← सर्गः १४ मोक्षोपायटीका/स्थितिप्रकरणम्
भास्करकण्ठः
सर्गः १६ →
मोक्षोपायटीका/स्थितिप्रकरणम्



ओम् । श्रीवसिष्ठः श्रीरामं प्रत्याह

विचारयन्तस्तत्त्वज्ञा इति ते जागतीर्गतीः ।

समङ्गायास्तटात्तस्मात्प्रचेलुश्चञ्चलांशवः ॥ ४,१५.१ ॥

जागतीः जगत्सम्बन्धिनीः । गतीः रचनाः ॥ ४,१५.१ ॥

 

 

 

क्रमादाकाशमाक्रम्य निर्गत्याम्बुदकोटरैः ।

सम्प्रापुः सिद्धमार्गेण मन्दरं हेमकन्दरम् ॥ ४,१५.२ ॥

कोटरैरिति । कोटरेभ्यः इत्यस्यार्थे ॥ ४,१५.२ ॥

 

 

 

अधित्यकायां तस्याद्रेरार्द्रपर्णावगुण्ठिताम् ।

ददर्श भार्गवः शुष्कां पूर्वजन्मोद्भवां तनुम् ॥ ४,१५.३ ॥

स्पष्टम् ॥ ४,१५.३ ॥

 

 

 

उवाच चेदं हे तात तन्वी तनुरियं हि सा ।

या त्वया सुखसम्भोगैः पुरा समभिलालिता ॥ ४,१५.४ ॥

स्पष्टम् ॥ ४,१५.४ ॥

 

 

 

इयं सा मत्तनुर्यस्या मन्दारकुसुमोत्करैः ।

रचिताः शीतलाः शय्या मेरूपवनभूमिषु ॥ ४,१५.५ ॥

सा इति । न त्वन्या ॥ ४,१५.५ ॥

 

 

 

इयं सा मत्तनुर्मत्तदेवस्त्रीगणलालिता ।

सरीसृपमुखक्षुण्णा पश्य शेते धरातले ॥ ४,१५.६ ॥

स्पष्टम् ॥ ४,१५.६ ॥

 

 

 

नन्दनोद्यानषण्डेषु मम तन्वा ययानया ।

चिरं विलसितं सेयं शुष्ककङ्कालतां गता ॥ ४,१५.७ ॥

विलसितमिति भावे क्तः ॥ ४,१५.७ ॥

 

 

 

सुराङ्गनाङ्गसंसङ्गादुत्तुङ्गानङ्गरङ्गया ।

चेतोवृत्त्या रहितया तन्वेह मम शुष्यते ॥ ४,१५.८ ॥

शुष्यते भावे लकारः ॥ ४,१५.८ ॥

 

 

 

तेषु तेषु विलासेषु तासु तासु दशासु च ।

तथा ता भावना बद्ध्वा कथं स्वस्थोऽसि देहक ॥ ४,१५.९ ॥

ताः भावनाः सुरस्त्रीविषयाः । स्वस्थोऽसि चञ्चलतारहितत्वात् । अनुकम्पितो देहः देहकः । तस्यामन्त्रणं देहकेति ॥ ४,१५.९ ॥

 

 

 

हा तनो क्वावभग्नासि तापसंशोषमागता ।

करङ्कतां प्रयातासि मां भावयसि दुर्भगे ॥ ४,१५.१० ॥

करङ्कतां कङ्कलताम् । हे दुर्भगे तनो । त्वं मां भावयसि किं स्मरसि । अतिस्नेहाकुलत्वादियमुक्तिः ॥ ४,१५.१० ॥

 

 

 

देहेनाहं विलासेषु येनैव मुदितोऽभवम् ।

कङ्कलतामुपगतात्तस्मादेव बिभेम्यहम् ॥ ४,१५.११ ॥

येन देहेनाहं विलासेषु मुदितः अभवम् । कङ्कलतामुपगतात्तस्मादेव देहात् । अहं बिभेमि ॥ ४,१५.११ ॥

 

 

 

ताराजालसमाकारो यत्र हारोऽभवत्पुरा ।

ममोरसि निलीयन्ते पश्य तत्र पिपीलकाः ॥ ४,१५.१२ ॥

निलीयन्ते लगन्ति ॥ ४,१५.१२ ॥

 

 

 

द्रवत्काञ्चनकान्तेन लोभं नीता वराङ्गनाः ।

येन मद्वपुषा तेन पश्य कङ्कलतोह्यते ॥ ४,१५.१३ ॥

उह्यते धार्यते ॥ ४,१५.१३ ॥

 

 

 

पश्य मे विततास्येन तापसंशुष्ककृत्तिना ।

मत्कङ्कालकुवक्त्रेण वित्रास्यन्ते वने मृगाः ॥ ४,१५.१४ ॥

वित्रास्यन्ते विकारयुक्तत्वेन त्रासयुक्ताः क्रियन्ते ॥ ४,१५.१४ ॥

 

 

 

पश्यातिसंशुष्कतया शवोदरदरी मम ।

प्रकाशार्कांशुजालेन विवेकेनेव शोभते ॥ ४,१५.१५ ॥

शवोदरं मृतशरीरोदरमेव दरी ॥ ४,१५.१५ ॥

 

 

 

मत्तनुः परिशुष्केयं स्थितोत्ताना वनावनौ ।

वैराग्यं नयतीवात्मतुच्छत्वेनाम्बरस्थितान् ॥ ४,१५.१६ ॥

अम्बरस्थितान् देवान् ॥ ४,१५.१६ ॥

 

 

 

शब्दरूपरसस्पर्शगन्धलोभविमुक्तया ।

निर्विकल्पसमाध्येव मम तन्वोष्यते गिरौ ॥ ४,१५.१७ ॥

मम तन्वा कथम्भूतया । निर्विकल्पे विकल्पनिष्क्रान्ते चिन्मात्रे । समाधिः यस्याः । सा । तादृश्या ॥ ४,१५.१७ ॥

 

 

 

संशान्ते चित्तवेताले यामानन्दकलां तनुः ।

याति तामपि राज्येन जागतेन न गच्छति ॥ ४,१५.१८ ॥

जागतेन जगत्सम्बन्धिना ॥ ४,१५.१८ ॥

 

 

 

पश्य विश्रान्तसर्वेहं विगताशेषकौतुकम् ।

निरस्तकल्पनाजालं सुखं शेते कलेवरम् ॥ ४,१५.१९ ॥

स्पष्टम् ॥ ४,१५.१९ ॥

 

 

 

चित्तमर्कटसंरम्भसङ्क्षुब्धः कायपादपः ।

तथा वेगेन चलति यथा मूलानि कृन्तति ॥ ४,१५.२० ॥

मूलकृन्तनं व्यावहारिकक्षोभरूपं ज्ञेयम् ॥ ४,१५.२० ॥

 

 

 

चित्तानर्थविमुक्तोऽसौ गजाभ्रहरिविभ्रमम् ।

नायं पश्यति मे देहः परानन्द इव स्थितः ॥ ४,१५.२१ ॥

गजाभ्रहरीणां गजमेघसिंहानाम् । विभ्रमं विलासम् । चाञ्चल्यमिति यावत् । न पश्यति नानुभवति ॥ ४,१५.२१ ॥

 

 

 

सर्वाशाज्वरसम्मोहमिहिकाशरदागमम् ।

अचित्तत्वं विना नान्यच्छ्रेयः पश्यामि जन्तुषु ॥ ४,१५.२२ ॥

स्पष्टम् ॥ ४,१५.२२ ॥

 

 

 

त एव सुखसम्भोगसीमान्तं समुपागताः ।

महाधियः शान्तधियो ये याता विमनस्कताम् ॥ ४,१५.२३ ॥

स्पष्टम् ॥ ४,१५.२३ ॥

 

 

 

सर्वदुःखदशामुक्तां संशान्तां विगतज्वराम् ।

दिष्ट्या पश्याम्यमननां वने तनुमिमामहम् ॥ ४,१५.२४ ॥

स्पष्टम् ॥ ४,१५.२४ ॥

 

 

 

अत्र श्रीरामः पृच्छति

भगवन् सर्वधर्मज्ञ भार्गवेण तदा किल ।

सुबहून्युपभुक्तानि शरीराणि पुनः पुनः ॥ ४,१५.२५ ॥

भृगुणोत्पादिते काये तत्तस्मिंस्तस्य किं मुने ।

महानतिशयो जातः परिदेवनमेव वा ॥ ४,१५.२६ ॥

अतिशयः अतिशयज्ञानम् ॥ ४,१५.२५२६ ॥

 

 

 

श्रीवसिष्ठ उत्तरं कथयति

शुक्रस्य कलना राम यासौ जीवदशां गता ।

कर्मात्मिका समुत्पन्ना भृगोर्भार्गवरूपिणी ॥ ४,१५.२७ ॥

कलना शुक्रजीवप्रादुर्भावकारी सम्विदाख्यः स्पन्दः । शुक्रस्य जीवदशां शुक्रसम्बन्धिजीवावस्थाम् । भृगोरिति पञ्चमी । सेति शेषः ॥ ४,१५.२७ ॥

 

 

 

सा हीदम्प्रथमत्वेन समेत्य परमात्पदात् ।

भूताकाशपदं प्राप्य वातव्यावलिता सती ॥ ४,१५.२८ ॥

प्राणापानप्रवाहेण प्रविश्य हृदयं भृगोः ।

क्रमेण वीर्यतामेत्य सम्पन्नौशनसी तनुः ॥ ४,१५.२९ ॥

इदम्प्रथमत्वेन तत्पूर्वत्वेन । समेत्य सम्यकुत्थाय । औशनसी तनुः शुक्रशरीररूपा । युग्मम् ॥ ४,१५.२८२९॥

 

 

 

विहितब्राह्मसंस्कारा ततः सा पितुरग्रगा ।

कालेन महता प्राप्ता शुष्ककङ्कालरूपताम् ॥ ४,१५.३० ॥

स्पष्टम् ॥ ४,१५.३० ॥

 

 

 

इदम्प्रथममायाता यदा सा ब्रह्मणस्तनुः ।

अतस्तां प्रति शुक्रेण तदा तत्परिदेवितम् ॥ ४,१५.३१ ॥

इदम्प्रथमं तत्पूर्वम् । तत्परिदेवितं तादृशं परिदेवनं कृतम् ॥ ४,१५.३१ ॥

 

 

 

वीतरागोऽप्यनिच्छोऽपि समङ्गाविप्ररूपवान् ।

स्वां शुशोच तनुं शुक्रः स्वभावो ह्येष देहजः ॥ ४,१५.३२ ॥

स्पष्टम् ॥ ४,१५.३२ ॥

 

 

 

किं तु प्रदर्शितं तेन शोकव्याजेन धीमताम् ।

वैराग्यप्रतिपत्त्यै तत्पृथक्त्वं देहदेहिनोः ॥ ४,१५.३३ ॥

किं त्विति पक्षान्तरे । तथा च परोपकारार्थमेव शुक्रेण परिदेवनं कृतमिति भावः ॥ ४,१५.३३ ॥

 

 

 

ज्ञस्याज्ञस्य च देहस्य यावज्जीवमयं क्रमः ।

लोकवद्व्यवहारो यत्सक्त्यासक्त्याथ वा सदा ॥ ४,१५.३४ ॥

अथ वा पक्षान्तरे । देहस्य व्यवहारः इति सम्बन्धः । यद्वा लक्षणया । देहस्य देहिन इत्यर्थः । तथा च ज्ञस्य देहस्याज्ञस्य वा देहस्येत्यर्थः । ज्ञस्यासक्त्या अज्ञस्य सक्त्येति क्रमो ज्ञेयः ॥ ४,१५.३४ ॥

 

 

 

ये परिज्ञातगतयो ये चाज्ञाः पशुधर्मिणः ।

लोकसंव्यवहारेषु ते स्थिता वनजालवत् ॥ ४,१५.३५ ॥

वनजालं स्थितत्वमात्रे उपमानं ज्ञेयम् ॥ ४,१५.३५ ॥

 

 

 

व्यवहारी यथैवाज्ञस्तथैव किल पण्डितः ।

वासनामात्रभेदोऽत्र कारणं बन्धमोक्षयोः ॥ ४,१५.३६ ॥

वासनामात्रभेदः शुद्धत्वाशुद्धत्वेन ज्ञेयः ॥ ४,१५.३६ ॥

 

 

 

यावच्छरीरं तावद्धि दुःखे दुःखं सुखे सुखम् ।

असंसक्तधियो धीरा दर्शयन्त्यप्रबुद्धवत् ॥ ४,१५.३७ ॥

दर्शयन्ति अन्यान् प्रति दर्शयन्ति । न तु स्वयं पश्यन्ति ॥ ४,१५.३७ ॥

 

 

 

सुखेषु सुखिता नित्यं दुःखिता दुःखवृत्तिषु ।

महात्मानो हि दृश्यन्ते नूनमन्तस्तु शीतलाः ॥ ४,१५.३८ ॥

शीतलाः सुखदुःखकृतक्षोभरहिताः ॥ ४,१५.३८ ॥

 

 

 

स्तम्भस्य प्रतिबिम्बानि क्षुभ्यन्ति न वपुः स्थिरम् ।

ज्ञस्य कर्मेन्द्रियाण्येव क्षुभ्यन्ति न मनः स्थिरम् ॥ ४,१५.३९ ॥

स्थिरं वपुः दृढं स्तम्भाख्यं स्वरूपम् । क्षुभ्यन्तीत्यन्तर्गतणिच् । कौ प्रयोगौ । ते न क्षोभयन्तीत्यर्थः । कर्मेन्द्रियाण्युपलब्ध्याख्यकर्मकारीणि ज्ञानेन्द्रियाणीत्यर्थः ॥ ४,१५.३९ ॥

 

 

 

चलाचलतया तज्ज्ञो लोकवृत्तिषु तिष्ठति ।

अधःस्थितिरिव स्वच्छं प्रतिबिम्बेषु भास्करः ॥ ४,१५.४० ॥

चलाचलतया अत्यन्तचाञ्चल्येन । भास्करः कथम्भूतः । अधः अधोदेशे । स्थितिः अवस्थानं यस्य । सः ॥ ४,१५.४० ॥

 

 

 

सन्त्यक्तलोककर्मापि बद्ध एवाप्रबुद्धधीः ।

अत्यक्तमोहलीलोऽपि मुक्त एव प्रबुद्धधीः ॥ ४,१५.४१ ॥

प्रबुद्धधीत्वाप्रबुद्धधीत्वयोरेवात्र बन्धमोक्षौ प्रति कारणत्वमिति भावः ॥ ४,१५.४१ ॥

 

 

 

मुक्तबुद्धीन्द्रियो मुक्तो बद्धकर्मेन्द्रियोऽपि हि ।

बद्धबुद्धीन्द्रियो बद्धो मुक्तकर्मेन्द्रियोऽपि हि ॥ ४,१५.४२ ॥

हिशब्दः प्रसिद्धौ ॥ ४,१५.४२ ॥

 

 

 

सुखदुःखदृशोर्लोके बन्धमोक्षदृशोस्तथा ।

हेतुर्बुद्धीन्द्रियाण्येव तेजांसीव प्रकाशने ॥ ४,१५.४३ ॥

प्रकाशने अर्थप्रकटताकरणे ॥ ४,१५.४३ ॥

 

 

 

बहिर्लोकोचिताचारस्त्वन्तराचारवर्जितः ।

समोऽसन्निव तिष्ठ त्वं संशान्तसकलैषणः ॥ ४,१५.४४ ॥

अन्तः मनसि ॥ ४,१५.४४ ॥

 

 

 

सर्वैषणाविमुक्तेन स्वात्मनात्मनि तिष्ठता ।

कुरु कर्माणि कार्याणि नूनं सामनसि स्थितिः ॥ ४,१५.४५ ॥

हे राम । त्वम् । सर्वैषणाविमुक्तेन । अत एव आत्मनि न तु अनात्मरूपेषु विषयेषु । तिष्ठता आत्मना मनसा । कार्याणि नियतानि । कर्माणि कुरु । नूनं निश्चयेन । सा अमनसि स्थितिः मनसि स्थितिः न भवति ॥ ४,१५.४५ ॥

 

 

 

आधिव्याधिमहावर्ते गर्ते संसारवर्त्मनि ।

ममतोग्रान्धकूपेऽस्मिन्मा पतातपदायिनि ॥ ४,१५.४६ ॥

ममतोग्रान्धकूपे कथम्भूते । संसारवर्त्मनि संसाररूपे मार्गे । गर्ते गर्ततया स्थिते ॥ ४,१५.४६ ॥

 

 

 

न त्वं भावेषु नो भावास्त्वयि तामरसेक्षण ।

शुद्धबुद्धस्वभावस्त्वमात्मसंस्थः स्थिरो भव ॥ ४,१५.४७ ॥

त्वं साक्षिभूतशुद्धचिन्मात्ररूपः त्वम् । आत्मसंस्थः शुद्धबुद्धस्वभावस्वात्मपरः । न तु देहादिपरः ॥ ४,१५.४७ ॥

 

 

 

सर्गान्तश्लोकेनोत्तरं समापयति

व्यपगतममतामहान्धकारम्

पदममलं विगतैषणं समेत्य ।

प्रभवसि यदि चेतसो महात्मंस्

तदतिधिये महते सते नमस्ते ॥ ४,१५.४८ ॥

व्यपगतं ममतारूपं महान्धकारं यस्य । तत् । तादृशम् । अत एवामलं विगतैषणं तृप्ततया समस्ताकाङ्क्षारहितम् । पदं चिन्मात्राख्यं पदम् । समेत्य स्वात्मत्वेन विभाव्य । यदि चेतसः प्रभवसि चेतः जेतुं समर्थो भवसि । हे महात्मन् । तत्तदा । ते तुभ्यम् । नमः अस्तु । कथम्भूताय । अतिधिये उत्कृष्टबुद्धये । महते महत्त्वयुक्ताय । सते सन्मात्रस्वरूपाय । इति शिवम् ॥ ४,१५.४८ ॥

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे पञ्चदशः सर्गः ॥१५॥