मोक्षोपायटीका/मुमुक्षुप्रकरणम्/सर्गः १८

← सर्गः १७ मोक्षोपायटीका/मुमुक्षुप्रकरणम्
भास्करकण्ठः
सर्गः १९ →
मोक्षोपायटीका/मुमुक्षुप्रकरणम्



ओं श्रोतृप्रवृत्त्यर्थं स्वेन क्रियमाणस्य ग्रन्थस्यान्यविलक्षणत्वेन सम्यग्ज्ञानं प्रति परोपायत्वं कथयति

अस्यां वाचितमात्रायां परो बोधः प्रवर्तते ।

बीजादिव यतो व्युप्तादवश्यंभावि सत्फलम् ॥ २,१८.१ ॥

"अस्यां" मोक्षोपायाभिधायां संहितायाम् । "बोधः" कः । "यतः" यस्मात्बोधात् । "सत्फलं" मोक्षाख्यं शुभं फलम् । "अवश्यंभावि" भवति । कस्मादिव । "व्युप्ताद्बीजादिव" ॥ २,१८.१ ॥

 

 

ननु महामुनिप्रणीतानि शास्त्रान्तराणि त्यक्त्वा किमिति इदमेव शास्त्रं गृह्णामीत्य् । अत्राह

अपि पौरुषमादेयं शास्त्रं चेद्युक्तिबोधकम् ।

अन्यत्त्वार्षमपि त्याज्यं भाव्यं न्यायैकसेविना ॥ २,१८.२ ॥

"पौरुषम्" पुरुषनिर्मितम् । "आदेयं" ग्रहीतव्यम् । "युक्तिबोधकम्" सत्तर्कबोधकम् । "अन्यत्" युक्त्यबोधकम् । "आर्षम्" ऋषिनिर्मितम् । अत्र च प्रतिभान्वितैः कश्चिदभिप्रायो बोद्धव्यः योऽस्माभिः आरम्भ एव प्रतिभावतां स्वयं ज्ञेयत्वेन तद्रहितानामकथनीयत्वेन चोक्तः ॥ २,१८.२ ॥

 

 

 

युक्तियुक्तमुपादेयं वचनं बालकादपि ।

अन्यत्तृणमिव त्याज्यमप्युक्तं पद्मजन्मना ॥ २,१८.३ ॥

अत्रापि प्रतिभावद्भिः आरम्भे स्वयं ज्ञेयत्वेनोक्तोऽर्थः स्वयं बोद्धव्यः । न च तद्बोधेनास्मिञ्शास्त्रे अनादरः कार्यः प्रतिभावत्त्वहानेः । एवमुत्तरत्रापि यत्र तत्र स्वयमभ्यूह्यम् ॥ २,१८.३ ॥

 

 

पुनरप्येतदेव भङ्ग्यन्तरेण कथयति

योऽम्भस्तातस्य कूपोऽयमिति कौपं पिबेत्कटु ।

त्यक्त्वा गाङ्गं पुरःस्थं तं कोऽनुशासति रागिणम् ॥ २,१८.४ ॥

"यः" पुरुषः । "पुरःस्थं गाङ्गं" तोयं "त्यक्त्वा" । "अयं कूपः तातस्य" निजस्य पितुः भवति । "इति" एतदर्थम् । "कौपं" कूपसम्बन्धि । "कटु अम्भः पिबेत्" । "तम्" अनु"रागिणं" पितृविषयरागाख्यदोषयुक्तम् । "कः अनुशासति" उपदिशति । नासावुपदेशार्हः इति भावः । अयमत्राभिप्रायः । "यः" पुरुषः । सद्युक्तियुक्तम् "अपि पौरुषं" वचनम् । "पौरुषेयमिदम्" इति त्यजति । तद्रहितमपि "आर्षं" वचनम् । "आर्षम्" इत्येतावन्मात्रेण गृह्णाति । तस्योपदेशो न कार्यः इति ॥ २,१८.४ ॥

 

 

 

प्रकृतमेवानुसरति

यथोषसि प्रवृत्तायामालोकोऽवश्यमेष्यति ।

अस्यां वाचितमात्रायां स्वविवेकस्तथैष्यति ॥ २,१८.५ ॥

"उषसी"त्यार्षं स्त्रीत्वम् । "स्वविवेकः" आत्मविवेकः ॥ २,१८.५ ॥

 

 

श्रुतायां प्राज्ञवदनाद्बुद्धायां स्वयमेव वा ।

शनैः शनैर्विचारेण बुद्धौ संस्कार आगते ॥ २,१८.६ ॥

पूर्वं तावदुदेत्यन्तर्भृशं संस्कृतवाक्यता ।

शुद्धा मुक्ता लतेवोच्चैर्या सभास्थानभूषणम् ॥ २,१८.७ ॥

स्पष्टम् ॥ २,१८.६७ ॥

 

 

ननु विरक्तस्य मम किं संस्कृतवाक्यतया प्रयोजनमित्य् । अत्राह

परा विरागतोदेति महत्त्वगुणशालिनी ।

सा यया स्नेहमायान्ति राजानोऽजगरा अपि ॥ २,१८.८ ॥

विरक्तेषु हि "अजगर"तुल्याः "राजानोऽपि स्नेहमायान्ति" ॥ २,१८.८ ॥

 

 

पूर्वापरज्ञः सर्वत्र नरो भवति बुद्धिमान् ।

पदार्थानां यथा दीपहस्तो निशि सुलोचनः ॥ २,१८.९ ॥

"सर्वत्र" सर्वेषु व्यवहारेषु ॥ २,१८.९ ॥

 

 

लोभमोहादयो दोषास्तानवं यान्त्यलं शनैः ।

धियो दिशः समासन्नशरदो मिहिका यथा ॥ २,१८.१० ॥

"लोभमोहादयः" काः । "यथा मिहिकाः" "समासन्नशरदः" प्रत्यासन्नशरत्कालायाः "दिशः तानवं यान्ति" । तथेत्यर्थः ॥ २,१८.१० ॥

 

 

 

केवलं समपेक्षन्ते विवेकाभ्यसनं धियः ।

न काचन फलं धत्ते स्वभ्यासेन विना क्रिया ॥ २,१८.११ ॥

ननु किमर्थं "विवेकाभ्यासमपेक्षन्ते" इत्य् । अत्राह । "न काचने"ति ॥ २,१८.११ ॥

 

 

मनः प्रसादमायाति शरदीव महत्सरः ।

परं साम्यमुपाधत्ते निर्मन्दर इवार्णवः ॥ २,१८.१२ ॥

"प्रसादं" रागादिमलरहितत्वात्नैर्मल्यम् । "परम्" निरतिशयम् । "साम्यं" समताख्यं गुणम् । "उपाधत्ते" धारयति । अत्रापि मनस एव कर्तृत्वम् ॥ २,१८.१२ ॥

 

 

निरस्तकालिमा वज्रशिखेवास्ततमःपटा ।

परिज्वलत्यलं प्रज्ञा पदार्थप्रविभागिनी ॥ २,१८.१३ ॥

"निरस्तः" दूरे गतः । "कालिमा" कालुषम् । यस्याः सा ॥ २,१८.१३ ॥

 

 

दैन्यदारिद्र्यदोषाद्या दृष्टयो दर्शितान्तराः ।

न निकृन्तन्ति मर्माणि ससंनाहमिवेषवः ॥ २,१८.१४ ॥

"दर्शितं" विवेचितम् । अन्तरं साराख्यः "आन्तरः" भागः यासां ताः । निःसारत्वेन ज्ञाता इत्यर्थः ॥ २,१८.१४ ॥

 

 

हृदयं नावलुम्पन्ति भीमाः संसृतिभीतयः ।

पुरःस्थितमपि प्राज्ञं महोपलमिवाखवः ॥ २,१८.१५ ॥

"हृदयं" कथंभूतम् "अपि" । "पुरःस्थितमपि" अग्रे स्थितमपि । पुनः कथंभूतम् । "प्राज्ञम्" ॥ २,१८.१५ ॥

 

 

कथं स्यादादिता जन्मकर्मणोर्दैवपुंस्त्वयोः ।

इत्यादिसंशयगणः शाम्यत्यह्नि यथा तमः ॥ २,१८.१६ ॥

"दैवपुंस्त्वयोः" दैवपौरुषयोः । "आदिता" कारणत्वम् ॥ २,१८.१६ ॥

 

 

सर्वथा सर्वभावेषु संगतिरुपशाम्यति ।

यामिन्यामिव यातायां प्रज्ञालोक उपागते ॥ २,१८.१७ ॥

"सर्वभावेषु" त्यागादानार्हेषु समस्तेषु पदार्थेषु । "सर्वथा संगतिः" त्यागादानारूपा सम्बन्धः "उपशाम्यति" । कस्मिन् सति । "प्र"ति"ज्ञालोक उपागते" सति । कदेव । "यामिन्यां" रात्रौ "यातायामिव" सत्याम् । उपेक्षा एव सर्वत्रायातीति भावः ॥ २,१८.१७ ॥

 

 

समुद्रस्येव गाम्भीर्यं स्थैर्यं मेरोरिव स्थितम् ।

अन्तःशीतलता चेन्दोरिवोदेति विचारिणः ॥ २,१८.१८ ॥

स्पष्टम् ॥ २,१८.१८ ॥

 

 

सा जीवन्मुक्तता तस्य शनैः परिणतिं गता ।

शान्ताशेषविकल्पस्य भवत्याविश्य योगिनः  ॥ २,१८.१९ ॥

"सा" प्रसिद्धा । "आविश्य" आवेशं कृत्वा ॥ २,१८.१९ ॥

 

 

 

सर्वार्थशीतला शुद्धा परमालोकदा सुधीः ।

परं प्रकाशमायाति ज्योत्स्नेव सकलैन्दवी ॥ २,१८.२० ॥

"सर्वार्थेषु" भावाभावयुक्तेषु समस्तेषु पद्"आर्थेषु" । "शीतला" हर्षामर्षाख्यतापरहिता । "शुद्धा" रागादिरहिता । "परमालोकं" चिन्मात्रालोकं "दधाती"ति तादृशी । शोभना चासौ धीः "सुधीः" । "ऐन्दवी" इन्दुसम्बन्धिनी ॥ २,१८.२० ॥

 

 

हृद्याकाशे विवेकार्के शमालोकिनि निर्मले ।

अनर्थसार्थकर्तारो नोद्यन्ति कलिकेतवः ॥ २,१८.२१ ॥

 

 

"शम" एव "आलोकः" अस्यास्तीति तादृशे । "कलेः" कलहस्य क्षोभस्य । "केतवः" चिह्नभूताः रागादयो दोषाः । सूर्योदये च "केतवः" धूमकेतवः "नोद्यन्ति" ॥ २,१८.२१ ॥

 

 

शाम्यन्ति शुद्धिमायान्ति सौम्यास्तिष्ठन्ति सून्नते ।

अचञ्चलजडास्तृष्णाः शरदीवाभ्रमालिकाः ॥ २,१८.२२ ॥

न चञ्चलजडाः "अचञ्चलजडाः" ॥ २,१८.२२ ॥

 

 

यत्किंचनकरी क्रूरा ग्राम्यता विनिवर्तते ।

दीनानना पिशाचानां लीलेव दिवसागमे ॥ २,१८.२३ ॥

"यत्किंचनकरी" अयुक्तकारिणी । "ग्राम्यतया" हि पुरुषः यत्किंचिदेव करोति ॥ २,१८.२३ ॥

 

 

 

धर्मभित्तौ भृशं लग्नां धियं धैर्यधुरं गताम् ।

आधयो न विलुम्पन्ति वाताश्चित्रलतामिव ॥ २,१८.२४ ॥

"धर्म" एव "भित्तिः" । तस्यां "लग्नां" । अत एव "धैर्यधुरं गताम्" धैर्ययुक्तामिति यावत् । धर्मयुक्तो हि धीरो भवति । चित्ररूपा लता "चित्रलता" । ताम् ॥ २,१८.२४ ॥

 

 

 

न पतत्यवटे जन्तुर्विषयासङ्गरूपिणि ।

कः किल ज्ञातसरणिः श्वभ्रे समनुधावति ॥ २,१८.२५ ॥

"विषयासङ्गरूपिणि" भोगासक्तिरूपे । एतदेव उत्तरार्धेन समर्थयति । "कः किले"ति ॥ २,१८.२५ ॥

 

 

 

सच्छास्त्रसाधुवृत्तानामविरोधिनि कर्मणि ।

रमते धीर्यथाप्राप्ते साध्वीवान्तःपुराजिरे ॥ २,१८.२६ ॥

"सच्छास्त्रेण" मोक्षोपायाख्यसच्छास्त्रावगाहनेन "साधुवृत्तं" चरितं येषां ते । तादृशानाम् । "यथाप्राप्ते" प्रवाहागते । न तु यत्नादृते ॥ २,१८.२६ ॥

 

 

जगतां कोटिलक्ष्येषु यावन्तः परमाणवः ।

तेषामेकैकशोऽन्तःस्थान् सर्गान् पश्यत्यसर्गधीः ॥ २,१८.२७ ॥

"असर्गा धीः" यस्य सः । आश्चर्यं चासर्गधियः परमाणौ परमाणौ सर्गदर्शनम् । सर्गबीजभूतचिन्मात्रव्याप्तिज्ञानेन परमाणौ परमाणौ सर्गदर्शनं ज्ञेयम् ॥ २,१८.२७ ॥

 

 

मोक्षोपायावबोधेन शुद्धान्तःकरणं जनम् ।

न खेदयति भोगौघो न चानन्दयति क्वचित् ॥ २,१८.२८ ॥

भोगेषूपेक्षामेवासौ भजते इति भावः ॥ २,१८.२८ ॥

 

 

परमाणौ परमाणौ सर्गवर्गा निरर्गलम् ।

ये पतन्त्युत्पतन्त्यम्बुवीचिवत्तान् स पश्यति ॥ २,१८.२९ ॥

"पतन्ति" लीना भवन्ति । "उत्पतन्ति" प्रादुर्भवन्ति ॥ २,१८.२९ ॥

 

न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ।

कार्याण्येष प्रबुद्धोऽपि निष्प्रबुद्ध इव द्रुमः ॥ २,१८.३० ॥

अबुद्धत्वमस्य स्वात्मनि "निष्प्रबुद्धत्वं" संसारे ज्ञेयम् ॥ २,१८.३० ॥

 

 

ननु कीदृगतिशयोऽस्य स्यादित्य् । अत्राह

दृश्यते लोकसामान्यो यथाप्राप्तानुवृत्तिमान् ।

इष्टानिष्टफलप्राप्तौ हृदये न पराजितः ॥ २,१८.३१ ॥

"लोकसामान्यः" न त्वतिशयवान् । "यथाप्राप्ते" प्रवाहागते । "अनुवृत्तिः" अनुवर्तनम् । विद्यते यस्य । सः "यथाप्राप्तानुवृत्तिमान्" । "हृदये" मनसि । "न पराजितः" हर्षामर्षावशीभूतः ॥ २,१८.३१ ॥

 

 

 

बुद्ध्वेदमखिलं शास्त्रं वाचयित्वा विवेच्य वा ।

अनुभूयत एवैतन्न तूक्तं वरशापवत् ॥ २,१८.३२ ॥

युष्माभिः "एतत्" पूर्वोक्तं फलं "अनुभूयत एव" । ननु प्रत्यवायशङ्कया कथमेतदनुभवे शक्ता भवाम इत्यपेक्षायामाह । "न तूक्तम्" इति । "मन्त्रादिवद्" इति शेषः ॥ २,१८.३२ ॥

 

 

ननु दुर्बोधेऽस्मिन् कथं प्रवृत्तिं कुर्म इत्य् । अत्राह

शास्त्रं सुबोधमेवेदं नानालंकारभूषितम् ।

काव्यं रसघनं चारु दृष्टान्तैः प्रतिपादकम् ॥ २,१८.३३ ॥

"दृष्टान्तैः प्रतिपादकम्" इति सुबोधत्वे विशेषणद्वारेण हेतुः ॥ २,१८.३३ ॥

 

 

बुध्यते स्वयमेवेदं किंचित्पदपदार्थवित् ।

स्वयं यस्तु न वेत्तीदं श्रोतव्यं तेन पण्डितात् ॥ २,१८.३४ ॥

"बुध्यते" जानाति । ननु यस्य पदपदार्थवित्त्वं नास्ति तस्य किं कार्यमित्य् । अत्राह "स्वयम्" इति ॥ २,१८.३४ ॥

 

 

 

नन्वेतच्छ्रवणेन किं सेत्स्यतीत्य् । अत्राह

अस्मिञ्श्रुते मते ज्ञाते तपोध्यानजपादिकम् ।

मोक्षप्राप्तौ तु तस्येह न किंचिदुपयुज्यते ॥ २,१८.३५ ॥

"श्रुते" श्रवणविषयतां नीते । "मते" मननविषयतां नीते । "ज्ञाते" निदध्यासिते । "तस्य" श्रवणादौ प्रवृत्तस्य ॥ २,१८.३५ ॥

 

 

एतच्छास्त्रघनाभ्यासात्पौनःपुन्येन वीक्षितात् ।

जन्तोः पाण्डित्यपूर्वं हि चित्तसंस्कारपूर्वकम् ॥ २,१८.३६ ॥

अहं जगदिति प्रौढो द्रष्टृदृश्यपिशाचकः  ।

पिशाचोऽर्कोदयेनेव स्वयं शाम्यत्यविघ्नतः ॥ २,१८.३७ ॥

एतेन बाह्यमपि प्रयोजनमान्तरमपि च सेत्स्यतीति कथितम् ॥ २,१८.३६३७ ॥

 

 

 

भ्रमो जगदहं चेति स्थित एवोपशाम्यति ।

स्वप्नमोहः परिज्ञात इव नो रमयत्यलम् ॥ २,१८.३८ ॥

"स्थित एव" । न तु मन्त्रादिप्रयोगवशेनान्तर्भूतिं गतः । ननु स्थितस्योपशमनं कथमित्य् । अत्राह । "स्वप्नमोह" इति । अरसकस्य स्थितस्यापि शान्तिरेव ज्ञेया क्षोभकारित्वाभावातिति भावः ॥ २,१८.३८ ॥

 

 

यथा संकल्पनगरे पुंसो हर्षविषादिता ।

न बाधते तथैवान्तः परिज्ञाते जगद्भ्रमे ॥ २,१८.३९ ॥

"अन्तः" मनसि । "परिज्ञाते" सम्यक्निश्चिते । "हर्षविषादिता न बाधते" इति "तथा"शब्देनानुकृष्यते ॥ २,१८.३९ ॥

 

 

चित्रसर्पः परिज्ञातो न सर्पभयदो यथा ।

दृश्यसर्पः परिज्ञातस्तथा न सुखदुःखदः ॥ २,१८.४० ॥

"परिज्ञातः चित्रसर्पो"ऽयमिति सम्यङ्निश्चितः । दृश्याख्यः सर्पः "दृश्यसर्पः" ॥ २,१८.४० ॥

 

 

परिज्ञानेन सर्पत्वं चित्रसर्पस्य नश्यति ।

यथा तथैव संसारः स्थित एवोपशाम्यति ॥ २,१८.४१ ॥

स्पष्टम् ॥ २,१८.४१ ॥

 

 

ननु परमार्थप्राप्तिरस्माकमतिदुष्करैव । तथा च तत्प्राप्त्यर्थमेतच्छास्त्रावगाहनमयुक्तमेवेत्य् । अत्राह

सुमनःपल्लवामर्शे किंचिद्व्यतिकरो भवेत् ।

परमार्थपदप्राप्तौ न तु व्यतिकरोऽस्ति नः ॥ २,१८.४२ ॥

"सुमनःपल्लवामर्शे" पुष्पपल्लवामर्दे । "व्यतिकरः" यत्नः । "नः" युक्तिज्ञानामस्माकम् । न त्वयुक्तिज्ञानां भवतामित्यर्थः ॥ २,१८.४२ ॥

 

 

 

व्यतिकराभावमेव कथयति

गच्छत्यवयवस्पन्दः सुमनःपत्रमर्दने ।

इह धीमात्रबोधस्तु नाङ्गावयवबोधनम् ॥ २,१८.४३ ॥

"गच्छति" उपयुक्तो भवति । अनेकार्थत्वाद्धातूनां "गच्छतिर्" अत्रास्मिन्नर्थे वर्तते । "अङ्गावयवानां" शरीरावयवानाम् । "बोधनम्" चालनम् ॥ २,१८.४३ ॥

 

 

सुखासनोपविष्टेन यथासम्भवमश्नता ।

भोगजालं सदाचारविरुद्धेषु न तिष्ठता ॥ २,१८.४४ ॥

यथाक्षणं यथादेशं प्रविचारयता सुखम् ।

यथासम्भवसत्सङ्गमिदं शास्त्रमथेतरत् ॥ २,१८.४५ ॥

आसाद्यते महाज्ञानबोधः संसारशान्तिदः ।

स भूयो येन नायाति योनियन्त्रप्रपीडनम् ॥ २,१८.४६ ॥

"यथासम्भवम्" न तु प्रयत्नसाधितम् । "सदाचारविरुद्धेषु" तिष्ठतो हि हानोपादानकारित्वरूपो दोषः आयातीति "न तिष्ठते"त्युक्तम् । "यथाक्षणम्" प्रतिक्षणम् । "सुखम्" सुखदायि । "यथासम्भवः सत्सङ्गो" यत्र तत् । "इदं शास्त्रं" मया वक्ष्यमाणमोक्षोपायाख्यं शास्त्रम् । "इतरत्" एतत्सदृशमन्यच्छास्त्रं वा । महाज्ञानरूपः बोधः "महाज्ञानबोधः" । "स" इत्यस्य पूर्वार्धेन सम्बन्धः ॥ २,१८.४४४६ ॥

 

 

 

एतावत्येव ये भूता भोगान् प्राप्य रसे स्थिताः ।

स्वमातृविष्ठाक्रिमयः कीर्तनीया न तेऽधमाः ॥ २,१८.४७ ॥

"एतावति रसे" परिमिते रसे । "भूताः" सामान्यजन्तवः ॥ २,१८.४७ ॥

 

 

एवं शास्त्रमाहात्म्यमुक्त्वा श्रीरामं संमुखीकरोति

शृणु तावदिदानीं त्वं कथ्यमानमिदं मया ।

राघव ज्ञानविस्तारं बुद्धिसारतरान्तरम् ॥ २,१८.४८ ॥

"बुद्धेः सारतरमन्तरम्" यस्य तत् । बुद्ध्यतिशायीत्यर्थः ॥ २,१८.४८ ॥

 

 

 

मध्ये श्रीरामकृतांश्चोद्यानाशङ्क्याह

ययेदं श्रूयते शास्त्रं तां तु विस्तरतः शृणु ।

विचार्यते तथार्थोऽयं यया च परिभाषया ॥ २,१८.४९ ॥

"यया परिभाषया" युक्त्या । "इदं शास्त्रं श्रूयते" । त्वं "तां विस्तरतः शृणु" । "तथा" "यया च विचार्यते" । तां च शृण्विति पूर्वेण सम्बन्धः ॥ २,१८.४९ ॥

 

 

परिभाषामेव कथयति

येनेहाननुभूतेऽर्थे दृष्टेनार्थावबोधनम्  ।

बोधोपकारफलदं तं दृष्टान्तं विदुर्बुधाः ॥ २,१८.५० ॥

"येन दृष्टेना"र्थेन । "अननुभूते अर्थे अर्थावबोधनम्" ज्ञानं भवति । "बुधाः तं दृष्टान्तमाहुः" । कथंभूतम् । "बोधा"ख्यः य "उपकारः" । तदेव "फलं" । तद्"दधाती"ति तादृशम् ॥ २,१८.५० ॥

 

 

 

दृष्टान्तदाने किं फलमित्य् । अत्राह

दृष्टान्तेन विना राम नापूर्वोऽर्थोऽवबुध्यते ।

यथा दीपं विना रात्रौ भाण्डोपकरणं गृहे ॥ २,१८.५१ ॥

"भाण्डोपकरणं" भाण्डसामग्री ॥ २,१८.५१ ॥

 

 

यैर्यैः काकुत्स्थ दृष्टान्तैस्त्वं मयेहावबुध्यसे ।

सर्वे सकारणास्ते हि प्राप्यं तु सदकारणम् ॥ २,१८.५२ ॥

"प्राप्यम्" प्रापणीयम् । "सत्" सन्मात्राख्यं वस्तु ॥ २,१८.५२ ॥

 

 

 

ननु सर्वाणि दार्ष्टान्तिकानि एतादृशानि एव सन्त्युतान्यान्यथेत्यपेक्षायामाह

उपमानोपमेयानां कार्यकारणतोदिता ।

वर्जयित्वा परं ब्रह्म सर्वेषामेव विद्यते ॥ २,१८.५३ ॥

दृष्टान्तदार्ष्टान्तिकानाम् "परं ब्रह्म वर्जयित्वा" । "उदिता" उदयनशीला । "कार्यकारणता विद्यते" । ब्रह्म न कार्यमस्ति नापि कारणमित्यर्थः । अतो न ब्रह्मसदृशानि सर्वाणि दार्ष्टान्तिकानि इति भावः ॥ २,१८.५३ ॥

 

 

 

फलितं कथयति

ब्रह्मोपदेशदृष्टान्तो यस्य वेह हि कथ्यते ।

एकदेशसधर्मत्वं तत्रातः परिगृह्यते ॥ २,१८.५४ ॥

"हि" निश्चये । "अतः" कारणात् । "इह" लोके । "यस्य वा ब्रह्मोपदेशदृष्टान्तः कथ्यते तत्र" ब्रह्मदृष्टान्ते । "एकदेशसधर्मत्वं" एकदेशसदृशत्वम् । "परिगृह्यते" । न तु सर्वथा सदृशत्वं दार्ष्टान्तिकस्य ब्रह्मणः कार्यकारणत्वायोग्यात् । दृष्टान्तस्य तु कार्यतया कारणतया च स्थितत्वादिति भावः ॥ २,१८.५४ ॥

 

 

 

यो यो नामेह दृष्टान्तो ब्रह्मतत्त्वावबोधने ।

दीयते स स बोद्धव्यः स्वप्नदृष्टजगद्गतः ॥ २,१८.५५ ॥

"स्वप्नदृष्टजगद्गतः" भ्रमरूपः इत्यर्थः ॥ २,१८.५५ ॥

 

 

 

फलितमाह

एवं सति निराकारे ब्रह्मण्याकारवान् कथम् ।

दृष्टान्त इति नोद्यन्ति मूर्खवैकल्पिकोक्तयः ॥ २,१८.५६ ॥

"नोद्यन्ति" नोत्तिष्ठन्ति । अस्माभिरत एव प्रत्युक्तत्वादिति भावः ॥ २,१८.५६ ॥

 

 

 

अन्या सिद्धविरुद्धादिदृक्दृष्टान्तप्रदूषणे ।

स्वप्नोपमत्वाज्जगतः समुदेति न काचन ॥ २,१८.५७ ॥

"अन्या" पूर्वोक्तायाः दृष्टेः सकाशातितरा का । "न का"पि । "सिद्धविरुद्धादिदृक्" इदं सिद्धमिदं विरुद्धमित्यादिरूपा उक्तिः । "जगतः स्वप्नोपमत्वात्दृष्टान्तप्रदूषणे" दृष्टान्तप्रदूषणार्थम् "न समुदेति" । "आदि"शब्देनेदं लेशेन सिद्धं विरुद्धं वेति दृष्टेर्ग्रहणम् । स्वप्नोपमे जगति इदं सिद्धमिदं विरुद्धमिति । कथनं न युक्तं सर्वस्यायुक्तत्वादिति भावः ॥ २,१८.५७ ॥

 

 

 

अवस्तु पूर्वापरयोर्वर्तमानविचारितम् ।

यथा जाग्रत्तथा स्वप्नः सिद्धमाबालमक्षतम् ॥ २,१८.५८ ॥

"पूर्वापरयोः" भूतभविष्यतोरर्थयोः । "अवस्तु" भावप्रधानो निर्देशः । "अवस्तुत्वम्" असत्त्वम् "वर्तमानविचारितं" भवति । वर्तमाने हि भूतस्य गतत्वात्भविष्यतः अनागतत्वातसत्त्वं विचारपदवीमायाति । तदभिन्नस्य वर्तमानस्यापि अवस्तुत्वम् अपरिहार्यमेवेति स्वयमेव ज्ञेयम् । अतः "आबालम्" बालपर्यन्तम् । "यथा स्वप्नः तथा जाग्रद्" इति । "अक्षतं" सम्यक् । "सिद्धम्" भवति ॥ २,१८.५८ ॥

 

 

 

स्वप्नसंकल्पनध्यानवरशापौषधादिभिः ।

येऽर्थास्त इह दृष्टान्तास्तद्रूपत्वाज्जगत्स्थितेः ॥ २,१८.५९ ॥

"येऽर्था" इत्य् । अत्र "दृष्टा" इति शेषः । "तद्रूपत्वात्" स्वप्नाद्यर्थरूपत्वात् । अत "इहा"सत्यैः पदार्थैः सत्यस्य ब्रह्मणः उपमानोपमेयभावः एकदेशसाधर्म्येणेति भावः ॥ २,१८.५९ ॥

 

 

 

ननु त्वया कृतेष्वन्येषु ग्रन्थेषु का वार्तेत्य् । अत्राह

मोक्षोपायकृता ग्रन्थकारेणान्येऽपि ये कृताः ।

ग्रन्थास्तेष्वियमेवैका व्यवस्था बोध्यबोधने  ॥ २,१८.६० ॥

"मोक्षोपायकृता ग्रन्थकारेण" मयेत्यर्थः । "बोध्यस्य" बोधनीयस्य ब्रह्मतत्त्वस्य । "बोधने" कथने । "व्यवस्था" रीतिः ॥ २,१८.६० ॥

 

 

 

ननु कथं स्वप्नसदृशत्वं जगतोऽस्तीत्य् । अत्राह

स्वप्नाभत्वं च जगतः श्रुते शास्त्रेऽवभोत्स्यते  ।

शीघ्रं न पार्यते वक्तुं वाक्किल क्रमवर्तिनी ॥ २,१८.६१ ॥

"अवभोत्स्यते" ज्ञातुं शक्यते । तर्हि युगपदेव सर्वं शास्त्रं कथयेत्य् । अत्राह । "शीघ्रम्" इति । "वाचः क्रमवर्तित्वं" स्फुटमेव । "न" हि एकं वाक्यमनिर्वाह्य द्वितीयादिकं वाक्यं "वक्तुं" शक्यते ॥ २,१८.६१ ॥

 

 

 

स्वप्नसंकल्पसुध्याननगराद्युपमं जगत् ।

यतस्त एव दृष्टान्तास्तस्माद्भान्तीह नेतरे ॥ २,१८.६२ ॥

"यतः जगत्" । "स्वप्नसंकल्पसुध्यानेषु" दृष्टाः ये "नगरादयः" । तेषां "उपमा" यस्य । तादृशं भवति । "तस्मात्त एव सुध्याननगरादय" एव "दृष्टान्ताः भान्ति" अस्माकं बुद्धौ स्फुरन्ति । "इतरे" सत्यभूताः नगरादयः । "न" भान्ति अयुक्तत्वात् ॥ २,१८.६२ ॥

 

 

 

अकारणं कारणिना यद्बोधायोपमीयते ।

न तत्र सर्वसाधर्म्यं सम्भवत्युपमाभ्रमैः ॥ २,१८.६३ ॥

"अकारणं" कारणरहितं ब्रह्म । "कारणिना" कारणयुक्तेनाकाशादिना । "उपमाभ्रमैः" अन्योपमादृष्टसर्वथासाधर्म्यरूपैः विपर्ययैः ॥ २,१८.६३ ॥

 

 

उपमेयस्योपमानादेकांशेन सधर्मता ।

अङ्गीकार्यावबोधाय धीमता निर्विवादिना ॥ २,१८.६४ ॥

"धीमता" न त्वधीमता । स हि आरम्भ एव विवादपर एव तिष्ठतीति भावः ॥ २,१८.६४ ॥

 

 

नन्वेकेन धर्मेण सदृशेन उपमानं कथमुपमेयस्य प्रतीतिं कर्तुं शक्नोतीत्य् । अत्र दृष्टान्तं साधयति

अर्थावलोकने दीपादाभामात्रादृते किल ।

न स्थालतैलवर्त्यादि किंचिदप्युपजायते ॥ २,१८.६५ ॥

"आभामात्रात्" प्रकाशमात्ररूपात् । "स्थालम्" पात्रम् ॥ २,१८.६५ ॥

 

 

 

एतदेव दार्ष्टान्तिकयुक्तं कथयति

एकदेशसधर्मत्वादुपमेयावबोधनम् ।

उपमानं करोत्यङ्ग दीपोऽर्थं प्रभया यथा ॥ २,१८.६६ ॥

"प्रभया" प्रभाख्येनैकदेशेन ॥ २,१८.६६ ॥

 

 

दृष्टान्तस्यांशमात्रेण बोध्यबोधोदये सति ।

उपादेयतया ग्राह्यो महावाक्यार्थनिश्चयः ॥ २,१८.६७ ॥

न तु दृष्टान्तमात्र एव स्थातव्यमिति भावः ॥ २,१८.६७ ॥

 

 

न कुतार्किकतामेत्य नाशनीया प्रबुद्धता ।

अनुभूत्यपलापात्तैरपवित्रैर्विकल्पितैः ॥ २,१८.६८ ॥

"प्रबुद्धता" ज्ञानिता । "कुतार्किकाः" हि आरम्भ एव चोद्यान् दत्त्वा प्रबुद्धतां नाशयन्ति । "विकल्पितैः" कथंभूतैः । "अनुभूते" यः "अपलापः" निह्नवः । तेन "आत्तैः" गृहीतैः ॥ २,१८.६८ ॥

 

 

 

ननु पुराणानि शास्त्राणि च त्यक्त्वा किमर्थं त्वदुक्तं शास्त्रं गृह्णीमः इत्य् । अत्राह

विचारणादनुभवकारि वाङ्मय

प्रसङ्गतामुपगतमस्मदादिषु ।

स्त्रियोक्तमप्यपरमथापि वैदिकं

वचो वचःप्रलपनमेव नागमः ॥ २,१८.६९ ॥

"अस्मदादिषु" प्रामाणिकेषु । "स्त्रिया उक्तमपि" स्त्रीकर्तृकं प्रलपितमपि । "वाङ्मयप्रसङ्गताम्" शास्त्रप्रसङ्गताम् । शास्त्रत्वमिति यावत् । "उपगतम्" । कथंभूतं तत् । "विचारणातनुभवकारि" । "अथ" पक्षान्तरे । "वैदिकं वचः अपि वचःप्रलपनमेव" प्रलाप एव भवति । "नागमः" भवति अनुभवकारित्वाभावादित्यर्थः ॥ २,१८.६९ ॥

 

 

सर्गान्तश्लोकेनाप्येतदेव कथयति

अस्माकमस्ति मतिरङ्ग तयेति सर्व

शास्त्रैकवाक्यकरणं फलितं यतोऽतः ।

प्रातीतिकार्थमयशास्त्रनिजाङ्गपुष्टात्

संवेदनादितरदस्ति न नः प्रमाणम् ॥ २,१८.७० ॥

हे "अङ्ग" । "अस्माकं मतिरस्ति इति" । "अतः" हेतोः । "अस्माकं तया" बुद्ध्या । "सर्वशास्त्रैकवाक्यकरणं यतः फलितम्" । "अतः" हेतोः । "नः" अस्माकम् । "संवेदनात्" ज्ञानात् । अन्यत्"प्रमाणं नास्ति" । सर्वस्मिञ्शास्त्रे संवेदनमेवास्माभिः प्रमाणं दृष्टम् । अतोऽस्माकमपि तदेव प्रमाणमिति भावः । "संवेदनात्" कथंभूतात् । "प्रातीतिकः" प्रतीतेरागतः । न तु कल्पितः । यः "अर्थः" । तन्"मयम्" यत्"शास्त्रं" । तदेव "निजाङ्गम्" उपकारकत्वात्स्वाङ्गम् । तेन "पुष्टात्" वृद्धिं गतात् ॥ २,१८.७० ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे अष्टादशः सर्गः ॥ २,१८ ॥