मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः १२
← सर्गः ११ | मोक्षोपायटीका/स्थितिप्रकरणम् भास्करकण्ठः |
सर्गः १३ → |
मोक्षोपायटीका/स्थितिप्रकरणम् |
---|
सुरासुरनराकारा इमा याः संविदो मुने ।
ब्रह्मार्णवादभिन्नास्ते सत्यमेतन्मृषेतरत् ॥ ४,१२.१ ॥
एतत् । सुरासुरनराकारा याः संविदः । ब्रह्मार्णवादभिन्नत्वम् । इतरत्भिन्नत्वम् । सुरासुरनराणां प्राधान्यात्ग्रहणम् ॥ ४,१२.१ ॥
सुरासुरनराकाराः संविदः विशिनष्टि
मिथ्याभावनया ब्रह्मन् स्वविकल्पकलङ्किताः ।
न ब्रह्म वयमित्यन्तर्निश्चयेन ह्यधोगताः ॥ ४,१२.२ ॥
कलङ्कितत्वे उत्तरार्धेन हेतुं कथयति न ब्रह्मेति । हिशब्दः यस्मादर्थे ॥ ४,१२.२ ॥
ब्रह्मणो व्यतिरिक्तत्वं ब्रह्मार्णवगता अपि ।
भावयन्त्यो विमुह्यन्ति भीमासु भवभूमिषु ॥ ४,१२.३ ॥
भीमासु दुःखदायित्वेनात्यन्तभयानकासु ॥ ४,१२.३ ॥
या एताः संविदो ब्राह्म्यो मुने नैककलङ्किताः ।
एतत्तत्कर्मणां बीजमथ कर्मैव विद्धि वा ॥ ४,१२.४ ॥
एताः सुरासुरनराकारत्वेन पूर्वमुक्ताः । संविदः परामर्शाः । ब्राह्म्यः ब्रह्मसम्बन्धिन्यः । नैककलङ्किताः न एकेन प्रकारेण कलङ्किताः । बहुप्रकारेण कलङ्किता इत्यर्थः । ततेतत्ता एताः ब्राह्मीः संविदः । कर्मणां बीजं कारणम् । विद्धि । अथ वा कर्मैव विद्धि । कर्मत्वेनेष्टस्य बाह्यकर्मणः एतदनु प्रणीतत्वात् । न हि संवित्परामर्शमन्तरेण बाह्यकर्मणः उत्थानं दृष्टं युक्तं वा ॥ ४,१२.४ ॥
एतासामेव समस्तजगन्निमित्तत्वं कथयति
सङ्कल्परूपयैवान्तर्मुने कलनयैतया ।
कर्मजालकरञ्जानां बीजमुष्ट्या करालया ॥ ४,१२.५ ॥
इमा जगति विस्तीर्णे शरीरोपलपङ्क्तयः ।
तिष्ठन्ति परिवल्गन्ति रुदन्ति च हसन्ति च ॥ ४,१२.६ ॥
आब्रह्मस्तम्भपर्यन्तं स्पन्दनैः पवनो यथा ।
उल्लसन्ति नियच्छन्ति म्लायन्ति विहसन्ति च ॥ ४,१२.७ ॥
हे मुने । सङ्कल्परूपया सङ्कल्पस्वरूपया । कर्मजालकरञ्जानां बीजमुष्ट्या कर्मजालकारणभूतयेति यावत् । अत एव विकरालया भयानकया । एतया कलनया संविद्रूपया कलनया । विस्तीर्णे जगति आब्रह्मस्तम्भपर्यन्तं शरीरोपलपङ्क्तयः शरीरपाषाणपङ्क्तयः । तिष्ठन्ति परिवल्गन्ति रुदन्ति च हसन्ति उल्लसन्ति नियच्छन्ति म्लायन्ति विहसन्ति च उपलक्षणं चैतत् । सर्वाः क्रियाः कुर्वन्तीत्यर्थः । मृतशरीरेषु पूर्वोक्तक्रियाणामदर्शनात् । को यथा । पवनो यथा । यथा पवनः स्वान्तःस्थैः स्पन्दनैः नानाविधाः क्रियाः करोति । तथेत्यर्थः ॥ ४,१२.७ ॥
ता एताः काश्चिदत्यच्छा यथा हरिहरादयः ।
काश्चिदल्पविमोहस्था यथोरगनरामरा ॥ ४,१२.८ ॥
स्पष्टम् ॥ ४,१२.८ ॥
काश्चिदत्यन्तमोहस्था यथा तरुतृणादयः ।
काश्चिदज्ञानसम्मूढाः क्रिमिकीटत्वमागताः ॥ ४,१२.९ ॥
स्पष्टम् ॥ ४,१२.९ ॥
काश्चित्तृणवदुह्यन्ते दूरे ब्रह्ममहोदधेः ।
अप्राप्तभूमिका एता यथोरगनरादयः ॥ ४,१२.१० ॥
अप्राप्तभूमिकाः अप्राप्तपाराः ॥ ४,१२.१० ॥
तटमात्रं समालोक्य काश्चित्खेदमुपागताः ।
जाताजाता निखन्यन्ते कृतान्तजरदाखुना ॥ ४,१२.११ ॥
तटमात्रं समालोक्य न त्वासाद्य । तदासादने हि पुनः पुनः कृतान्तनिखननं न युक्तं स्यात् । तटश्चात्र चिन्मात्रविश्रान्तिरूपो ज्ञेयः ॥ ४,१२.११ ॥
काश्चिदन्तरमासाद्य ब्रह्मतत्त्वमहाम्बुधेः ।
गतास्तत्तामशोकाय हरिब्रह्महरादिकाः ॥ ४,१२.१२ ॥
तत्तां ब्रह्मताम् । अशोकाय शोकाभावाय ॥ ४,१२.१२ ॥
अल्पमोहान्विताः काश्चित्तमेव ब्रह्मवारिधिम् ।
अदृष्टरागरोगौघमवलम्ब्य व्यवस्थिताः ॥ ४,१२.१३ ॥
अवलम्ब्य स्वात्मत्वेनाश्रित्य । काश्चित्जीवन्मुक्तरूपा इत्यर्थः ॥ ४,१२.१३ ॥
काश्चिद्भोक्तव्यजन्मौघा भुक्तजन्मौघकोटयः ।
वन्ध्याः प्रकाशतामस्यः संस्थिता भूतजातयः ॥ ४,१२.१४ ॥
प्रकाशतामस्यः प्रकृष्टतमसो गूणयुक्तः । अत एव वन्ध्या सम्यग्ज्ञानाख्यफलरहिताः ॥ ४,१२.१४ ॥
काश्चिदूर्ध्वादधो यान्ति तथाधस्तान्महत्पदम् ।
ऊर्ध्वादूर्ध्वतरं काश्चिदधस्तात्काश्चिदप्यधः ॥ ४,१२.१५ ॥
अधः पशुयोनिं नरकं वा । महत्पदं मानुष्यं स्वर्गं वा ॥ ४,१२.१५ ॥
सर्गान्तश्लोकेन सिद्धान्तं कथयति
बहुसुखदुःखकसङ्कटा क्रियेयम्
परमपदास्मरणात्समागतेह ।
परमपदावगमात्प्रयाति नाशं
विहगपतिस्मरणाद्विषव्यथेव ॥ ४,१२.१६ ॥
विहगपतेः गारुडिकमन्त्रदेवतारूपस्य गरुडस्येति शिवम् ॥ ४,१२.१६ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे द्वादशः सर्गः ॥१२॥