मोक्षोपायटीका/मुमुक्षुप्रकरणम्/सर्गः ६
← सर्गः ५ | मोक्षोपायटीका/मुमुक्षुप्रकरणम् भास्करकण्ठः |
सर्गः ७ → |
मोक्षोपायटीका/मुमुक्षुप्रकरणम् |
---|
प्रभाते श्रीवसिष्ठः श्रीरामं प्रति पूर्वसर्गोक्तवस्तुफलितं कथयति
तस्मात्प्राक्पौरुषं दैवं नान्यत्तत्प्रोज्झ्य दूरतः ।
साधुसङ्गमसच्छास्त्रैर्जीवमुत्तारयेद्बलात् ॥ २,६.१ ॥
"तस्मात्" पूर्वसर्गोक्ताथेतोः । "प्राक्पौरुषं" प्राक्तनं पौरुषम् । "दैवम्" भवति । "अन्यत्" पौरुषाद्भिन्नं किंचिद्दैवम् । "न" भवति । अतः पुरुषः "तत्" दैवम् । "दूरतः प्रोज्झ्य" अर्थातद्यतनं शुभं पौरुषमाश्रित्य । "साधुसङ्गमसच्छास्त्रैः" हेतुभूतैः । "जीवं बलात्" हठेन । "उत्तारयेत्" । "संसाराद्" इति शेषः ॥ २,६.१ ॥
यथा यथा प्रयत्नः स्याद्भवेदाशु फलं तथा ।
इति पौरुषमेवास्ति दैवमस्तु तदेव वः ॥ २,६.२ ॥
"प्रयत्नः" पौरुषम् । "तत्" युष्माभिः अङ्गीकृतं "दैवम्" । "वः एव" युष्माकमेव्"आस्तु" ॥ २,६.२ ॥
दुःखाद्यथा दुःखकाले हा कष्टमिति कथ्यते ।
हाकष्टशब्दपर्यायस्तथा हा दैवमित्यपि ॥ २,६.३ ॥
"तथा हा कष्टमिति"वत्"हा दैवमिति" दीनानामेवोक्तिरस्तीति भावः ॥ २,६.३ ॥
प्राक्स्वकर्मेतराकारं दैवं नाम न विद्यते ।
बालः प्रबलपुंसेव तज्जेतुमिव शक्यते ॥ २,६.४ ॥
"प्राक्स्वकर्मणः" प्राक्तनस्वकर्मणः । "इतराकारं दैवं नाम न विद्यते" । प्राक्तनात्स्वकर्मणः पृथक्सत्तां न भजते इत्यर्थः । अतः पुंसा "तत्" दैवम् । "जेतुं शक्यते" केन्"एव" । "प्रबलपुंसा इव" । यथा तेन "बालो जेतुं शक्यते" तथेत्यर्थः ॥ २,६.४ ॥
ह्यस्तनो दुष्ट आचार आचारेणाद्य चारुणा ।
यथाशु शुभतां याति प्राक्तनं कुकृतं तथा ॥ २,६.५ ॥
"अद्याचारेण" अद्य कृतेनाचारेण । "तथा" तद्वत् । "प्राक्तनं कुकृतम्" अद्यतनेन सुकृतेन "शुभतां याति" ॥ २,६.५ ॥
तज्जयाय यतन्ते ये न लाभलवलम्पटाः ।
ते मूढाः प्राकृता दीनाः स्थिता दैवपरायणाः ॥ २,६.६ ॥
"तज्जयाय" कुवासनारूपप्राक्तनाशुभपौरुषजयाय । "लाभलवे" सांसारिकपदार्थाप्तिरूपे लाभलेशे । "लंपटाह्" लोभयुक्ताः । "प्राकृताः" नीचाः ॥ २,६.६ ॥
पौरुषेण कृतं कर्म दैवाद्यदभिनश्यति ।
तत्र नाशयितुर्ज्ञेयं पौरुषं बलवत्तरम् ॥ २,६.७ ॥
"नाशयितुः" नाशकस्य कालादेः ॥ २,६.७ ॥
यदेकवृन्तफलयोरप्येकं शून्यकोटरम् ।
तत्र प्रयत्नः स्फुरितस्तथा तद्रससंविदः ॥ २,६.८ ॥
एकस्मिन् वृन्ते स्थितौ फलौ "एकवृन्तफलौ" । तयोः "अपि" मध्यात्"एक"फलं "शून्यकोटरम्" साररहितमध्यं "यत्" भवति । अर्थात्द्वितीयं सारभरितमध्यं ज्ञेयम् । "तत्र" तस्मिन् स्थाने । "तद्रससंविदः" तयोः फलयोः या रसरूपा संवित् । तस्याः तद्रसस्येति यावत् । "तथा" तेन प्रकारेण । "यत्नः" पौरुषं "स्फुरितः" । रसेनेव तादृशं पौरुषं कृतं येनैकं फलं साररहितं संपन्नम् । न त्वन्यशङ्कितस्य दैवस्यात्र कापि शक्तिरस्तीति भावः ॥ २,६.८ ॥
यत्प्रयान्ति जगद्भावाः संसिद्धा अपि संक्षयम् ।
क्षयकारकयत्नस्य तत्र ज्ञेयं महद्बलम् ॥ २,६.९ ॥
"क्षयकारकस्य" नाशकर्तुः कालस्य । यः "यत्नः" पौरुषम् । तस्य ॥ २,६.९ ॥
भिक्षुको मङ्गलेभेन नृपो यत्क्रियते बलात् ।
तदमात्येभपौराणां प्रयत्नस्य महत्फलम् ॥ २,६.१० ॥
"मङ्गलेभेन" मङ्गलहस्तिना । "भिक्षुकः नृपः" राजा । "बलात्यत्क्रियते अमात्येभपौराणां" राज्यप्रदातॄणां मन्त्रिमङ्गलहस्तिनागराणाम् । "प्रयत्नस्य" तद्राज्यदानरूपस्य पौरुषस्य सह"फलं" भवति । न दैवस्य ॥ २,६.१० ॥
पौरुषेनान्नमाक्रम्य यथा दन्तैर्विचूर्ण्यते ।
अल्पं पौरुषमाक्रम्य तथा शूरेण चूर्ण्यते ॥ २,६.११ ॥
"यथा दन्तैः पौरुषेण अन्नमाक्रम्य" स्ववशीकृत्य । "चूर्ण्यते" । "तथा शूरेणा"द्यतनपौरुषयुक्तेन पुरुषेण । "अल्पं" प्राक्तनत्वेन जीर्णप्रायम् । "पौरुषमाक्रम्य चूर्ण्यते" ॥ २,६.११ ॥
अनुभूतं हि महतां लाघवं यत्नशालिनाम् ।
यथेष्टं विनियुज्यन्ते ते तैः कर्मसु लोष्टवत् ॥ २,६.१२ ॥
"हि" यस्मात् । अस्माभिः "यत्नशालिनां" पौरुषशालिनाम् । "महतां लाघवं" चातुर्यम् । "अनुभूतं" प्रत्यक्षं दृष्टम् । कथमनुभूतमित्य् । अत्राह । "यथेष्टम्" इति । यतः "तैः" यत्नशालिभिः । "ते" अर्थात्पौरुषरहिताः पुरुषाः । "यथेष्टं" स्वेच्छानुसारेण । "लोष्टवत्कर्मसु विनियुज्यन्ते" ॥ २,६.१२ ॥
शक्तस्य पौरुषं दृश्यमदृश्यं वापि यद्भवेत् ।
तद्दैवमित्यशक्तेन बुद्धमात्मन्यबुद्धिना ॥ २,६.१३ ॥
"शक्तस्य" महता पौरुषेण युक्तस्य । दृश्यस्य पुरुषादेरदृश्यस्य कालादेश्च । "दृश्यमदृश्यं वा यत्पौरुषं भवेत्" । "अबुद्धिना" सम्यग्ज्ञानरहितेन । "अशक्तेन" तदपेक्षया शक्तिरहितेन पुरुषेण । "तत्" शक्तस्य पौरुषम् । "आत्मनि" स्वस्मिन् विषये । "दैवं बुद्धम्" ज्ञातम् । अन्यथा दैवेन मे कृतमिति न ब्रूयात् ॥ २,६.१३ ॥
भूतानां बलवद्भूतयत्नो दैवमिति स्थितम् ।
तस्थुषामप्यधिष्ठातृवतामेतत्स्फुटं मिथः ॥ २,६.१४ ॥
"बलवद्भूतयत्नः" । "भूतानाम्" क्षुद्रभूतानामुपरि । "दैवमिति स्थितम्" भवति । पुरुषो हि यत्र न पर्याप्तो भवति तत्रैव दैवेन मे कृतमिति कथयति । न केवलमेतन्मयैव ज्ञातं किंत्वन्यैरपीत्याह । "तस्थुषाम्" इति । "अपि"शब्दः समुच्चये । "मिथः" अन्योऽन्यम् । "अधिष्ठातृवतां तस्थुषाम्" प्रेरकयुक्तानां स्थितानां पुरुषाणाम् "अपि" । "एतत्" मया उक्तः अर्थः । "स्फुटं" प्रकटो भवति । ते हि परस्परं क्षुद्रतरतमादिभेदेनाधिष्ठेयाः भवन्ति । उत्कृष्टतरतमादिभेदेन त्वधिष्ठातारः । अधिष्ठाता एव चाधिष्ठेयं प्रति दैवम् । अतः एतेषु मदुक्तोऽर्थः स्फुट एव भवति इति भावः ॥ २,६.१४ ॥
ननु भिक्षुकराज्यविषयेऽयं न्यायो नास्तीत्य् । अत्राह
शास्त्रमात्येभपौराणामविकल्प्या स्वभावधीः ।
सा या भिक्षुकराज्यस्य कर्त्री धर्त्री प्रजास्थितेः ॥ २,६.१५ ॥
"शास्ता" पुरोहितः । स च "अमात्यश्" च । "इभश्" च मङ्गलहस्ती च । "पौराश्" च । तेषाम् । "सा स्वभावधीः" स्वभावातुत्थिता भिक्षुराज्यदानरूपा बुद्धिः । "अविकल्प्या" नाशयितुमशक्याशक्ता इति यावत्भवति । "सा" का । "या भिक्षुकराज्यस्य कर्त्री" भवति । तद्द्वारेण "प्रजास्थितेः धर्त्री" च भवति । अतोऽत्राप्ययमेव न्याय इति भावः । इयं हि रीतिः । यत्र देशे राजा म्रियते । तस्य पुत्रश्च न स्यात् । तत्र मङ्गलहस्ती यं नमति । तमेव राजानं कुर्वन्तीति ॥ २,६.१५ ॥
ऐहिकः प्राक्तनं हन्ति प्राक्तनोऽद्यतनं बलात् ।
सर्वदा पुरुषस्पन्दस्तत्रानुद्वेगवाञ्जयी ॥ २,६.१६ ॥
"पुरुषस्पन्दः" पौरुषम् । "तत्र" द्वयोः पौरुषयोः मध्ये । "अनुद्वेगवान्" उद्वेगरहितः । लक्षणया अतिबल इत्यर्थः ॥ २,६.१६ ॥
ननु तत्र कः प्रायः बलवानस्तीत्य् । अत्राह
द्वयोरद्यतनस्यैव प्रत्यक्षाद्बलिता भवेत् ।
दैवं जेतुमतो यत्नैर्बालो यूनेव शक्यते ॥ २,६.१७ ॥
"प्रत्यक्षात्" प्रत्यक्षप्रमाणेन । दृश्यते हि अद्यतनः शुभाचारः ह्यस्तनमशुभं नाशयन् । फलितमाह । "दैवम्" इति । "अतः यत्नैः" अद्यतनैः पौरुषैः । "दैवं" प्राक्तनं पौरुषम् । "जेतुं शक्यते" । केनेव । "यूनेव" । यथा "यूना बालः जेतुं शक्यते" तथेत्यर्थः ॥ २,६.१७ ॥
मेघेन नीयते यद्वा वत्सरोपार्जिता कृषिः ।
मेघस्य पुरुषार्थोऽसौ जयत्यधिकयत्नवान् ॥ २,६.१८ ॥
अत्रापि न दैवस्य काचिच्छक्तिरस्तीति भावः ॥ २,६.१८ ॥
क्रमेणोपार्जितेऽप्यर्थे नष्टे कार्या न खेदिता ।
न बलं यत्र मे शक्तं तत्र का परिदेवना ॥ २,६.१९ ॥
"बलम्" पौरुषम् । न हि जनः अशक्यः राज्यादिवस्तुप्राप्त्यर्थं प्रत्यहं "परिदेवना"युक्तो भवतीति भावः ॥ २,६.१९ ॥
यन्न शक्नोमि तस्यार्थे यदि दुःखं करोम्यहम् ।
तदमानितमृत्योर्मे युक्तं प्रत्यहरोदनम् ॥ २,६.२० ॥
"अमानितमृत्योः" तावद्मृत्युपातमपि अनङ्गीकुर्वतः ॥ २,६.२० ॥
देशकालक्रियाद्रव्यवशतो विस्फुरन्त्यमी ।
सर्व एव जगद्भावा जयत्यधिकयत्नवान् ॥ २,६.२१ ॥
"भावाः" मृत्य्वादिरूपाः पदार्थाः ॥ २,६.२१ ॥
फलितं कथयति
तस्मात्पौरुषमाश्रित्य सच्छास्त्रैः सत्समागमैः ।
प्रज्ञाममलतां नीत्वा संसाराम्बुनिधिं तर ॥ २,६.२२ ॥
"अमलताम्" रागादिमलराहित्यम् ॥ २,६.२२ ॥
प्राक्तनश्चैहिकश्चासौ पुरुषार्थौ फलद्रुमौ ।
ऐहिकः पुरुषार्थश्च जगत्यभ्यधिकस्तयोः ॥ २,६.२३ ॥
फलोत्पादकौ द्रुमौ "फलद्रुमौ" ॥ २,६.२३ ॥
कर्म यः प्राक्तनं तुच्छं न निहन्ति शुभेहितैः ।
अज्ञो जन्तुरनीशोऽसौ वाङ्मनःसुखदुःखयोः ॥ २,६.२४ ॥
"कर्म" पौरुषम् । "अनीशः" असमर्थः । "वाङ्मनःसुखदुःखौ" अप्य्"असौ" नाशयितुं न शक्नोति । शरीरदुःखनाशे तु का कथेति भावः ॥ २,६.२४ ॥
यस्तूदारचमत्कारः सदाचारविहारवान् ।
स निर्याति जगन्मोहान्मृगेन्द्रः पञ्जरादिव ॥ २,६.२५ ॥
"सदाचारेण" साध्वाचारेण । "विहारः" विद्यते यस्य । तादृशः । "स" इति । "स" एव शुभपौरुषभाजनमिति भावः ॥ २,६.२५ ॥
कश्चिन्मां प्रेरयत्येवमित्यनर्थकुकल्पने ।
यः स्थितो दृष्टमुत्सृज्य त्याज्योऽसौ दूरतोऽधमः ॥ २,६.२६ ॥
"दृष्टम्" प्रत्यक्षदृष्टफलं पौरुषम् ॥ २,६.२६ ॥
व्यवहारसहस्राणि यान्युपायान्ति यान्ति च ।
यथाशास्त्रं विहर्तव्यं तेषु त्यक्त्वा सुखासुखे ॥ २,६.२७ ॥
"यथाशास्त्रम्" स्वशास्त्रानतिक्रमेण । "विहर्तव्यं" विहारः कार्यः ॥ २,६.२७ ॥
यथाशास्त्रमनुच्छिन्नां मर्यादां स्वामनुज्झतः ।
उपतिष्ठन्ति सर्वाणि रत्नान्यम्बुनिधेरिव ॥ २,६.२८ ॥
"स्वाम्" स्वजात्यनुसारिणीम् । "उपतिष्ठन्ति" समीपमागच्छन्ति । "सर्वाणि" सकलानि श्रेयांसि ॥ २,६.२८ ॥
स्वार्थप्रापककार्यैकप्रयत्नपरता बुधैः ।
प्रोक्ता पौरुषशब्देन सा सिद्ध्यै शास्त्रयन्त्रिता ॥ २,६.२९ ॥
"स्वार्थप्रापके" स्वप्रयोजनसाधके "कार्ये" । "एकम्" अत्यन्तम् । "प्रयत्नपरता" "शास्त्रयन्त्रिता" शास्त्रबुद्धा ॥ २,६.२९ ॥
क्रियायाः स्पन्दधर्मिण्याः स्वार्थसाधकता स्वयम् ।
साधुसङ्गमशास्त्रार्थतीक्ष्णयाभ्यूह्यते धिया ॥ २,६.३० ॥
"स्पन्दधर्मिण्याः" स्पन्दस्वरूपायाः "क्रियायाः" । "स्वार्थसाधकता स्वयम्" अन्यनिरपेक्षं भवति । "साधुसङ्गमशास्त्रार्थतीक्ष्णया धिया" सम्बन्धिनी "स्वार्थसाधकता" "अभ्यूह्यते" विवेच्यते । का "स्वार्थसाधकता" । शुभा । का शुभेति व्यवस्थाप्यते इत्यर्थः ॥ २,६.३० ॥
अनन्तं समतानन्दं परमार्थं विदुर्बुधाः ।
स येभ्यः प्राप्यतेऽनन्तं ते सेव्याः शास्त्रसाधवः ॥ २,६.३१ ॥
सर्वत्र समदर्शित्वं "समता" । तद्रूपः "आनन्दः" "समतानन्दः" । "परमार्थम्" परमोपादेयम् । "सः" समतानन्दः । पौरुषमाश्रित्योपास्यः ॥ २,६.३१ ॥
प्राक्तनं पौरुषं तच्चेद्दैवशब्देन कथ्यते ।
तद्युक्तमेतदेतस्मिन्नास्ति नापवदामहे ॥ २,६.३२ ॥
"तत्" प्रसिद्धम् । "प्राक्तनं पौरुषं दैवशब्देन चेत्" यदि । "कथ्यते" । "युष्माभिर्" इति शेषः । "तत्" कथनम् । "युक्तं" भवति । यत "एतत्" समतानन्दप्राप्त्युपायत्वम् । "एतस्मिन्नास्ति" । अतः वयं "नापवदामहे" तदपवादं न कुर्मः । उपेक्षाविषयत्वादिति भावः ॥ २,६.३२ ॥
मूढैः प्रकल्पितं दैवमन्यद्यैस्ते क्षयं गताः ।
नित्यं स्वपौरुषादेव लोकद्वयहितं भवेत् ॥ २,६.३३ ॥
"अन्यत्" प्राक्तनपौरुषात् । "क्षयम्" अनुद्योगकृतं नाशम् ॥ २,६.३३ ॥
ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा ।
अद्यैवं प्राक्तनी तस्माद्यत्नात्सत्कार्यवान् भव ॥ २,६.३४ ॥
"अद्यतनये"ति शेषः । "यथा" अद्यतनया "सत्क्रियया ह्यस्तनी दुष्क्रिया शोभामभ्येति" । "एवम्" तथा । "प्राक्तनी" प्राग्जन्मभवा वासनारूपा "दुष्क्रिया" । "अद्य" अद्यतनया सच्छास्त्रसेवनादिरूपया "सत्क्रियया" । "शोभाम्" शुद्धत्वम् "अभ्येति" । अतः त्वम् "सत्कार्यवान् भव" ॥ २,६.३४ ॥
करामलकवद्दृष्टं पौरुषादेव यत्फलम् ।
मूढः प्रत्यक्षमुत्सृज्य दैवमोहे निमज्जति ॥ २,६.३५ ॥
"मूढः" दैवात्फलवादी अज्ञानी । "प्रत्यक्षम्" प्रत्यक्षप्रमाणसिद्धं पौरुषम् "उत्सृज्य" । "दैवमोहे" दैवरूपे भ्रमे "मज्जति" । कुतः तत् । तत्कुतः "यत्" यतः । अस्माभिः "फलं करामलकवत्पौरुषादेव दृष्टम्" प्रत्यक्षमनुभूतम् ॥ २,६.३५ ॥
सकलकारणकार्यविवर्जितं
निजविकल्पबलादुपकल्पितम् ।
तदनपेक्ष्य हि दैवमसन्मयं
श्रय शुभाशय पौरुषमात्मनः ॥ २,६.३६ ॥
"सकलानि" यानि "कार्यकारणानि" । तैः "वर्जितम्" । अत्यन्तासत्स्वरूपमित्यर्थः । अत एव "निजविकल्पबलातुपकल्पितम्" संपादितम् । "ततसन्मयं दैवमनपेक्ष्य" । हे "शुभाशय" । त्वम् "आत्मनः पौरुषमाश्रय" । दैववशो मा भवेति भावः ॥ २,६.३६ ॥
शास्त्रैः सदाचरितजृंभितदेशधर्मैर्
यत्कल्पितं फलमतीव चिरप्ररूढम् ।
तस्मिन् हृदि स्फुरति नोऽपरमेति चित्तम्
अङ्गावली तदनु पौरुषमेतदाहुः ॥ २,६.३७ ॥
"शास्त्रैः" सच्छास्त्रैः । "सतां" साधूनाम् । यत्"आचरितं" आचारः । तेन प्रवृत्तः । अविच्छिन्नप्रवाहेणागताः ये "देशधर्माः" । तैः च्"आतीव चिरप्ररूढं" अत्यन्तबहुकालात्प्रभृति प्रसिद्धम् । "यत्फलं कल्पितम्" साध्यत्वेन निश्चितं भवति । "तस्मिन्" फले । "हृदि स्फुरति" संपादनीयतया विलसति सति । "चित्तम्" "अपरम्" प्रोक्तफलेतरं वस्तु यत् । "नो एति" न गच्छति । "तदनु" चित्तानन्तरम् । "अङ्गावली" हस्ताद्यवयवपङ्क्तिर् । अपि "अपरं" यत् । "नो एति" । अपि तु तत्साधनैकपरं भवति । पण्डिताः "एतत्पौरुषमाहुः" कथयन्ति । न तु यथा तथा हस्तादिचालनमिति भावः ॥ २,६.३७ ॥
बुद्ध्वैव पौरुषफलं पुरुषत्वमेतद्
आत्मप्रयत्नपरतैव सदैव कार्या ।
नेया ततः सफलतां परमामथासौ
सच्छास्त्रसाधुजनपण्डितसेवनेन ॥ २,६.३८ ॥
पुरुषेण "एतत्" स्वेनानुभूयमानम् । "पुरुषत्वम्" पुरुषभावम् । "पौरुषफलं" । "पौरुषं" पूर्वश्लोकोक्तस्वरूपपौरुषम् । "फलं" यस्य । तादृक् । "बुद्ध्वा" एव । "आत्मप्रयत्नपरता" पौरुषनिर्वृत्तत्वम् । "सदा एव कार्या" । "ततः" करणानन्तरम् । पुरुषेण्"आसौ" आत्मप्रयत्नपरता । "सच्छास्त्रसाधुजनपण्डितसेवनेन" "परमाम्" उत्कृष्टाम् । "सफलताम्" मोक्षाख्यफलयुक्तताम् "नेया" । "अथ"शब्दः पादपूरणार्थः ॥ २,६.३८ ॥
दैवपौरुषविचारचारुभिश्चेतसा चरितमात्मपौरुषम् ।
नित्यमेव जयतीति भावितैः कार्य आर्यजनसेवनोद्यमः ॥ २,६.३९ ॥
पुरुषैः "आर्यजनसेवनोद्यमः कार्यः" । कथंभूतैः । "दैवपौरुषयोः" यः "विचारः" स्वरूपविवेचनम् । तेन "चारुभिः " । पुनः कथंभूतैः । मनसा "इति" एवम् । "भावितैः" निश्चितैः इति । किम् "इति" । "चरितम्" अनुष्ठितम् । "आत्मपौरुषं नित्यम्" सदा "जयति" । सर्वफलजनकत्वात्सर्वोत्कर्षेण वर्तत इति ॥ २,६.३९ ॥
सर्गान्तश्लोकेनाप्येतदेव कथयति
जन्मप्रबन्धमयमामयमेष जीवो
बुद्ध्वैहिकं सहजपौरुषमेव सिद्ध्यै ।
शान्तिं नयत्ववितथेन वरौषधेन
पृष्टेन तुष्टिपरपण्डितसेवनेन ॥ २,६.४० ॥
"जीवः" पुरुषः । "ऐहिकं" इह लोके शक्यत्वेन स्थितं "पौरुषं" । "सिद्ध्यै" सिद्ध्यर्थं "बुद्ध्वा" । ततः तदाश्रयणेनानुष्ठितेन "तुष्टिपरपण्डितसेवनेन" हेतुना । "पृष्टेन" तस्मादेव पण्डितात्"पृष्टेन" । "अवितथेन" सफलेन । "वरौषधेन" सम्यग्ज्ञानाख्यवरौषधेन । "जन्मप्रबन्धमयम्" जन्मसन्तानरूपम् । "आमयम्" रोगम् । "शान्तिं नयतु" । इति शिवम् ॥ २,६.४० ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुव्यवहारप्रकरणे षष्ठः सर्गः ॥ २,६ ॥