मोक्षोपायटीका/मुमुक्षुप्रकरणम्/सर्गः १५
← सर्गः १४ | मोक्षोपायटीका/मुमुक्षुप्रकरणम् भास्करकण्ठः |
सर्गः १६ → |
मोक्षोपायटीका/मुमुक्षुप्रकरणम् |
---|
ओमेवं विचारस्वरूपं निर्णीय तृतीयस्य संतोषस्य स्वरूपं कथयति
संतोषोऽपि परं श्रेयः संतोषः सुखमुच्यते ।
संतुष्टः परमभ्येति विश्राममरिसूदन ॥ २,१५.१ ॥
"संतुष्टः" संतोषयुक्तः पुरुषः ॥ २,१५.१ ॥
संतोषैश्वर्यसुखिनां चिरविश्रान्तचेतसाम् ।
साम्राज्यमपि साधूनां जरत्तृणलवायते ॥ २,१५.२ ॥
स्पष्टम् ॥ २,१५.२ ॥
संतोषशालिनी बुद्धी राम संसारवृत्तिषु ।
विषमास्वप्यनुद्विग्ना न कदाचन दूयते ॥ २,१५.३ ॥
"न दूयते" संतप्यते संतुष्टवान् ॥ २,१५.३ ॥
संतोषामृतपानेन ये परां तृप्तिमागताः ।
भोगश्रीरतुला तेषामेषा प्रतिविषायते ॥ २,१५.४ ॥
प्रतिविषा इवाचरते "प्रतिविषायते" । प्रतिविषा तिक्तद्रव्यविशेषः ॥ २,१५.४ ॥
न तथा तर्पयन्त्येताः पीयूषरसवीचयः ।
यथा हि मधुरास्वादः संतोषो दोषनाशनः ॥ २,१५.५ ॥
स्पष्टम् ॥ २,१५.५ ॥
संतुष्टस्वरूपकथनद्वारेण संतोषस्वरूपं कथयति
अप्राप्तवाञ्छामुत्सृज्य संप्राप्ते समतां गतः ।
अदृष्टखेदाखेदोऽन्तः स संतुष्ट इहोच्यते ॥ २,१५.६ ॥
"संप्राप्ते" प्रवाहागते ॥ २,१५.६ ॥
आत्मनात्मनि संतोषं यावद्याति न मानसम् ।
उद्भवन्त्यापदस्तावल्लता इव मनोवनात् ॥ २,१५.७ ॥
"आत्मना" स्वेन । न तु भोगादिना ॥ २,१५.७ ॥
संतोषशीतलं चेतः शुद्धविज्ञानदृष्टिभिः ।
भृशं विकासमायाति सूर्यांशुभिरिवाम्बुजम् ॥ २,१५.८ ॥
संतुष्टस्यैव ज्ञाने अधिकार इति भावः ॥ २,१५.८ ॥
आशावैवश्यविवशे चित्ते संतोषवर्जिते ।
म्लाने वक्त्रमिवादर्शे न ज्ञानं प्रतिबिम्बति ॥ २,१५.९ ॥
"प्रतिबिम्बति" लगति ॥ २,१५.९ ॥
अज्ञानघनयामिन्या संकोचं न नराम्बुजम् ।
यात्यसावुदितो यस्य नित्यं संतोषभास्करः ॥ २,१५.१० ॥
तत्"नराम्बुजमज्ञानघनयामिन्या संकोचं न याति" । तत्किम् । "यस्यासौ संतोषभास्करः नित्यमुदितो" भवति ॥ २,१५.१० ॥
अकिंचनोऽप्यसौ जन्तुः साम्राज्यसुखमश्नुते ।
आधिव्याधिविनिर्मुक्तं संतुष्टं यस्य मानसम् ॥ २,१५.११ ॥
स्पष्टम् ॥ २,१५.११ ॥
नाभिवाञ्छत्यसंप्राप्तं प्राप्तं भुङ्क्ते यथाक्रमम् ।
यः ससोम्यः सदाचारः संतुष्ट इति कथ्यते ॥ २,१५.१२ ॥
स्पष्टम् ॥ २,१५.१२ ॥
संतोषपरितृप्तस्य महतः पूर्णचेतसः ।
क्षीराब्धेरिव शुद्धस्य मुखे लक्ष्मीर्विराजते ॥ २,१५.१३ ॥
स्पष्टम् ॥ २,१५.१३ ॥
पूर्णतामलमाश्रित्य स्वात्मन्येवात्मना स्वयम् ।
पौरुषेण प्रयत्नेन तृष्णां सर्वत्र वर्जयेत् ॥ २,१५.१४ ॥
"पूर्णतां" तृप्तताम् । "आत्मना एव" । न तु भोगैरित्यर्थः ॥ २,१५.१४ ॥
संतोषामृतपूर्णस्य स्वान्तः शीतलता स्वयम् ।
स्थैर्यमायात्यरिक्तस्य शीतांशोरिव शाश्वतम् ॥ २,१५.१५ ॥
"स्वान्तः" स्वमनसि । "अरिक्तस्य" पूर्णस्य ॥ २,१५.१५ ॥
संतोषपुष्टमनसं भृत्या इव महर्द्धयः ।
राजानमुपतिष्ठन्ते किंकरत्वमुपागताः ॥ २,१५.१६ ॥
यथा "किंकरत्वमुपागताः भृत्याः राजानमुपतिष्ठन्ते" तथा "संतोषपुष्टमनसं" "महर्द्धयः उपतिष्ठन्ते" ॥ २,१५.१६ ॥
आत्मनैवात्मनि स्वच्छे संतुष्टे पुरुषे स्थिते ।
प्रशाम्यन्त्याधयः सर्वे प्रावृषीवाशु पांसवः ॥ २,१५.१७ ॥
"स्वच्छे" रागादिमलरहिते ॥ २,१५.१७ ॥
नित्यं शीतलया नाम कलङ्कपरिहीनया ।
पुरुषः शुद्धया वृत्त्या भाति पूर्णतयेन्दुवत् ॥ २,१५.१८ ॥
"नाम" निश्चये । "कलङ्कहीनया" असन्तोषाख्यमलरहितया ॥ २,१५.१८ ॥
संतोषविवेचनं सर्गान्तश्लोकेन समापयति
समतया मतया गुणशालिनां
पुरुषराडिह यः समलंकृतः ।
तममलं प्रणमन्ति नभश्चरा
अपि महामुनयो रघुनन्दन ॥ २,१५.१९ ॥
स्पष्टम् । इति शिवम् ॥ २,१५.१९ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे पञ्चदशः सर्गः ॥ २,१५ ॥