मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः २९
← सर्गः २८ | मोक्षोपायटीका/स्थितिप्रकरणम् भास्करकण्ठः |
सर्गः ३० → |
मोक्षोपायटीका/स्थितिप्रकरणम् |
---|
युद्धमुपसंहरति
एवम्प्रायाकुलारम्भैरसुरैरसुहारिभिः ।
महासाहससंरब्धैरारब्धमरणै रणैः ॥ ४,२९.१ ॥
माययाथ विवादेन सन्धिना विग्रहेण च ।
पलायनेन धैर्येण च्छद्मनोपायनेन च ॥ ४,२९.२ ॥
कार्पण्येनास्त्रयुद्धेन स्वान्तर्धानैश्च भूरिशः ।
कृतः स समरो देवैस्त्रिंशद्वर्षाणि पञ्च च ॥ ४,२९.३ ॥
देवैः त्रिंशत्पञ्च च वर्षाणि पञ्चत्रिंशद्वर्षाणि । असुरैः सह । सः समरः कृतः । केन केन प्रकारेण कृत इत्यपेक्षायां माययेत्यादि । उपायनेन समीपगमनेन । कार्पण्येन दीनतया । स्वान्तर्धानैः मायोद्भावितैः निजगोपनैः । असुरैः कथम्भूतैः । एवम्प्रायः बाहुल्येनैतादृशः । समारम्भः येषाम् । तैः । असुहारिभिः जीवहारिभिः । महासाहसे संरब्धाः संरम्भयुक्ताः । तैः । पुनः कथम्भूतैः । रणैः कृत्वा आरब्धं मरणं यैः । ते । तादृशैः । तिलकम् ॥ ४,२९.१३ ॥
वर्षाणि दिवसान्मासान् दशाष्टौ पञ्च सप्त च ।
वर्षाणि पेतुर्वृक्षाग्निहेत्यम्ब्वशनिभूभृताम् ॥ ४,२९.४ ॥
वृक्षाग्निहेत्यम्ब्वशनिभूभृतां वर्षाणि वृष्टयः । पेतुः । कियन्तं कालम् । दश वर्षाणि । अष्टौ मासान् । पञ्च सप्त च द्वादशेति यावत् । दिवसान् । अर्थातन्यस्मिन् काले सन्ध्यादिरेवाभूतिति ज्ञेयम् ॥ ४,२९.४ ॥
एतावता तु कालेन दृढाभ्यासादहङ्कृतेः ।
दामादयोऽहमित्यास्थां जगृहुर्ग्रस्तचेतसः ॥ ४,२९.५ ॥
अहङ्कृतेः वयं योत्स्याम इत्येवंरूपस्याहङ्कारस्य । ग्रस्तमहङ्कारग्रस्तम् । चेतः येषाम् । ते । तादृशाः ॥ ४,२९.५ ॥
नैकट्यातिशयाद्यद्वद्दर्पणं बिम्बवद्भवेत् ।
अभ्यासातिशयात्तद्वत्तेऽप्यहङ्कारितां गताः ॥ ४,२९.६ ॥
नैकट्यातिशयात्सान्निध्योद्रेकात् । बिम्बवत्प्रतिबिम्बयुक्तम् ॥ ४,२९.६ ॥
यद्वद्दूरतरं वस्तु नादर्शे प्रतिबिम्बते ।
पदार्थवासना तद्वदनभ्यासान्न जायते ॥ ४,२९.७ ॥
दूरतरं बहुदूरात् । पदार्थेषु युद्धादिभावेषु । वासना मयेदं कृतमित्येवंरूपः संस्कारः ॥ ४,२९.७ ॥
यदा दामादयो जाता जाताहङ्कारवासनाः ।
तदा मे जीवितं मेऽर्थ इति दैन्यमुपागमन् ॥ ४,२९.८ ॥
यदा दामादयः दामव्यालकटाः । जाता उत्पन्ना । अहङ्कारवासना येषाम् । ते । तादृशाः । जाताः सम्पन्नाः । तदा मे जीवितं मे अर्थ इति एवंरूपम् । दैन्यं दीनताम् । उपागमनुपागताः । अहङ्काराभावे हि भित्तिरहितं ममतारूपं दैन्यं न स्यातेव । तत्सत्तायां तु प्राप्ताधारत्वेन तद्दुर्निवारमेवेति भावः ॥ ४,२९.८ ॥
भयवासनया ग्रस्ता मोहवासनया हताः ।
आशापाशनिबद्धास्ते ततः कृपणतां गताः ॥ ४,२९.९ ॥
ततः दैन्योपागमनानन्तरम् । ते दामादयः । भयस्य देहनाशशङ्काद्युत्पन्नाया भीतेः । या वासना संस्कारः । तया ग्रस्ताः वशीकृताः । तथा मोहस्य अनात्मनि शरीरादौ आत्मत्वभावनारूपस्याज्ञानस्य । या वासना । तया हताः बाधिताः । आशापाशैः स्वात्मत्वाभिमानविषयीकृतशरीराद्यर्थं धनादिविषयैः आशापाशैः । निबद्धाः स्वाधिनीकृताः । कृपणतां दैन्यस्य परां काष्ठाम् । गताः ॥ ४,२९.९ ॥
ननु ततः किं तेषां सम्पन्नमित्य् । अत्राह
मुधैव ह्यनहङ्कारैर्ममत्वमुपकल्पितम् ।
रज्ज्वां भुजङ्गत्वमिव दामव्यालकटैस्ततः ॥ ४,२९.१० ॥
हि निश्चये । अनहङ्कारैः अहङ्काररहितैः । दामव्यालकटैः । ततः अहङ्कारवशेन दैन्यगमनानन्तरम् । ममत्वं ममता । मुधा एव व्यर्थमेव । उपकल्पितं कल्पनया दृढीकृतम् । किमिव । रज्ज्वां भुजङ्गत्वमिव । अत्यन्तं मिथ्याभूतमित्यर्थः ॥ ४,२९.१० ॥
ममत्वमेव कथयति
आपादमस्तकं देहलतेयं भवतु स्थिरा ।
ममेति तृष्णाकृपणा दीनतां ते समाययुः ॥ ४,२९.११ ॥
स्पष्टम् ॥ ४,२९.११ ॥
स्थिरीभवतु मे देहः सुखायास्तु धनं मम ।
इति बद्धधियां तेषां धैर्यमन्तर्धिमाययौ ॥ ४,२९.१२ ॥
स्पष्टम् ॥ ४,२९.१२ ॥
अवासनत्वाद्वपुषामनास्थत्वात्सुरद्विषाम् ।
याभूत्प्रहारपरता मार्जितैवाशु साभवत् ॥ ४,२९.१३ ॥
सुरद्विषां दामव्यालकटानाम् । अवासनत्वात्वासनाराहित्यात् । तथा वपुषामनास्थत्वात्शरीरास्थारहितत्वात् । या प्रहारपरता अभूत्पूर्वमासीत् । सा आशु मार्जिता नष्टा । अभवत् । अहङ्कारप्रभावेन देहनाशादिभयोत्पादातित्यर्थः ॥ ४,२९.१३ ॥
कथं स्थिरा जगत्यस्मिन् भवेम इति चिन्तया ।
वेधिता दीनतां जग्मुः पद्मा इव निरम्भसः ॥ ४,२९.१४ ॥
वेधिताः व्याप्ताः ॥ ४,२९.१४ ॥
तेषां त्वर्थान्नपानेषु स्वाहङ्कृतिमतां रतिः ।
बभूव भवभावस्था भीषणा भवभागिनी ॥ ४,२९.१५ ॥
स्वा अहङ्कृतिर्देहविषयः अहङ्कारः विद्यते येषाम् । ते । तादृशाः । तेषां रतिः आसक्तिः । राग इति यावत् । भवभावस्था संसारिकपदार्थविषया । भवभागिनी संसारप्रदा ॥ ४,२९.१५ ॥
अथ तस्मिन् रणे भीत्या सापेक्षत्वमुपाययुः ।
मत्तेभगणसंरब्धा वने हरिणका इव ॥ ४,२९.१६ ॥
सापेक्षत्वं मा मरिष्याम इत्येवंरूपापेक्षासहितत्वम् । भीत्या मरणभयेन । हरिणकाः कथम्भूताः । मत्तेभानां यः गणः । तेन संरब्धाः क्षोभयुक्ताः कृताः ॥ ४,२९.१६ ॥
सापेक्षत्वमेव स्पष्टयति
मरिष्यामो मरिष्याम इति चिन्ताहताशयाः ।
मन्दं मन्दं किल भ्रेमुः कुपितैरावणे रणे ॥ ४,२९.१७ ॥
भ्रेमुः भ्रमन्ति स्म ॥ ४,२९.१७ ॥
शरीरैकार्थिनां तेषां भीतानां मरणादिति ।
अल्पसत्त्वतया मूर्ध्नि कृतमापत्प्रदं पदम् ॥ ४,२९.१८ ॥
शरीरमेकं केवलम् । अर्थयन्ते इति तादृशानाम् । तथा मरणाद्भीतानाम् । तेषां मूर्ध्नि । इति पूर्वोक्तप्रकारेण । अल्पसत्त्वतया कर्त्र्या । पदं कृतम् । अल्पसत्त्वास्ते जाता इति भावः । पदं कथम्भूतम् । आपत्प्रदं विपत्प्रदमित्यर्थः ॥ ४,२९.१८ ॥
अथ प्रम्लानसत्त्वास्ते हन्तुमग्रगतं भटम् ।
न शेकुरिन्धनक्षीणा हविर्दग्धुमिवाग्नयः ॥ ४,२९.१९ ॥
प्रम्लानसत्त्वाः नष्टधैर्याः । न शेकुः न समर्थाः जाताः । क्षीणमिन्धनं येषाम् । ते इन्धनक्षीणाः ॥ ४,२९.१९ ॥
विबुधानां प्रहरतां सुदम्यतामुपागताः ।
क्षतविक्षतसर्वाङ्गास्तस्थुः सामान्यवद्भटाः ॥ ४,२९.२० ॥
विबुधानां देवानाम् । सुदम्यतां सुनिग्राह्यताम् ॥ ४,२९.२० ॥
बहुनात्र किमुक्तेन मरणाद्भीतचेतसः ।
दैत्या देवेषु वल्गत्सु दुद्रुवुः समराजिरात् ॥ ४,२९.२१ ॥
स्पष्टम् ॥ ४,२९.२१ ॥
तेषु द्रवत्सु सर्वेषु सर्वतो दानवाद्रिषु ।
दामव्यालकटाख्येषु विख्यातेष्वसुरालये ॥ ४,२९.२२ ॥
तद्दैत्यसैन्यमपतत्खाद्विद्रुतमितस्ततः ।
कल्पान्तपवनाधूतं ताराजालमिवाभितः ॥ ४,२९.२३ ॥
स्पष्टम् ॥ ४,२९.२२२३ ॥
कुत्रापतदित्यपेक्षायामाह
अमराचलकुञ्जेषु शिखराणां शिलासु च ।
तटेषु वारिराशीनां पयोदपटलेषु च ॥ ४,२९.२४ ॥
स्पष्टम् ॥ ४,२९.२४ ॥
सागरावर्तगर्तेषु श्वभ्रेष्वथ सरित्सु च ।
जङ्गलेषु दिगन्तेषु ज्वलत्सु विपिनेषु च ॥ ४,२९.२५ ॥
स्पष्टम् ॥ ४,२९.२५ ॥
तद्रणोत्सन्नकोशेषु ग्रामेषु नगरेषु च ।
अटवीषूग्रयक्षासु मरुषूद्यद्दवाग्निषु ॥ ४,२९.२६ ॥
तेषामसुराणाम् । रणेन उत्सन्नः विशीर्णः । कोशः मध्यं येषाम् । तेषु ॥ ४,२९.२६ ॥
लोकालोकाचलान्तेषु पर्वतेषु ह्रदेषु च ।
अन्ध्रद्रमिडकाश्मीरपारसीकपुरेषु च ॥ ४,२९.२७ ॥
स्पष्टम् ॥ ४,२९.२७ ॥
नानाम्भोधितरङ्गासु गङ्गाजलघटासु च ।
द्वीपान्तरेषु दूरेषु जम्बुषण्डलतासु च ॥ ४,२९.२८ ॥
दूरेषु दूरवर्तिषु ॥ ४,२९.२८ ॥