः समलंकृतः ।
क्षीराब्धीनामिवोदेति तेषां परमशुद्धता ॥ २,१३.५२ ॥
"परमशुद्धता" वासनाख्यमलराहित्यम् ॥ २,१३.५२ ॥
हृत्कुशेशयकोशेषु येषां शमकुशेशयम् ।
सतां विकसितं ते हि द्विहृत्पद्माः समा हरेः ॥ २,१३.५३ ॥
"हरेर्द्विहृत्पद्मत्वं" नाभिस्थस्य पद्मस्य स्थितत्वाज्ज्ञेयम् ॥ २,१३.५३ ॥
शमश्रीः शोभते येषां मुखेन्दावकलङ्किते ।
तेऽमी कुलेन्दवो वन्द्याः सौन्दर्यविजितेन्दवः ॥ २,१३.५४ ॥
"अकलङ्कितत्वम्" एवात्र इन्दुजये हेतुः ॥ २,१३.५४ ॥
त्रैलोक्योदरवर्तिन्यो नानन्दाय तथा श्रियः ।
साम्राज्यसंपत्प्रतिमा यथा शमविभूतयः ॥ २,१३.५५ ॥
स्पष्टम् ॥ २,१३.५५ ॥
यानि दुःखानि यास्तृष्णा दुःसहा ये दुराधयः ।
तत्सर्वं शान्तचेतस्सु तमोऽर्केष्विव नश्यति ॥ २,१३.५६ ॥
स्पष्टम् ॥ २,१३.५६ ॥
मनो हि सर्वभूतानां प्रसादमनुगच्छति ।
न तथेन्दौ यथा शान्ते जने जनितकौतुकम् ॥ २,१३.५७ ॥
"प्रसादम्" प्रसन्नताम् ॥ २,१३.५७ ॥
शमशालिनि सौहार्दवति सर्वेषु जन्तुषु ।
सुजने परमं तत्त्वं स्वयमेव प्रसीदति ॥ २,१३.५८ ॥
"परमं तत्त्वम्" परमात्मतत्त्वम् । "स्वयमेवा"यत्नमेव । "प्रसीदति" स्वरूपदर्शनाख्यं प्रसादं करोतीत्यर्थः ॥ २,१३.५८ ॥
मातरीव परं यान्ति विषमाणि मृदूनि च ।
विश्वासमिह भूतानि सर्वाणि शमशालिनि ॥ २,१३.५९ ॥
"विषमाणि" हिंसानि । "मृदूनि" कोमलानि ॥ २,१३.५९ ॥
न रसायनपानेन न लक्ष्म्यालिङ्गनेन च ।
तथा सुखमवाप्नोति शमेनान्तर्यथा जनः ॥ २,१३.६० ॥
"अन्तः" मनसि ॥ २,१३.६० ॥
सर्वाधिव्याधिवलितं क्रान्तं तृष्णावरत्रया ।
मनः शमामृतासेकैः समाश्वासय राघव ॥ २,१३.६१ ॥
"समाश्वासय" शीतलय ॥ २,१३.६१ ॥
यत्करोषि यदश्नासि शमशीतलया धिया ।
तत्तेऽतिस्वदते स्वादु नेतरत्तान्तमानसम् ॥ २,१३.६२ ॥
"स्वदते" रोचते । चमत्कारं करोतीति यावत् । "तान्तम्" म्लानियुक्तं कृतम् । "मानसं" येन तत् ॥ २,१३.६२ ॥
शमामृतरसास्नातं मनो यामेति निर्वृतिम् ।
छिन्नान्यपि तयाङ्गानि मन्ये रोहन्ति राघव ॥ २,१३.६३ ॥
"शमामृतरसास्नातं मनः यां निर्वृतिमेति" । हे "राघवा"हं "मन्ये" । "तया" निर्वृत्या । "छिन्नान्यपि अङ्गानि रोहन्ति" ॥ २,१३.६३ ॥
न पिशाचा न रक्षांसि न दैत्या न च शत्रवः ।
न च व्याघ्रभुजङ्गाद्या द्विषन्ति शमशालिनम् ॥ २,१३.६४ ॥
स्पष्टम् ॥ २,१३.६४ ॥
सुसंनद्धसमस्ताङ्गं प्रशमामृतवर्मणा ।
वेधयन्ति न दुःखानि शरा वज्रशिलामिव ॥ २,१३.६५ ॥
"वेधयन्ति" ताडयन्ति ॥ २,१३.६५ ॥
न तथा राजते राजा मान्यान्तःपुरसंस्थितः ।
समया स्वस्थया वृत्त्या यथोपशमशोभितः ॥ २,१३.६६ ॥
"वृत्त्या" व्यापारेण ॥ २,१३.६६ ॥
प्राणात्प्रियतरं दृष्ट्वा तुष्टिमेति न तां जनः ।
यामायाति जनं शान्तमवलोक्य समाशयम् ॥ २,१३.६७ ॥
"समाशयम्" समचेतसम् ॥ २,१३.६७ ॥
समया शमशालिन्या वृत्त्या यः साधु वर्तते ।
अभिनन्दितया लोके जीवतीह स नेतरः ॥ २,१३.६८ ॥
"वर्तते" तिष्ठति । "इतरः" अशान्तः ॥ २,१३.६८ ॥
अनुद्धतमनाः शान्तः साधु कर्म करोति यत् ।
तत्सर्वमभिनन्दन्ति तस्येमा भूतजातयः ॥ २,१३.६९ ॥
"अभिनन्दन्ति" स्तुवन्ति ॥ २,१३.६९ ॥
शान्तस्वरूपनिर्णयद्वारेण शमस्वरूपं निश्चिनोति
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् ।
न हृष्यति ग्लायति यः स शान्त इति कथ्यते ॥ २,१३.७० ॥
उपेक्षा एव शान्तिरिति भावः ॥ २,१३.७० ॥
यः समः सर्वभावेषु नाभिवाञ्छति नोज्झति ।
जित्वेन्द्रियाणि यत्नेन स शान्त इति कथ्यते ॥ २,१३.७१ ॥
स्पष्टम् ॥ २,१३.७१ ॥
तुषारकरबिम्बाच्छं मनो यस्य निराकुलम् ।
मरणोत्सवयुद्धेषु स शान्त इति कथ्यते ॥ २,१३.७२ ॥
स्पष्टम् ॥ २,१३.७२ ॥
स्थितोऽपि न स्थित इव न हृष्यति न कुप्यति ।
यः सुषुप्तमनाः स्वस्थः स शान्त इति कथ्यते ॥ २,१३.७३ ॥
"सुषुप्तमनाः" हर्षामर्षानुसन्धानरहितः ॥ २,१३.७३ ॥
अमृतस्यन्दसुभगा यस्य सर्वजनं प्रति ।
दृष्टिः प्रसरति प्रीता स शान्त इति कथ्यते ॥ २,१३.७४ ॥
स्पष्टम् ॥ २,१३.७४ ॥
स्पष्टावदातया बुद्ध्या यथैवान्तस्तथा बहिः ।
दृश्यन्ते यस्य कार्याणि स शान्त इति कथ्यते ॥ २,१३.७५ ॥
कपटराहित्यादिति भावः ॥ २,१३.७५ ॥
अप्यापत्सु दुरन्तासु कल्पान्तेषु दहत्स्वपि ।
तुच्छेहं न मनो यस्य स शान्त इति कथ्यते ॥ २,१३.७६ ॥
"तुच्छेहम्" तुच्छोपायपरम् ॥ २,१३.७६ ॥
योऽन्तः शीतलतां यातो यो भावेषु न मज्जति ।
व्यवहारी न संमूढः स शान्त इति कथ्यते ॥ २,१३.७७ ॥
"न मज्जति" रागोद्रेकेणासक्तो न भवति । "व्यवहारी" व्यवहारकारी । "न संमूढः" न व्यवहाररहितः । व्यवहाररहितस्य हि अमज्जनं व्यवहाराभावकृतमेव न शान्तिकृतम् ॥ २,१३.७७ ॥
आकाशसदृशी यस्य नित्यं स्वव्यवहारिणः ।
कलङ्कमेति न मतिः स शान्त इति कथ्यते ॥ २,१३.७८ ॥
"स्वः" निजः । "व्यवहारः" अस्यास्तीति तादृशस्य ॥ २,१३.७८ ॥
तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च ।
बलवत्सु गुणाढ्येषु शमवानेव राजते ॥ २,१३.७९ ॥
स्पष्टम् ॥ २,१३.७९ ॥
शमसंसक्तमनसां महतां गुणशालिनाम् ।
उदेति निर्वृतिश्चित्ताज्ज्योत्स्नेव हिमरोचिषः ॥ २,१३.८० ॥
स्पष्टम् ॥ २,१३.८० ॥
सीमान्तो गुणपूगानां पौरुषैकान्तभूषणम् ।
संकटेष्वभयस्थानं शमः श्रीमान् विराजते ॥ २,१३.८१ ॥
स्पष्टम् ॥ २,१३.८१ ॥
सर्गान्तश्लोकेन शमनिरूपणं समापयति
शमममृतमहार्यमार्यजुष्टं
परमवलम्ब्य पदं परं प्रयाताः ।
रघुतनय यथा महानुभावाः
क्रममनुपालय सिद्धये तमेव ॥ २,१३.८२ ॥
हे "रघुतनय" । "महानुभावाः" पुरुषाः । "अमृतम्" अमृतरूपम् । "अहार्यम्" अनाश्यम् "आर्यजुष्टम्" ।" शमं" पूर्वोक्तस्वरूपं शमं "अवलम्ब्य" । "परं" पदं परचित्स्वरूपमुत्कृष्टं स्थानम् । यथा "प्रयाताः" । त्वम् "तम्" तथाविधम् । "क्रमं सिद्धये अनुपालय" । इति शिवम् ॥ २,१३.८२ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे त्रयोदशः सर्गः ॥ २,१३ ॥