← सर्गः ६ मोक्षोपायटीका/स्थितिप्रकरणम्
भास्करकण्ठः
सर्गः ८ →
मोक्षोपायटीका/स्थितिप्रकरणम्



इति शुक्रः पुरं प्राप्य वैबुधं स्वेन चेतसा ।

विसस्मार निजं भावं प्राक्तनं व्यसनं विना ॥ ४,७.१ ॥

इति एवम् । शुक्रः स्वेन चेतसा वैबुधं पुरं प्राप्य । व्यसनमप्सरोविषयामासक्तिम् । विना । सर्वं निजं प्राक्तनं भावं विसस्मार । व्यसनस्यापि मानुषभावे एवोद्भूतत्वात्प्राक्तनत्वं ज्ञेयम् ॥ ४,७.१ ॥

 

 

 

मुहूर्तमथ विश्रम्य तस्य पार्श्वे शचीपतेः ।

स्वर्गं विहर्तुमुत्तस्थौ स्वर्वासिपरिचोदितः ॥ ४,७.२ ॥

स्वर्वासिपरिचोदितः अमरचोदितः ॥ ४,७.२ ॥

 

 

 

स्वर्गश्रियं समालोक्य लोललोचनलाञ्छितम् ।

स्त्रैणं द्रष्टुं जगामासौ नलिनीमिव सारसः ॥ ४,७.३ ॥

स्त्रैणं स्त्रीसमूहम् ॥ ४,७.३ ॥

 

 

 

तत्र तां मृगशावाक्षीं कान्तामध्यागतामसौ ।

ददर्श विपिनान्तःस्थां भृङ्गश्चूतलतामिव ॥ ४,७.४ ॥

तां पूर्वं मनुष्यलोकेऽनुभूताम् ॥ ४,७.४ ॥

 

 

 

तामालोक्य लसल्लोलविलासवलिताकृतिम् ।

आसीद्विलीयमानाङ्गो ज्योत्स्नयेन्दुमणिर्यथा ॥ ४,७.५ ॥

स्पष्टम् ॥ ४,७.५ ॥

 

 

 

विलीयमानसर्वाङ्गस्तामवैक्षत कामिनीम् ।

चन्द्रकान्त इव ज्योत्स्नां शीतलां खे विलासिनीम् ॥ ४,७.६ ॥

स्पष्टम् ॥ ४,७.६ ॥

 

 

 

तेनावलोकिता सापि तत्परायणतां गता ।

निशान्ते चक्रवाकेन कान्तेन परिकूजिता ॥ ४,७.७ ॥

स्पष्टम् ॥ ४,७.७ ॥

 

 

 

रसाद्विकसतोर्नूनमन्योऽन्यमनुरक्तयोः ।

प्रातरर्कनलिन्योर्या शोभा सैव तयोरभूत् ॥ ४,७.८ ॥

तयोः शुक्राप्सरसोः ॥ ४,७.८ ॥

 

 

 

सङ्कल्पितार्थदायित्वाद्देशस्य मदनेन सा ।

सर्वाङ्गं विवशीकृत्य शुक्रायैव समर्पिता ॥ ४,७.९ ॥

देशस्य स्वर्गदेशस्य । सङ्कल्पितार्थदायित्वात् । मदनेन असौ अप्सराः । सर्वाङ्गं सर्वेषु अङ्गेषु । विवशीकृत्य । शुक्राय समर्पिता दत्ता । सर्वसङ्कल्पदायिनः स्वर्गदेशस्यैव माहात्म्यमेतत् । यन्मदनेनासौ विवशीकृत्य शुक्राय समर्पितेति भावः ॥ ४,७.९ ॥

 

 

 

पेतुः स्मरशरास्तस्या मृदुष्वङ्गेषु भूरिशः ।

पलाशेष्विव पद्मिन्या धारा नवपयोमुचः ॥ ४,७.१० ॥

स्पष्टम् ॥ ४,७.१० ॥

 

 

 

सा बभूव स्मराधूता लोलालिवलयालका ।

मन्दवातविनुन्नाया मञ्जर्याः सहधर्मिणी ॥ ४,७.११ ॥

स्पष्टम् ॥ ४,७.११ ॥

 

 

 

नीलनीरजनेत्रां तां हंसवारणगामिनीम् ।

मदनः क्षोभयामास पूरः कमलिनीमिव ॥ ४,७.१२ ॥

पूरः जलपूरः ॥ ४,७.१२ ॥

 

 

 

अथ तां तादृशीं दृष्ट्वा शुक्रः सङ्कल्पितार्थभाक् ।

तमः सङ्कल्पयामास संहारमिव भूतकृत् ॥ ४,७.१३ ॥

सङ्कल्पयामास सङ्कल्पेनोत्पादितवान् ॥ ४,७.१३ ॥

 

 

 

त्रिविष्टपस्य देशोऽसौ बभूव तिमिराकुलः ।

भूलोकस्यान्धतमसो लोकालोकतटो यथा ॥ ४,७.१४ ॥

स्पष्टम् ॥ ४,७.१४ ॥

 

 

 

लज्जान्धकारतीक्ष्णांशौ तस्मिंस्तिमिरमण्डले ।

प्रतिष्ठामागते तस्य मिथुनस्येव मन्मथे ॥ ४,७.१५ ॥

तेषु सर्वेषु भूतेषु गतेष्वभिमतां दिशम् ।

तस्मात्प्रदेशाद्भूलोकं दिनान्ते विहगेष्विव ॥ ४,७.१६ ॥

सा दीर्घधवलापाङ्गा प्रवृद्धमदना तथा ।

आजगाम भृगोः पुत्रं मयूरी वारिदं यथा ॥ ४,७.१७ ॥

तिमिरमण्डले कस्मिन् । लज्जा एवान्धकारः । तस्य । तीक्ष्णांशौ सूर्ये । नाशकत्वात् ॥ ४,७.१५१७॥

 

 

 

धवलागारमध्यस्थे पर्यङ्के परिकल्पिते ।

विवेश भार्गवस्तत्र क्षीरोद इव माधवः ॥ ४,७.१८ ॥

स्पष्टम् ॥ ४,७.१८ ॥

 

 

 

सा पादाववलम्ब्यास्य विवशेव वरानना ।

रराज च सुरेभस्य पादलग्नेव पद्मिनी ॥ ४,७.१९ ॥

विवशा परायत्तः ॥ ४,७.१९ ॥

 

 

 

उवाच चेदं ललितं लसत्स्नेहोत्कया गिरा ।

वचो मधुरमानन्दि विलासि वलिताक्षरम् ॥ ४,७.२० ॥

स्पष्टम् ॥ ४,७.२० ॥

 

 

 

पश्यामलेन्दुवदन मण्डलीकृतकार्मुकः ।

अबलामनुबध्नाति मामेष किमनङ्गकः ॥ ४,७.२१ ॥

कुत्सितः अनङ्गः किमनङ्गकः ॥ ४,७.२१ ॥

 

 

 

पाहि मामबलां नाथ दीनां त्वच्छरणामिह ।

कृपणाश्वासनं साधो विद्धि सच्चरितव्रतम् ॥ ४,७.२२ ॥

स्पष्टम् ॥ ४,७.२२ ॥

 

 

 

स्नेहदृष्टिमजानद्भिर्मूढैरेव महामते ।

प्रणया अवगण्यन्ते न रसज्ञैः कदाचन ॥ ४,७.२३ ॥

प्रणयाः लक्षणया प्रणययुक्ताः । अवगण्यन्ते अवमन्यन्ते ॥ ४,७.२३ ॥

 

 

 

अशङ्कितोपसम्पन्नः प्रणयोऽन्योऽन्यरक्तयोः ।

अधःकरोति निष्यन्दं चान्द्रमास्वादितं प्रिय ॥ ४,७.२४ ॥

चान्द्रं निष्यन्दममृतम् ॥ ४,७.२४ ॥

 

 

 

न तथा सुखयत्येषा चेतस्त्रिभुवनेशता ।

यथा परस्परानन्दी स्नेहः प्रथमरक्तयोः ॥ ४,७.२५ ॥

स्पष्टम् ॥ ४,७.२५ ॥

 

 

 

त्वत्पादस्पर्शनेनेयं समाश्वस्तास्मि मानद ।

चन्द्रपादपरामृष्टा यथा निशि कुमुद्वती ॥ ४,७.२६ ॥

स्पष्टम् ॥ ४,७.२६ ॥

 

 

 

संस्पर्शामृतपानेन तव जीवामि सुन्दर ।

चन्द्रांशुरसपानेन चकोरी चपला यथा ॥ ४,७.२७ ॥

स्पष्टम् ॥ ४,७.२७ ॥

 

 

 

मामिमां चरणालीनां भ्रमरीं करपल्लवैः ।

आलिङ्ग्यामृतसम्पूर्णे सत्पद्महृदये कुरु ॥ ४,७.२८ ॥

चरणयोः आ समन्तात् । लीनां चरणालीनाम् ॥ ४,७.२८ ॥

 

 

 

इत्युक्त्वा पुष्पमृद्वङ्गी सा तस्य पतितोरसि ।

व्याघूर्णितालिनयना सुतराविव मञ्जरी ॥ ४,७.२९ ॥

स्पष्टम् ॥ ४,७.२९ ॥

 

 

 

सर्गान्तश्लोकेन कथयति

तौ दम्पती तत्र विलासकान्तौ

विलेसतुस्तासु वनस्थलीषु ।

किञ्जल्कगौरानिलघूर्णितासु

मत्तौ द्विरेफाविव पद्मिनीषु ॥ ४,७.३० ॥

स्पष्टम् । इति शिवम् ॥ ४,७.३० ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे सप्तमः सर्गः ॥७॥