मोक्षोपायटीका/मुमुक्षुप्रकरणम्/सर्गः १४

← सर्गः १३ मोक्षोपायटीका/मुमुक्षुप्रकरणम्
भास्करकण्ठः
सर्गः १५ →
मोक्षोपायटीका/मुमुक्षुप्रकरणम्

 


ओं विवेकनिर्णयं प्रस्तौति

शास्त्रावबोधामलया धिया परमपूतया । ।

कर्तव्यः कारणज्ञेन विचारोऽनिशमात्मनः ॥ २,१४.१ ॥"

कारणज्ञेन" किम् । केन संपद्यते इति जानता पुरुषेण । "धिया आत्मनः विचारः अनिशं कर्तव्यः" ॥ २,१४.१ ॥

 

 

ननु विचारेण किं सेत्स्यति इत्य् । अत्राह

विचारात्तीक्ष्णतामेत्य धीः पश्यति परं पदम् ।

दीर्घसंसाररोगस्य विचारो हि महौषधम् ॥ २,१४.२ ॥

"परं पदम्" शुद्धचिन्मात्राख्यं महास्थानम् ॥ २,१४.२ ॥

 

 

आपद्वनमनन्तेहापरिपल्लविताकृति  ।

विचारक्रकचच्छिन्नं नैव भूयः प्ररोहति ॥ २,१४.३ ॥

"अनन्ताः" याः "ईहाः" चेष्टाः । ताभिः "परिपल्लविता" पुष्टीभूता । "आकृतिः" यस्य तत् ॥ २,१४.३ ॥

 

 

 

मोहेषु बन्धुनाशेषु संकटेषु भ्रमेषु च ।

सर्वेष्वेव महाप्राज्ञ विचारो हि सतां गतिः ॥ २,१४.४ ॥

"गतिः" शरणम् ॥ २,१४.४ ॥

 

 

न विचारं विना कश्चिदुपायोऽस्ति विपच्छमे ।

विचारादशुभं त्यक्त्वा शुभमायाति धीः सताम् ॥ २,१४.५ ॥

स्पष्टम् ॥ २,१४.५ ॥

 

 

बलं बुद्धिश्च तेजश्च प्रतिपत्तिः क्रियाफलम् ।

फलन्त्येतानि सर्वाणि विचारेणैव धीमतः ॥ २,१४.६ ॥

"प्रतिपत्तिः" ज्ञानम् । अविवेकेन तु कृतानि "एतानि" अनर्थमेवोत्पादयन्तीति भावः ॥ २,१४.६ ॥

 

 

 

युक्तायुक्तमहादीपमभिवाञ्छितसाधकम् ।

स्फारं विचारमाश्रित्य संसारजलधिं तरेत् ॥ २,१४.७ ॥

"युक्तायुक्तमहादीपं" इदं युक्तमिदं त्वयुक्तमिति प्रकाशकमित्यर्थः । "स्फारं" विस्तीर्णम् ॥ २,१४.७ ॥

 

 

आलूनहृदयाम्भोजं महामोहमतङ्गजम् ।

विदारयति शुद्धात्मा विचारोदारकेसरी ॥ २,१४.८ ॥

"विदारयति" विनाशयति ॥ २,१४.८ ॥

 

 

मूढाः कालवशेनेह यद्गताः परमं पदम् ।

तद्विचारप्रदीपस्य विजृम्भितमनुत्तमम् ॥ २,१४.९ ॥

"कालेन" हि "मूढा" अपि शुद्धचिन्मात्राख्यं "परमं पदं" प्राप्नुवन्ति । "विजृम्भितम्" विलसितम् । "अनुत्तमम्" निरतिशयम् ॥ २,१४.९ ॥

 

 

राज्यानि संपदः स्फारो भोगो मोक्षश्च शाश्वतः ।

विचारकल्पवृक्षस्य फलान्येतानि राघव  ॥ २,१४.१० ॥

स्पष्टम् ॥ २,१४.१० ॥

 

 

 

या विवेकविलासिन्यो मतयो महतामिह ।

न ता विपदि मज्जन्ति तुम्बकानीव वारिणि ॥ २,१४.११ ॥

विवेकविलासः आसामस्तीति "विवेकविलासिन्यः" ॥ २,१४.११ ॥

 

 

विचारोदयहारिण्या धिया व्यवहरन्ति ये ।

फलानामत्युदाराणां भाजनं हि भवन्ति ते ॥ २,१४.१२ ॥

"विचारोदयेन हारिण्या" मनोहरया ॥ २,१४.१२ ॥

 

 

मूर्खहृत्काननस्थानामाशाप्रसररोधिनाम् ।

अविचारकरञ्जानां मञ्जर्यो दुःखरीतयः ॥ २,१४.१३ ॥

"आशा" मोक्षाशा । तस्याः यः "प्रसरः" । तं रुन्धन्तीति तादृशानां दिक्"प्रसररोधिनां" च । "करञ्जानां" कण्टकवृक्षाणाम् । "दुःखरीतयः" दुःखरचनाः ॥ २,१४.१३ ॥

 

 

 

कज्जलक्षोदमलिना मदिरामोदधारिणी ।

अविचारमयी निद्रा यातु ते राघव क्षयम् ॥ २,१४.१४ ॥

"कज्जलक्षोदेन" मन्त्रसंस्कृतेन । "कज्जलक्षोदेन मलिना" घना । कज्जलक्षोदवत्"मलिना" चात्यन्तकालुष्यात् । "मदिरा मोदं धारयती"ति तादृशी । मदिरामोदेनापि "निद्रा" घनीभवति । "अविचारमयी" अविचारस्वरूपा तामेव "क्षयं" नयेति भावः ॥ २,१४.१४ ॥

 

 

महापद्यपि दीर्घेषु सद्विचारपरो नरः ।

न निमज्जति मोहेषु तेजोराशिस्तमस्स्विव ॥ २,१४.१५ ॥

"मोहेषु" किं करोमीत्येवंरूपेषु ॥ २,१४.१५ ॥

 

 

 

मानसे सरसि स्वच्छे विचारकमलोत्करः ।

नूनं विकसितो यस्य हिमवानिव भाति सः ॥ २,१४.१६ ॥

"मानसे सरसि" हृदयाख्ये सरसि मानसाख्ये सरसीति च ॥ २,१४.१६ ॥

 

 

विचारविकला यस्य मतिर्मान्द्यमुपेयुषः ।

तस्योदेत्यशनिश्चन्द्रान्मुधा यक्षः शिशोरिव ॥ २,१४.१७ ॥

"विचारविकला" विचाररहिता । "मान्द्यं" जाड्यम् । "चन्द्रात्" चित्सूर्यप्रतिबिम्बरूपत्वेन चन्द्रतुल्यात्संसारात् । "अशनिः" भावाभावकृतहर्षामर्षरूपं वज्रमाश्चर्यं च चन्द्रादशनेरुत्पादः ॥ २,१४.१७ ॥

 

 

 

दुःखषण्डकवल्मीकं विपन्नवलतामधुः ।

राम दूरे परित्याज्यो निर्विवेको नराधमः ॥ २,१४.१८ ॥

"नराधमः" किम् । "दुःखः षण्डकानां वल्मीकम्" । वल्मीके हि कण्टकषण्डकानि भवन्ति । पुनः कः । "विपद्" एव "नवलता" । तस्याः "मधुः" वसन्तः ॥ २,१४.१८ ॥

 

 

ये केचन दुरारम्भा दुराचारा दुराधयः ।

अविचारेण ते भान्ति वेतालास्तमसा यथा ॥ २,१४.१९ ॥

"दुरारम्भाः" कुत्सिताः कार्यारम्भाः ॥ २,१४.१९ ॥

 

 

अविचारिणमेकान्तजरद्द्रुमसधर्मकम् ।

अक्षमं साधुकार्येषु दूरे कुरु रघूद्वह ॥ २,१४.२० ॥

"एकान्ते" जनरहिते देशे । स्थितः "जरद्द्रुमः" । तस्य "सधर्मकम्" सदृशम् । "साधुकार्येषु" चित्तनिरोधादिषु । फलदानेन परोपकाररूपेषु च शुभकार्येषु ॥ २,१४.२० ॥

 

 

 

विविक्तं हि मनो जन्तोराशावैवश्यवर्जितम् ।

परां निर्वृतिमभ्येति पूर्णश्चन्द्र इवात्मनि ॥ २,१४.२१ ॥

"विविक्तम्" विवेकयुक्तम् । "आशावैवश्यवर्जितम्" इति विशेषणद्वारेण हेतुः । आशावैवश्यस्यैव निर्वृतिरोधकत्वात् ॥ २,१४.२१ ॥

 

 

विवेकितोदिता देहं सर्वं शीतलयत्यलम् ।

अलंकरोति चात्यन्तं ज्योत्स्नेव भुवनं नवा ॥ २,१४.२२ ॥

"नवा" शरत्कालीना ॥ २,१४.२२ ॥

 

 

परमार्थपताकाया धियो धवलचामरम् ।

विचारो राजते जन्तो रजन्यामिव चन्द्रमाः ॥ २,१४.२३ ॥

"परमार्थस्य" शुद्धचिन्मात्रतत्त्वाख्यपरमार्थस्य । "पताकायाः" प्रदर्शकत्वसामान्येन चिह्णभूतपताकारूपायाः "धियः" । "धवलचामरम्" शोभादायकत्वेन धवलचामररूपम् ॥ २,१४.२३ ॥

 

 

 

विचारचारवो भावा भासयन्तो दिशो दश ।

भान्ति भास्करवद्भग्नभूयोभवभयामयाः ॥ २,१४.२४ ॥

"भावाः" मनुष्यादिरूपाः पदार्थाः । "भावाः" कथंभूताः । "भग्नाः भूयांसि भवभयानि" एव्"आमयाः" यैः ते । "भास्करो"ऽपि "दश दिशः" भासयति ॥ २,१४.२४ ॥

 

 

बालस्य स्वमनोमोहकल्पितः प्राणहारकः ।

रात्रौ तमसि वेतालो विचारेण विलीयते ॥ २,१४.२५ ॥

स्पष्टम् ॥ २,१४.२५ ॥

 

 

सर्व एव जगद्भावा अविचारेण चारवः ।

अविद्यमानसद्भावा विचारविशरारवः ॥ २,१४.२६ ॥

"सर्व एव जगद्भावाः" जगत्पदार्थाः । "अविचारेण" विचारराहित्येन । "चारवः" भवन्ति । कथंभूताः । "अविद्यमानसद्भावाः" । अत एव च "विचारविशरारवश्" च विचारासहत्वात् ॥ २,१४.२६ ॥

 

 

 

पुंसो निजमनोमोहकल्पितोऽनल्पदुःखदः ।

संसारचिरवेतालो विचारेण विलीयते ॥ २,१४.२७ ॥

स्पष्टम् ॥ २,१४.२७ ॥

 

 

समस्वच्छं निराबाधमनन्तमननाश्रयम् ।

विद्धीमं केवलीभावं विचारोऽग्रतरोः फलम् ॥ २,१४.२८ ॥

समं च तत्स्वच्छं "समस्वच्छं" । "निराबाधम्" केनापि प्रमाणेन बाधयितुमशक्यम् । "अनन्तस्या"परिच्छिन्नस्य स्वात्मतत्त्वस्य । यत्"मननम्" परामर्शः । तस्य्"आश्रयम्" लक्षणया साधकम् ॥ २,१४.२८ ॥

 

 

अचलस्थितिनोदारप्रकटाभोगतेजसा ।

तेन निष्कामतोदेति शीततेवोदितेन्दुना ॥ २,१४.२९ ॥

"उदारप्रकटाभोगं" उद्भटप्रकटविस्तारम् । "तेजः" यस्य । तादृशेन । "निष्कामता" कामनाराहित्यम् । "उदितश्" चासाव्"इन्दुः" । तेन ॥ २,१४.२९ ॥

 

 

ननु निष्कामतया किं सेत्स्यतीत्य् । अत्राह

चिन्ताज्वरमहौषध्या साधुश्चित्तनिषण्णया ।

तयोत्तमत्वप्रदया नाभिवाञ्छति नोज्झति ॥ २,१४.३० ॥

"तया" निष्कामतया । "नाभिवाञ्छति नोज्झति" सर्वत्रोपेक्षामेव भजते इत्यर्थः ॥ २,१४.३० ॥

 

 

पुनः किं करोतीत्य् । अत्राह

तत्सदालम्बनं चेतः स्फारमाभासमागतम् ।

नास्तमेति न चोदेति खमिवातिततान्तरम् ॥ २,१४.३१ ॥

सा निष्कामता "सदा आलम्बनम्" आश्रयो यस्य । तत्"तत्सदालम्बनम्" । तथा "स्फारं" स्फुरणशीलम् । "आभासमागतम्" विवेकयुक्तं जातमित्यर्थः ॥ २,१४.३१ ॥

 

 

न जहाति न चादत्ते नोत्ताम्यति न शाम्यति ।

केवलं साक्षिवत्पश्यञ्जगदात्मनि तिष्ठति ॥ २,१४.३२ ॥

"नोत्ताम्यति" न क्षुभ्यति ॥ २,१४.३२ ॥

 

 

 

न च शाम्यति नाप्यन्तर्नापि बाह्येऽवतिष्ठति ।

न च नैष्कर्म्यमादत्ते न च कर्माणि मज्जति ॥ २,१४.३३ ॥

सर्वत्रोपेक्षयैव वर्तते इति भावः ॥ २,१४.३३ ॥

 

 

उपेक्षते गतं वस्तु संप्राप्तमनुवर्तते ।

न क्षुब्धो नाति चाक्षुब्धो भाति पूर्ण इवार्णवः ॥ २,१४.३४ ॥

"अनुवर्तते" निरनुसन्धानं प्रवर्तते । "अति" अतिशयेन ॥ २,१४.३४ ॥

 

 

एवंरूपेण मनसा महात्मानो महाशयाः ।

जीवन्मुक्ता जगत्यस्मिन् विहरन्ति हि योगिनः ॥ २,१४.३५ ॥

स्पष्टम् ॥ २,१४.३५ ॥

 

 

उषित्वा सुचिरं कालं धीरास्ते यावदीप्सितम् ।

तनुमन्ते परित्यज्य यान्ति केवलतां तताम् ॥ २,१४.३६ ॥

"केवलताम्" विदेहमुक्तताम् । "यावदीप्सितम्" इत्यनेन सर्वमेव भगवत्कृतं तेषामीप्सितमेवास्तीति सूचितम् ॥ २,१४.३६ ॥

 

 

कोऽहं कस्य च संसार इत्यापद्यपि धीमता ।

चिन्तनीयं प्रयत्नेन सप्रतीकारमात्मना ॥ २,१४.३७ ॥

किमुत वक्तव्यं संपदीत्य्"अपि"शब्दाभिप्रायः । "सप्रतीकारम्" प्रतीकारसहितम् । न तु चिन्तनमात्रेणैव । प्रतीकारश्चात्र भोगत्याग एव ज्ञेयः ॥ २,१४.३७ ॥

 

 

कार्यसंकटसन्देहं राजा जानाति राघव ।

निष्फलं सफलं वापि विचारेणैव नान्यथा ॥ २,१४.३८ ॥

बहिरपि विचारस्यैव साम्राज्यमिति भावः ॥ २,१४.३८ ॥

 

 

वेदवेदान्तसिद्धान्तस्थितयः स्थितिकारणम् ।

निर्णीयन्ते विचारेण दीपेनेव भुवो निशि ॥ २,१४.३९ ॥

वेदवेदान्तरूपाः स्थितयः मर्यादाः "वेदवेदान्तस्थितयः" । "स्थितिकारणम्" संसारमर्यादाकारणभूताः ॥ २,१४.३९ ॥

 

 

 

अनष्टमन्धकारेषु बहुतेजस्स्वजिह्मितम् ।

पश्यत्यपि व्यवहितं विचारश्चारुलोचनम् ॥ २,१४.४० ॥

"अजिह्मितम्" तेजोऽभिमुखे हि चक्षुषि प्रतीघातेन जिह्मितत्वं परिवर्तितत्वं भवति । तच्चात्र नास्तीत्यर्थः ॥ २,१४.४० ॥

 

 

विवेकान्धो हि जात्यन्धः शोच्यः सर्वस्य दुर्मतिः ।

दिव्यचक्षुर्विवेकात्मा जयत्यखिलवस्तुषु ॥ २,१४.४१ ॥

"सर्वस्य शोच्यः" सर्वैः शोचनीय इत्यर्थः । "विवेकः आत्मा" प्रधानं यस्य सः "विवेकात्मा" विवेकान्वित इत्यर्थः । "जयति" सर्वोत्कर्षेण वर्तते इत्यर्थः ॥ २,१४.४१ ॥

 

 

परमात्ममयी पाल्या महानन्दैकसाधनी ।

क्षणमेकं परित्याज्या न विचारचमत्कृतिः ॥ २,१४.४२ ॥

"पाल्या" रक्षणीया ॥ २,१४.४२ ॥

 

 

विचारचारुः पुरुषो महतामपि रोचते ।

परिपक्वं चमत्कारि सहकारफलं यथा ॥ २,१४.४३ ॥

स्पष्टम् ॥ २,१४.४३ ॥

 

 

विचारकान्तमतयो नानेकेषु पुनः पुनः ।

लुठन्ति दुःखश्वभ्रेषु ज्ञातोर्ध्वगतयो नराः ॥ २,१४.४४ ॥

"ज्ञाताः" अधिगता । "ऊर्ध्वे" उत्तीर्णे चिन्मात्रे । "गतिः" यैते ॥ २,१४.४४ ॥

 

 

न विरौति तथा रोगी नानर्थशतजर्जरः ।

अविचारविनष्टात्मा यथाज्ञः परिरोदिति ॥ २,१४.४५ ॥

"नानर्थशतजर्जर" इत्यत्र "च"शब्दोऽध्याहार्यः । "अविचारेणा"विवेकेन "विनष्टः" विस्मृतः । "आत्मा" पारमार्थिकं स्वरूपं यस्य । तादृशः ॥ २,१४.४५ ॥

 

 

वरं कर्दमकीटत्वं श्वभ्रकण्टकता वरम् ।

वरमन्धगुहाहित्वं न नरस्याविचारिता ॥ २,१४.४६ ॥

स्पष्टम् ॥ २,१४.४६ ॥

 

 

सर्वानर्थनिजावासं सर्वसाधुतिरस्कृतम् ।

सर्वदौःस्थित्यसीमान्तमविचारं परित्यजेत् ॥ २,१४.४७ ॥

"सर्वे" ये "अनर्थाः" । तेषां "निजः" स्वकीयः । "आवासः" सर्वानर्थश्रयमित्यर्थः ॥ २,१४.४७ ॥

 

 

नित्यं विचारयुक्तेन भवितव्यं महात्मना ।

भवान्धकूपे पततां विचारो ह्यवलम्बनम् ॥ २,१४.४८ ॥

"हि" यस्मादर्थे । "अवलम्बनम्" आधारः ॥ २,१४.४८ ॥

 

 

स्वयमेवात्मनात्मानमवष्टभ्य विचारतः ।

संसारमोहजलधेस्तारयेत्स्वमनोमृगम् ॥ २,१४.४९ ॥

"आत्मना" मनसा । "आत्मानं" परमात्मानम् । "अवष्टभ्य" भावनया गृहीत्वा ॥ २,१४.४९ ॥

 

 

विचारस्य स्वरूपं कथयति

कोऽहं कथमयं दोषः संसाराख्य उपागतः ।

न्यायेनेति परामर्शो विचार इति कथ्यते ॥ २,१४.५० ॥

"न्यायेन" युक्त्या । "परामर्शः" सन्ततभावनम् ॥ २,१४.५० ॥

 

 

अन्धान्धमोहमुखरं चिरं दुःखाय केवलम् ।

कृतं शिलाया हृदयं दुर्मतेश्चाविचारिणः ॥ २,१४.५१ ॥

अतिषयेनान्धम् "अन्धान्धम्" । तादृशं च तत्"मोहमुखरं" च । जाड्येन विपर्यासयुक्तमित्यर्थः । "दुःखाय" स्वस्य परस्य चेति ज्ञेयम् ॥ २,१४.५१ ॥

 

 

 

भावाभावग्रहोत्सर्गदृशामिह हि राघव ।

न विचारादृते तत्त्वं ज्ञायते  साधु किंचन ॥ २,१४.५२ ॥

"ग्रहः" ग्रहणम् । "उत्सर्गः" त्यागः ॥ २,१४.५२ ॥

 

 

 

विचाराज्ज्ञायते तत्त्वं तत्त्वाद्विश्रान्तिरात्मनि ।

ततो मनसि शान्तत्वं सर्वदुःखपरिक्षयः ॥ २,१४.५३ ॥

"तत्त्वम्" चिन्मात्राख्यं परमं तत्त्वम् । "आत्मनि" शुद्धचिन्मात्ररूपे आत्मनि । "शान्तत्वस्य" स्वरूपं कथयति । "सर्वे"ति । "सर्वदुःखक्षयस्यै"व शान्तिरूपत्वात् ॥ २,१४.५३ ॥

 

सर्गान्तश्लोकेन विचारनिरूपणं समापयति

सफलता फलते भुवि कर्मणां

प्रकटतां किल गच्छत उत्तमात् ।

स्फुटविचारदृशैव विचारिता

शमवते भवतेऽपि विरोचताम् ॥ २,१४.५४ ॥

"किल" निश्चये । "भुवि कर्मणां सफलता फलते" । "स्फुटविचारदृशैव" "स्फुटा" या "विचारदृक्" । तयैव । "उत्तमात्" विशेषतः । "प्रकटतां" "गच्छतः" विवेकस्यैव सर्वप्रकटने शक्तत्वात् । अतः इयं "विचारिता" "शमवते भवतेऽपि विरोचताम्" । इति शिवम् ॥ २,१४.५४ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे चतुर्दशः सर्गः ॥ २,१४ ॥