← सर्गः ९ मोक्षोपायटीका/स्थितिप्रकरणम्
भास्करकण्ठः
सर्गः ११ →
मोक्षोपायटीका/स्थितिप्रकरणम्



अथ वर्षसहस्रेण दिव्येन परमेश्वरः ।

भृगुः परमसम्बोधाद्विरराम समाधितः ॥ ४,१०.१ ॥

समाधितः कथम्भूतात् । परमसम्बोधात्ज्ञेयमालिन्यादूषितज्ञानरूपात् । न तु मूर्च्छारूपात् ॥ ४,१०.१ ॥

 

 

 

नापश्यदग्रे तनयं तं नयावनताननम् ।

सीमान्तं गुणसीमायाः पुण्यं मूर्तमिव स्थितम् ॥ ४,१०.२ ॥

स्पष्टम् ॥ ४,१०.२ ॥

 

 

 

अपश्यत्केवलं कालं कङ्कालं पुरतो महत् ।

देहयुक्तमिवाभाग्यं दारिद्र्यमिव मूर्तिमत् ॥ ४,१०.३ ॥

कालं कृष्णम् । कङ्कालं करङ्कम् । अभाग्यं भाग्यविपर्ययः ॥ ४,१०.३ ॥

 

 

 

कङ्कालं विशिनष्टि

तापशुष्कवपुः कृत्तिरन्ध्रस्फुरिततित्तिरि ।

संशुष्कान्त्रोदरगुहाछायाविश्रान्तदर्दुरम् ॥ ४,१०.४ ॥

तित्तिरयः कीटविशेषाः ॥ ४,१०.४ ॥

 

 

 

नेत्रगर्तकसंसुप्तप्रसूनवनकीटकम् ।

मक्षिकापञ्जरप्रोतकोशकारिक्रिमिव्रजम् ॥ ४,१०.५ ॥

मक्षिकापञ्जरेषु पञ्जराकारेणोपविष्टेषु मक्षिकासमूहेषु । प्रोतः कोशकारक्रिमिव्रजः यस्मिन् । तत् ॥ ४,१०.५ ॥

 

 

 

प्राक्तनीमुपभोगेहामिष्टानिष्टफलप्रदाम् ।

धाराधौतान्तया तन्वा हसच्छुष्कास्थिमालया ॥ ४,१०.६ ॥

हसथसदिवेत्यर्थः ॥ ४,१०.६ ॥

 

 

 

शिरोघटेन शुभ्रेण सम्पन्नेनेन्दुवर्चसा ।

विडम्बयच्च कर्पूरप्लुतलिङ्गशिरःश्रियम् ॥ ४,१०.७ ॥

इन्दुवर्चसा चन्द्रमहसा । लिङ्गं शिवलिङ्गम् ॥ ४,१०.७ ॥

 

 

 

ऋज्वा संशुष्कसितया स्वास्थिमात्रावशेषया ।

ग्रीवयात्मानुसृतया दीर्घीकुर्वदिवाकृतिम् ॥ ४,१०.८ ॥

आत्मानुसृतया । आत्मना स्वेन । अनुसृतया सम्बद्धया ॥ ४,१०.८ ॥

 

 

 

मृणालिकापाण्डुरया धारावधुतमांसया ।

नासास्थिलतया वक्त्रं कृतसीमाक्रमं दधत् ॥ ४,१०.९ ॥

कृतसीमाक्रमं कृतमर्यादाक्रमम् ॥ ४,१०.९ ॥

 

 

 

दीर्घकन्धरया नूनमुत्तानीकृतवक्त्रया ।

प्रेक्षमाणमिव प्राणानुत्क्रान्तानम्बरोदरे ॥ ४,१०.१० ॥

नूनं वितर्के ॥ ४,१०.१० ॥

 

 

 

जङ्घोरुजानुदोर्दण्डैर्द्विगुणं दीर्घतां गतैः ।

प्रमिमाणमिवाशान्तं दीर्घाध्वश्रमभीतितः ॥ ४,१०.११ ॥

आशान्तं दिगन्तम् ॥ ४,१०.११ ॥

 

 

 

उदरेणातिनिम्नेन चर्मशेषेण शोषिणा ।

प्रदर्शयदिवाज्ञस्य हृदयस्यातिशून्यताम् ॥ ४,१०.१२ ॥

स्पष्टम् ॥ ४,१०.१२ ॥

 

 

 

प्रेक्ष्य तच्छुष्ककङ्कालमालानमिव दन्तिनः ।

पूर्वापरपरामर्शमकुर्वन् भृगुरुत्थितः ॥ ४,१०.१३ ॥

भृगुः किं कुर्वन् । पुत्रस्नेहेन पूर्वापरपरामर्शमकुर्वन् । योगिनामपि हि कदाचित्प्रकृतिवशात्देहपातं तावत्पूर्वापरपरामर्शहीनत्वं जायते । किं तु तेषां तत्क्षणिकमेवेति । उत्थितः स्वात्मतत्त्वपरामर्शातुच्चलितः ॥ ४,१०.१३ ॥

 

 

 

आलोकसमकालं हि प्रतिभातं ततो भृगोः ।

चिरमुत्क्रान्तजीवः किं मत्पुत्रोऽयमिति क्षणात् ॥ ४,१०.१४ ॥

ततः उत्थानानन्तरम् । आलोकसमकालं पुत्रकङ्कालदर्शनसमकालम् । भृगोः इति प्रतिभातं स्फुरितमिति । किमिति । अयं मत्पुत्रः चिरं बहुकालादारभ्य । उत्क्रान्तजीवः किं कथम् । सम्पन्न इत्यर्थः ॥ ४,१०.१४ ॥

 

 

 

अचिन्तयत एवास्य भविष्यत्ताबलं ततः ।

कालं प्रति बभूवाशु कोपः परमदारुणः ॥ ४,१०.१५ ॥

अथ भविष्यत्ताबलं भवितव्यताबलम् । अचिन्तयतः तत्क्षणोत्थपूर्वापरविमर्शराहित्येनाविमृशतः । अस्य भृगोः । कालं प्रति चिन्मात्रस्थक्रियावैचित्र्यरूपे काले । परमदारुणः कोपः बभूव ॥ ४,१०.१५ ॥

 

 

 

अकाल एव मत्पुत्रो नीतः किमिति कोपितः ।

कालाय शापमुत्स्रष्टुं भगवानुपचक्रमे ॥ ४,१०.१६ ॥

अकाले तद्युगनियतमनुष्यायुरसमाप्तिरूपे कालाभावे । इदमत्र तात्पर्यम् । निर्विकल्पसमाधिना शुद्धचिन्मात्रतां यातः असौ भृगुः । तस्मात्समाधेः उत्थितः । ततः बाह्यस्पर्शेन किञ्चिन्मात्रं स्फटिकवदास्रष्टुमारब्धः । तत्र प्रथममकाले पुत्रं मृतं दृष्ट्वा विवशीभूतः । समनन्तरकालानुभूतेन चिन्मात्ररूपेण स्वेन कृतं क्रियावैचित्र्यरूपं कालं नाशयितुमैच्छत् । यश्च कालागमः स कथं स्वयं कृतं स्वभावसहचरमेतं नाशयामीति विवेकागम एव ज्ञेयः । इत्यास्तां रहस्योद्घाटनेन ॥ ४,१०.१६ ॥

 

 

 

अथाकलितरूपोऽसौ कालः कवलितप्रजः ।

आधिभौतिकमास्थाय वपुर्मुनिमुपाययौ ॥ ४,१०.१७ ॥

अकलितरूपः । अकलितं परमात्मगतत्वेन स्थितत्वात्प्रमेयतामगतम् । रूपं यस्य । सः । आधिभौतिको देहः परमार्थतः विचाररूपः एव ज्ञेयः । बाह्यान् प्रति तु देवतारूपः ॥ ४,१०.१७ ॥

 

 

 

कीदृशः उपाययावित्यपेक्षायां बाह्यदेवतारूपत्वं बाह्यदृष्टीन् प्रति कथयति

खड्गपाशधरः श्रीमान् कुण्डली कवचान्वितः ।

षड्भुजः षण्मुखो बह्व्या वृतः किङ्करसेनया ॥ ४,१०.१८ ॥

स्पष्टम् ॥ ४,१०.१८ ॥

 

 

 

यच्छरीरसमुत्थेन ज्वालाजालेन वल्गता ।

फुल्लकिंशुकवृक्षस्य बभाराद्रेः श्रियं नभः ॥ ४,१०.१९ ॥

स्पष्टम् ॥ ४,१०.१९ ॥

 

 

 

यत्करस्थत्रिशूलाग्रनिष्ठ्यूतैरग्निमण्डलैः ।

विरेजुरुदितैराशाः कानकैरिव कुण्डलैः ॥ ४,१०.२० ॥

स्पष्टम् ॥ ४,१०.२० ॥

 

 

 

यत्पाशश्वसनायस्तशिखरा मेदिनीभृतः ।

दोलामिव समारूढाश्चेलुः पेतुश्च घूर्णिताः ॥ ४,१०.२१ ॥

आयस्तशिखरा आकृष्टशिखराः ॥ ४,१०.२१ ॥

 

 

 

यत्खड्गमण्डलोद्द्योतश्यामं बिम्बं विवस्वतः ।

कल्पदग्धजगद्धूमपर्याकुलमिवाबभौ ॥ ४,१०.२२ ॥

स्पष्टम् ॥ ४,१०.२२ ॥

 

 

 

स उपेत्य महाबाहुः कुपितं तं महामुनिम् ।

कल्पक्षुब्धाब्धिगम्भीरं सान्त्वपूर्वमुवाच ह ॥ ४,१०.२३ ॥

सः कालः ॥ ४,१०.२३ ॥

 

 

 

विज्ञातलोकस्थितयो मुने दृष्टपरावराः ।

हेतुनापि न मुह्यन्ति किमु हेतुं विनोत्तमाः ॥ ४,१०.२४ ॥

दृष्टः स्वरूपत्वेनानुभूतः । परावरः परावररूपेण स्थितं चिन्मात्रतत्त्वम् । यैः । ते ॥ ४,१०.२४ ॥

 

 

 

त्वमनन्ततपा विप्रो वयं नियतिपालकाः ।

तेन सम्पूज्यसे पूज्य साधो नेतरयेच्छया ॥ ४,१०.२५ ॥

अनन्ततपाः अपरिमिततपाः । तेन अनन्ततपस्त्वेन ॥ ४,१०.२५ ॥

 

 

 

मा तपः क्षपय क्षुब्धैः कल्पकालमहानलैः ।

यो न दग्धोऽस्मि मे तस्य किं त्वं शापेन धक्ष्यसि ॥ ४,१०.२६ ॥

योऽस्मि योऽहम् । चिन्मात्रक्रियावैचित्र्यरूपस्य कालस्य कदापि दाहासम्भवातिति भावः । धक्ष्यसीति । दह भस्मीकरण इत्यस्य लृडन्तस्य प्रयोगः ॥ ४,१०.२६ ॥

 

 

 

संसारावलयो ग्रस्ता निगीर्णा रुद्रकोटयः ।

भुक्तानि विष्णुवृन्दानि केन शाप्ता वयं मुने ॥ ४,१०.२७ ॥

स्पष्टम् ॥ ४,१०.२७ ॥

 

 

 

भोक्तारो हि वयं ब्रह्मन् भोजनं युष्मदादयः ।

स्वयं नियतिरेषा हि नावयोरेतदीहितम् ॥ ४,१०.२८ ॥

आवयोः युष्माकमस्माकं च । ईहितं काङ्क्षितम् ॥ ४,१०.२८ ॥

 

 

 

स्वयमूर्ध्वं प्रयात्यग्निः स्वयं यान्ति पयांस्यधः ।

भोक्तारं भोजनं याति सृष्टिश्चाप्यन्तकं स्वयम् ॥ ४,१०.२९ ॥

अन्तकं कालम् ॥ ४,१०.२९ ॥

 

 

 

इदमित्थं मुने रूपमस्येह परमात्मनः ।

स्वात्मनि स्वयमेवात्मा स्वत एव विजृम्भते ॥ ४,१०.३० ॥

विजृम्भते विचित्राभिः क्रियाभिः विलसति ॥ ४,१०.३० ॥

 

 

 

नेह कर्ता न भोक्तास्ति दृष्ट्या नष्टकलङ्कया ।

बहवश्चेह कर्तारो दृष्ट्यानष्टकलङ्कया ॥ ४,१०.३१ ॥

नष्टकलङ्कया दृष्ट्या सम्यग्दृष्ट्या । अनष्टकलङ्कया दृष्ट्या असम्यग्दृष्ट्या ॥ ४,१०.३१ ॥

 

 

 

कर्तृताकर्तृते ब्रह्मन् केवलं परिकल्पिते ।

असम्यग्दर्शनेनैव न सम्यग्दर्शनेन वः ॥ ४,१०.३२ ॥

स्पष्टम् ॥ ४,१०.३२ ॥

 

 

 

पुष्पाणि तरुषण्डेषु भूतानि भुवनेषु च ।

स्वयमायान्ति यान्तीह कल्प्यते हेतुता विधेः ॥ ४,१०.३३ ॥

मूढैः इह विधेः हेतुता कल्प्यते कल्पनया भाव्यते । न तु परमार्थतः हेतुता कस्याप्यस्ति । केवलस्य शुद्धचिन्मात्रस्यैव स्थितत्वात् ॥ ४,१०.३३ ॥

 

 

 

अब्बिम्बितस्य चन्द्रस्य चलने कर्त्रकर्तृते ।

न सत्ये नानृते यद्वत्तद्वत्कालस्य सृष्टिषु ॥ ४,१०.३४ ॥

कालस्य क्रियावैचित्र्यरूपस्य मम ॥ ४,१०.३४ ॥

 

 

 

मनो मिथ्याभ्रमाल्लोके कर्तृताकर्तृतामयम् ।

करोति कलनां रज्ज्वां भ्रान्तेक्षण इवाहिताम् ॥ ४,१०.३५ ॥

स्पष्टम् ॥ ४,१०.३५ ॥

 

 

 

फलितमाह

तेन मा गा मुने कोपमापदामीदृशः क्रमः ।

यद्यथा तत्तथैवास्तु सत्यमालोकयाकुलः ॥ ४,१०.३६ ॥

आपदां क्रमः ईदृश एव भवति । एताः सर्वेषामेवायान्तीति भावः । यत्यथा अस्ति । तत्तथैवास्तु । आकुलः आकुलीभूतः त्वम् । सत्यमालोकय । प्रवाहायाते शुभाशुभजाले मा क्षोभं गच्छेति भावः ॥ ४,१०.३६ ॥

 

 

 

न वयं प्रभुतार्थेन नाभिमानवशीकृताः ।

स्वतो हेवाकवशतः केवलं नियतौ स्थिताः ॥ ४,१०.३७ ॥

वयं प्रभुतार्थेन प्रभुताप्रयोजनेन । नियतौ भगवत्कृते नियमने । न स्थिताः । न चाभिमानवशीकृताः सन्तः स्थिताः । किं तु स्वतः स्वभावतः उत्थितात् । हेवाकवशतः नियतौ केवलं स्थिताः । किञ्चिदप्यत्रास्मास्वधीनं नास्तीति भावः ॥ ४,१०.३७ ॥

 

 

 

प्रकृतव्यवहारेहां नियतां नियतेर्वशात् ।

प्राज्ञः समनुवर्तेत नाभिमानमहातमाः ॥ ४,१०.३८ ॥

नियतां शास्त्रनियताम् । प्राज्ञः कथम्भूतः । न अभिमान एवाहङ्कर्तेत्यभिमान एव तमः यस्य । तादृशः ॥ ४,१०.३८ ॥

 

 

 

कर्तव्यमेव क्रियते केवलं कार्यकोविदैः ।

सौषुप्तीं वृत्तिमाश्रित्य कयाचिदपि नाशया ॥ ४,१०.३९ ॥

प्राज्ञैः सर्वं फलानुसन्धानरहितमेव क्रियते इति भावः ॥ ४,१०.३९ ॥

 

 

 

क्व सा ज्ञानमयी दृष्टिः क्व महत्त्वं क्व धीरता ।

मार्गे सर्वप्रसिद्धे हि किमन्ध इव मुह्यसि ॥ ४,१०.४० ॥

सा समनन्तरमेवानुभूता । सर्वप्रसिद्धे लौकिके ॥ ४,१०.४० ॥

 

 

 

त्रिकालामलदर्शित्वं धारयन्नपि चेतसि ।

अविचार्य जगद्यात्रां किं मूर्ख इव मुह्यसि ॥ ४,१०.४१ ॥

त्रिकालामलदर्शित्वं पूर्वापरविमर्शभाजनत्वम् ॥ ४,१०.४१ ॥

 

 

 

स्वकर्मफलपाकोत्थामविचार्य दशां सुते ।

किं मूर्ख इव सर्वज्ञ मुधा मां शप्तुमर्हसि ॥ ४,१०.४२ ॥

स्पष्टम् ॥ ४,१०.४२ ॥

 

 

 

देहिनामिह सर्वेषां शरीरं द्विविधं मुने ।

किं न जानासि वा देहमेकमन्यन्मनोऽभिधम् ॥ ४,१०.४३ ॥

देहं स्थूलदेहम् । अन्यत्द्वितीयम् ॥ ४,१०.४३ ॥

 

 

 

तत्र देहो जडोऽत्यर्थं विनाशैकपरायणः ।

मनस्तूत्थाननियतं कदर्थात्क्षीयते न वा ॥ ४,१०.४४ ॥

उत्थाने सङ्कल्परूपे उद्योगे । नियतं मनः । कदर्थात्क्लेशात् । क्षीयते । अथ वा तेनापि । न क्षीयते ॥ ४,१०.४४ ॥

 

 

 

चतुरेण यथा साधो रथः सारथिनोह्यते ।

कुर्वता किञ्चन स्वेहां देहोऽयं मनसा तथा ॥ ४,१०.४५ ॥

उह्यते स्वाभिमतं देशं प्रति नीयते ॥ ४,१०.४५ ॥

 

 

 

असत्सङ्कल्प्य क्रियते सच्छरीरं विनाश्यते ।

क्षणेन मनसा पङ्कपुरुषः शिशुना यथा ॥ ४,१०.४६ ॥

असतविद्यमानम् । सत्विद्यमानम् ॥ ४,१०.४६ ॥

 

 

 

चित्तमेवेह पुरुषस्तत्कृतं कृतमुच्यते ।

तद्बद्धं कलनाहेतोः कलनास्तं विमुच्यते ॥ ४,१०.४७ ॥

कलनाहेतोः सङ्कल्पाख्यात्कारणात् । कलनास्तमस्तकलनम् ॥ ४,१०.४७ ॥

 

 

 

अयं देह इदं नेत्रमिदमङ्गमिदं शिरः ।

इदं स्फारविकारं तन्मन एवाभिधीयते ॥ ४,१०.४८ ॥

मनः कथम्भूतम् । इदं स्फारविकारम् । इदमिति स्फारः स्फुरणशीलः । विकारः यस्य । तादृशम् । मनः पण्डितैस्तदभिधीयते । तत्किम् । अयं देहः इदं नेत्रमिदमङ्गमिदं शिरः इति यद्भवति ॥ ४,१०.४८ ॥

 

 

 

मनो हि जीवज्जीवाख्यं निश्चायकतया तु धीः ।

अहङ्कारोऽभिमानित्वान्नानात्वं त्विदमेति हि ॥ ४,१०.४९ ॥

जीवत्जीवनक्रियाकर्तृतां भजत् । निश्चायकतया निश्चयकर्तृत्वेन । अभिमानित्वात्देहोऽहमित्यभिमानकर्तृत्वेन । नानात्वजीवादिरूपं नानात्वम् ॥ ४,१०.४९ ॥

 

 

 

देहवासनया चेतस्त्वन्यानि स्वानि चेद्धया ।

पार्थिवानि शरीराणि सन्तीव परिपश्यति ॥ ४,१०.५० ॥

चेतः इद्धया देहवासनया देहोऽहमिति वासनया । अन्यानि परकीयानि । स्वानि स्वकीयानि । पार्थिवानि शरीराणि सन्ति इव पश्यति अनुभवति ॥ ४,१०.५० ॥

 

 

 

आलोकयति चेत्सत्यं तदसत्यमयीं मनः ।

शरीरभावनां त्यक्त्वा परमां याति निर्वृतिम् ॥ ४,१०.५१ ॥

मनः सत्यं सम्यक् । चेतालोकयति । तत्तदा । असत्यमयीमसत्यस्वरूपाम् । शरीरभावनां त्यक्त्वा । परमां निर्वृतिं चिन्मात्रमयतारूपमानन्दम् । याति ॥ ४,१०.५१ ॥

 

 

 

फलितमाह

तन्मनस्तव पुत्रस्य समाधौ त्वयि संस्थिते ।

स्वमनोरथमार्गेण दुराद्दूरतरं गतम् ॥ ४,१०.५२ ॥

यतः मन एव सर्वत्र कर्तृ अस्ति तत्ततो हेतोः ॥ ४,१०.५२ ॥

 

 

 

इदमौशनसं त्यक्त्वा देहं मन्दरकन्दरे ।

प्रयातं वैबुधं सद्म नीडोड्डीनः खगो यथा ॥ ४,१०.५३ ॥

औशनसं शुक्रसम्बन्धि ॥ ४,१०.५३ ॥

 

 

 

तत्र मन्दारकुञ्जेषु पारिजातगृहेषु च ।

नन्दनोद्यानषण्डेषु लोकपालपुरीषु च ॥ ४,१०.५४ ॥

स्पष्टम् ॥ ४,१०.५४ ॥

 

 

 

मुने चतुर्युगान्यष्टौ विश्वाचीं देवसुन्दरीम् ।

असेवत महातेजाः षट्पदः पद्मिनीमिव ॥ ४,१०.५५ ॥

स्पष्टम् ॥ ४,१०.५५ ॥

 

 

 

तीव्रसंवेगसम्पन्नस्वसङ्कल्पोपकल्पिते ।

अथ पुण्यक्षये जाते नीहार इव शार्वरे ॥ ४,१०.५६ ॥

स्पष्टम् ॥ ४,१०.५६ ॥

 

 

 

प्रम्लानकुसुमोत्तंसः स्विन्नाङ्गावलयालसः ।

स पपात तया साकं कालपक्वं फलं यथा ॥ ४,१०.५७ ॥

वैबुधं तत्परित्यज्य नभस्येव शरीरकम् ।

भूताकाशमथासाद्य वसुधायामजायत ॥ ४,१०.५८ ॥

स्पष्टम् ॥ ४,१०.५७५८ ॥

आसीद्द्विजो दशार्णेषु कोसलेषु महीपतिः ।

धीवरोऽङ्गमहाटव्यां हंसस्त्रिपथगातटे ॥ ४,१०.५९ ॥

स्पष्टम् ॥ ४,१०.५९ ॥

 

 

 

सूर्यवंशी नृपः पौण्ड्रे सौरः साल्वेषु दैशिकः ।

कल्पं विद्याधरः श्रीमान् धीमानथ मुनेः सुतः ॥ ४,१०.६० ॥

पौण्ड्रे देशे । सूर्यवंशी नृपः जातः । साल्वेषु सौरः सूर्यकुलोत्पन्नः । दैशिकः गुरुः । उत्पन्नः ॥ ४,१०.६० ॥

 

 

 

मद्रेष्वथ महीपालस्ततस्तापसबालकः ।

वासुदेव इति ख्यातः समङ्गायास्तटे स्थितः ॥ ४,१०.६१ ॥

स्पष्टम् ॥ ४,१०.६१ ॥

 

 

 

अन्यास्वपि विचित्रासु वासनावशतः स्वयम् ।

विषमास्वेव पुत्रस्ते चचारानन्तयोनिषु ॥ ४,१०.६२ ॥

स्पष्टम् ॥ ४,१०.६२ ॥

 

 

 

अन्यपदव्याख्यां कुर्वन् समङ्गातटतापसजन्मनः पूर्वभावीनि जन्मान्तराण्यस्य कथयति

अभूद्विन्ध्यवने गोपः किरतः केकयेषु च ।

सौवीरेषु च सामन्तस्त्रैगर्तश्चैव दैशिकः ॥ ४,१०.६३ ॥

त्रैगर्तः त्रिगर्तदेशसम्बन्धी ॥ ४,१०.६३ ॥

 

 

 

वंशगुल्मः किरातेषु हरिणश्चीरजङ्गले ।

सरीसृपस्तालतले तमाले वनकुक्कुटः ॥ ४,१०.६४ ॥

स्पष्टम् ॥ ४,१०.६४ ॥

 

 

 

अयं स पुत्रो भवतो भूत्वा मन्त्रविदां वरः ।

प्रजजाप पुरा विद्यां विद्याधरपदप्रदाम् ॥ ४,१०.६५ ॥

प्रजजाप जपितवान् । विद्यां मन्त्रम् ॥ ४,१०.६५ ॥

 

 

 

तेनासौ भगवन् ब्रह्मन् व्योम्नि विद्याधरो महान् ।

हारकुण्डलकेयूरी लीलानिचयलासकः ॥ ४,१०.६६ ॥

भगवन् ब्रह्मन् । असौ ते पुत्रः । तेन जपेन । विद्याधरः अभूत् । कीदृशो विद्याधरः अभूदित्यपेक्षायां विशेषणाण्याह हारेति ॥ ४,१०.६६ ॥

 

 

 

नायिकानलिनीभानुः पुष्पचाप इवापरः ।

विद्याधरीणां दयितो गन्धर्वपुरभूषणम् ॥ ४,१०.६७ ॥

स्पष्टम् ॥ ४,१०.६७ ॥

 

 

 

स कल्पावधिमासाद्य द्वादशादित्यधामनि ।

जगाम भस्मशेषत्वं शलभः पावके यथा ॥ ४,१०.६८ ॥

स्पष्टम् ॥ ४,१०.६८ ॥

 

 

 

जगन्निर्माणरहिते स्फारे नभसि सा ततः ।

वासना तस्य बभ्राम निर्नीडा विहगी यथा ॥ ४,१०.६९ ॥

स्पष्टम् ॥ ४,१०.६९ ॥

 

 

 

अथ कालेन सञ्जाते विचित्रारम्भकारिणि ।

संसाराडम्बरारम्भे ब्राह्मी रात्रिविपर्यये ॥ ४,१०.७० ॥

सा मनोवासना तस्य वातव्यावलिता सती ।

कृते ब्राह्मणतामेत्य जाताद्य वसुधातले ॥ ४,१०.७१ ॥

कृते कृतयुगे । युग्मम् ॥ ४,१०.७०७१ ॥

 

 

 

वासुदेवाभिधानोऽसौ मुने विप्रकुमारकः ।

जातो मतिमतां मध्ये समधीताखिलश्रुतिः ॥ ४,१०.७२ ॥

स्पष्टम् ॥ ४,१०.७२ ॥

 

 

 

कल्पं विद्याधरो भूत्वा नद्या अद्य महामुने ।

तपश्चरति ते पुत्रः समङ्गायास्तटे स्थितः ॥ ४,१०.७३ ॥

स्पष्टम् ॥ ४,१०.७३ ॥

 

 

 

सर्गान्तश्लोकेन जरढयोनिगमनं कथयति

विविधविषमवासनानुवृत्त्या

खदिरकरञ्जकरालकोटरासु ।

जगति जरढयोनिषु प्रयातो

गहनतरासु च काननस्थलीषु ॥ ४,१०.७४ ॥

जरढयोनिपक्षे खदिरकरञ्जकरालासु नानाविधदुःखसङ्कटासु । इति शिवम् ॥ ४,१०.७४ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे दशमः सर्गः ॥१०॥