मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः १६
← सर्गः १५ | मोक्षोपायटीका/स्थितिप्रकरणम् भास्करकण्ठः |
सर्गः १७ → |
मोक्षोपायटीका/स्थितिप्रकरणम् |
---|
अथाक्षिप्य वचस्तस्य तनयस्य तदा भृगोः ।
उवाच भगवान् कालो वचो गम्भीरनिःस्वनम् ॥ ४,१६.१ ॥
आक्षिप्य आक्षेपविषयं कृत्वा । भृगोः तनयस्य शुक्रस्य ॥ ४,१६.१ ॥
कालः कथयति
समङ्गातापसीमेतां तनुं सन्त्यज भार्गव ।
प्रविशेमां तनुं साधो नगरीमिव पार्थिवः ॥ ४,१६.२ ॥
समङ्गातापसीं समङ्गातापससम्बन्धिनीम् ॥ ४,१६.२ ॥
काले पूर्वजया तन्वा तपः कृत्वानया पुनः ।
गुरुत्वमसुरेन्द्राणां कर्तव्यं भवतानघ ॥ ४,१६.३ ॥
स्पष्टम् ॥ ४,१६.३ ॥
महाकल्पान्त आयाते भवता भार्गवी तनुः ।
अपुनर्ग्रहणायैषा त्याज्या प्रम्लानपुष्पवत् ॥ ४,१६.४ ॥
स्पष्टम् ॥ ४,१६.४ ॥
जीवन्मुक्तपदं प्राप्तस्तन्वा प्राक्तनरूपया ।
महासुरेन्द्रगुरुतां कुर्वंस्तिष्ठ महामते ॥ ४,१६.५ ॥
प्राक्तनरूपया शुक्राख्यया ॥ ४,१६.५ ॥
कल्याणमस्तु वां यामो वयं त्वभिमतां दिशम् ।
न किञ्चिदपि तच्चित्तं यस्य नाभिमतं भवेत् ॥ ४,१६.६ ॥
ननु कथं तवाप्यभिमतमस्तीत्य् । अत्राह न किञ्चिदिति । तत्किञ्चिदपि न भवति । यस्य चित्तस्याभिमतं नास्ति । अतो ममापि सचित्तत्वादभिमतमस्तीति भावः ॥ ४,१६.६ ॥
इत्युक्त्वा मुञ्चतोः पुष्पं तयोः सोऽन्तरधीयत ।
तप्तांशुरिव रोदस्योः सममंशुभिरंशुमान् ॥ ४,१६.७ ॥
तप्तांशुः सूर्यः । रोदस्योः द्यावापृथिव्योः ॥ ४,१६.७ ॥
गते तस्मिन् भगवति तामुक्त्वा भवितव्यताम् ।
विचार्य भार्गवोऽभेद्यां नियतां नियतेर्गतिम् ॥ ४,१६.८ ॥
कालकारणसंशुष्कां भाविपुष्पशुभोदयाम् ।
विवेश तां तनुं बालां सुलतामिव माधवः ॥ ४,१६.९ ॥
अभेद्यां भेत्तुमशक्याम् । कालाख्यं यत्कारणम् । तेन शुष्काम् । माधवः वसन्तः । लक्षणया वासन्तिकः रसः । भावी पुष्पवत्शुभः उदयः यस्याः । ताम् ॥ ४,१६.८९॥
सा ब्राह्मणतनुर्भूमौ विवर्णवदनङ्गिका ।
पपात कम्पिता तूर्णं छिन्नमूला लता यथा ॥ ४,१६.१० ॥
ब्राह्मणतनुः समङ्गातापसतनुः ॥ ४,१६.१० ॥
तस्यां प्रविष्टजीवायां पुत्रतन्वां महामुनिः ।
चकाराप्यायनं मन्त्रैः सकमण्डलुवारिभिः ॥ ४,१६.११ ॥
आप्यायनं पूरणम् ॥ ४,१६.११ ॥
सर्वनाड्यः ततस्तन्व्यास्तस्याः पूर्णा विरेजिरे ।
सरितः प्रावृषीवाम्बुपूरपूरितकोटराः ॥ ४,१६.१२ ॥
स्पष्टम् ॥ ४,१६.१२ ॥
नलिनी प्रावृषीवासौ मधाविव नवा लता ।
यदा पूर्णा तदा तस्याः प्राणाः पल्लविता बभुः ॥ ४,१६.१३ ॥
असौ भार्गवतनुः । पूर्णा प्राणपूर्णा । तस्याः तन्वाः । पल्लविताः अपानादिरूपेणोच्छूनाः ॥ ४,१६.१३ ॥
अथ शुक्रः समुत्तस्थौ वहत्प्राणसमीरणः ।
रसमारुतसंयोगादामूलमिव वारिदः ॥ ४,१६.१४ ॥
आमूलं मूलादारभ्य ॥ ४,१६.१४ ॥
पुरोऽभिवादयामास पितरं पावनाकृतिः ।
प्रथमोल्लासितो मेघः स्तनितेनेव पर्वतम् ॥ ४,१६.१५ ॥
स्पष्टम् ॥ ४,१६.१५ ॥
पिताथ प्राक्तनीं तस्याप्यालिलिङ्ग तनुं ततः ।
स्नेहार्द्रवृत्तिर्जलदश्चिराद्गिरितटीमिव ॥ ४,१६.१६ ॥
स्पष्टम् ॥ ४,१६.१६ ॥
भृगुर्ददर्श सस्नेहं प्राक्तनीं तानयीं तनुम् ।
मत्तो जातोऽयमित्यास्था हरत्यपि महामतिम् ॥ ४,१६.१७ ॥
तानयीं तनयसम्बन्धिनीम् । ननु तादृग्ज्ञानयुक्तेन तेन कथं तानयी तनुः सस्नेहं दृष्टेत्य् । अत्राह मत्त इति ॥ ४,१६.१७ ॥
मत्पुत्रोऽयमिति स्नेहो भृगुमप्यहरत्तदा ।
परतात्मीयता चेयं यावदाकृति भाविनी ॥ ४,१६.१८ ॥
परता परभावः । आत्मीयता आत्मीयभावः । यावदाकृति यावच्छरीरम् । भाविनी अपरिहार्या ॥ ४,१६.१८ ॥
बभूवतुः पितापुत्रौ तावथान्योऽन्यशोभितौ ।
निशावसानमुदितावर्कपद्माकराविव ॥ ४,१६.१९ ॥
निशावसाने प्रभाते । मुदितौ ॥ ४,१६.१९ ॥
अत्रैवान्यदृष्टान्तद्वयं कथयति
चिरसङ्गमसम्बद्धाविव चक्राह्वदम्पती ।
घनागमघनस्नेहौ मयूरजलदाविव ॥ ४,१६.२० ॥
चिरकालदृढोत्कण्ठयोग्यया कथया तया ।
स्थित्वा तत्र मुहूर्तं तावथोत्थाय महामती ॥ ४,१६.२१ ॥
समङ्गाद्विजदेहं तं भस्मसात्तत्र चक्रतुः ।
को हि नाम जगज्जात आचारं नानुतिष्ठति ॥ ४,१६.२२ ॥
आचारं लोकाचारम् ॥ ४,१६.२०२२ ॥
एवं तौ कानने तस्मिन् पावने भृगुभार्गवौ ।
संस्थितौ तपसा दीप्तौ दिवीव शशिभास्करौ ॥ ४,१६.२३ ॥
स्पष्टम् ॥ ४,१६.२३ ॥
चेरतुर्ज्ञातविज्ञेयौ जीवन्मुक्तौ जगद्गुरू ।
देशकालदशौघेषु सुशमं सुस्थिरं तपः ॥ ४,१६.२४ ॥
तपः कथम्भूतम् । शोभनः शमः यस्मिन् । तत् । तादृशम् ॥ ४,१६.२४ ॥
अथासुरगुरुत्वं स शुक्रः कालेन लब्धवान् ।
भृगुरप्यात्मनो योग्ये पदेऽतिष्ठदनामये ॥ ४,१६.२५ ॥
आत्मनः योग्ये पदे विदेहमुक्त्याख्ये पदे ॥ ४,१६.२५ ॥
सर्गान्तश्लोकेन शुक्रवृत्तान्तं सङ्क्षिप्य कथयति शुक्रोऽसाविति ।
शुक्रोऽसौ प्रथममिति क्रमेण जात
एतस्मात्परमपदादुदारकीर्तिः ।
स्वेनाशु स्मृतिपदविभ्रमेण पश्चाद्
एवं च प्रविलुलितो दशान्तरेषु ॥ ४,१६.२६ ॥
एतस्मात्सर्वेषामात्मत्वेन पुरो वर्तमानात् । परमपदात्चिन्मात्राख्यातुत्तमात्स्थानात् । दशान्तरेषु समङ्गातापसत्वपर्यन्तेष्ववस्थाविशेषेषु । इति शिवम् ॥ ४,१६.२६ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे षोडशः सर्गः ॥१६॥