मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः ९
← सर्गः ८ | मोक्षोपायटीका/स्थितिप्रकरणम् भास्करकण्ठः |
सर्गः १० → |
मोक्षोपायटीका/स्थितिप्रकरणम् |
---|
इति चिन्तयतस्तस्य शुक्रस्य पितुरग्रतः ।
जगामातितरां कालो बहुसंवत्सरात्मकः ॥ ४,९.१ ॥
स्पष्टम् ॥ ४,९.१ ॥
अथ कालेन महता पवनातपजर्जरः ।
कायस्तस्य पपातोर्व्यां छिन्नमूल इव द्रुमः ॥ ४,९.२ ॥
स्पष्टम् ॥ ४,९.२ ॥
मनस्तु चञ्चलाभोगं तासु तासु दशासु च ।
बभ्रामातिविचित्रासु वनराजिष्विवैणकः ॥ ४,९.३ ॥
स्पष्टम् ॥ ४,९.३ ॥
भ्रान्तमुद्भ्रान्तमभितश्चक्रार्पितमिवाकुलम् ।
मनस्तस्य विशश्राम समङ्गासरितस्तटे ॥ ४,९.४ ॥
चक्रार्पितो हि उद्भ्रमति ॥ ४,९.४ ॥
अनन्तवृत्तान्तघनां पेलवां सुदृढामपि ।
तां संसृतिदशां शुक्रो विदेहोऽनुभवन् स्थितः ॥ ४,९.५ ॥
तां संसृतिदशां समङ्गातटतापससम्बन्धिनीं संसारदशाम् । विदेहः स्थूलदेहरहितः ॥ ४,९.५ ॥
मन्दराचलसानुस्था सा तनुस्तस्य धीमतः ।
तापप्रसरसंशुष्का चर्मशेषा बभूव ह ॥ ४,९.६ ॥
स्पष्टम् ॥ ४,९.६ ॥
शारीररन्ध्रप्रवहद्वातशीत्काररूपया ।
चेष्टादुःखक्षयानन्दात्काकल्येव स्म गायति ॥ ४,९.७ ॥
तस्य सा तनुः । चेष्टाया यत्दुःखं पीडा । तस्य क्षयात्य आनन्दः । ततः हेतोः । काकल्या कलसूक्ष्मया गानवाचा । गायति स्म इव । कथम्भूतया । शारीररन्ध्रेषु प्रवहन् यः वातः । तेन शीत्कारः ध्वनिविशेषः । स एव रूपं यस्याः । तादृश्या ॥ ४,९.७ ॥
प्राणानुस्मरणोच्छ्वासमिव वाष्पं स्म मुञ्चति ।
चण्डानिलविलासेन लुलित्वा वनभूमिषु ॥ ४,९.८ ॥
वाष्पं कथम्भूतम् । प्राणाणां पूर्वं स्थितानां यदनुस्मरणमनुक्षणं स्मरणम् । तेन उच्छ्वासः वृद्धिः यस्य । तत् । वाष्पत्वं चात्रावश्यायस्य ज्ञेयम् ॥ ४,९.८ ॥
तनुमेव विशिनष्टि
मनोवराकमवटे लुठितं भवभूमिषु ।
हसन्तीवातिशुभ्राभ्रसितया दन्तमालया ॥ ४,९.९ ॥
भवभूमिषु स्थिते अवटे अप्सरोरूपे अवटे ॥ ४,९.९ ॥
दर्शयन्ती स्वकं शून्यं वपुरक्ष्णोरकृत्रिमम् ।
मुखारण्यजरत्कूपरूपया गर्तशोभया ॥ ४,९.१० ॥
पुनः कथम्भूता । अक्ष्णोः स्वस्याक्षियुगलस्य । मुखमेवारण्यम् । तस्य जरत्कूपतया गर्तशोभया । तद्व्याजेनेति यावत् । स्वं वपुः शून्यं दर्शयन्ती । शून्या एवाहमस्मीति दर्शयन्तीति यावत् । मृतशरीरस्य च मुखे मांसशेषात्गर्तो जायते ॥ ४,९.१० ॥
तापोपतप्ता संसिक्ता वर्षाजलभरेण सा ।
पांसुना पवनोत्थेन दुष्कृतेनेव रूषिता ॥ ४,९.११ ॥
सा इति तनूपरामर्शः ॥ ४,९.११ ॥
शुष्ककाष्ठवदालोला पातेषु कृतझाङ्कृता ।
धारानिकरपातेन विनुन्ना जलदागमे ॥ ४,९.१२ ॥
विनुन्ना प्रेरिता । चालितेति यावत् ॥ ४,९.१२ ॥
प्रावृड्निर्झरपूरेण प्लुता गिरिनदीतटे ।
तारमारुतशीत्कारा वनोपल इव स्थिता ॥ ४,९.१३ ॥
तारः मारुतशीत्कारः यस्यां सा । वनोपल इव वनोपलवत् । स्थिता ॥ ४,९.१३ ॥
वक्रा शुष्कान्त्रतन्त्री च पूता झाङ्कारकारिणी ।
अरण्यलक्ष्मीवीणेव शून्यचर्ममयोदरी ॥ ४,९.१४ ॥
अरण्यलक्ष्म्याः वीणा अरण्यलक्ष्मीवीणा । सा इव ॥ ४,९.१४ ॥
ननु तादृशी तस्य तनुः वनहिंस्रैः कथं न भुक्तेत्य् । अत्राह
रागद्वेषविहीनत्वात्तस्य पुण्याश्रमस्य तु ।
महातपस्त्वाच्च भृगोर्न भुक्ता मृगपक्षिभिः ॥ ४,९.१५ ॥
पुण्याश्रमस्य च रागद्वेषविहीनत्वं तत्रस्थप्राणिरागद्वेषविहीनत्वेन ज्ञेयम् ॥ ४,९.१५ ॥
सर्गान्तश्लोकेनाप्येतदेव कथयति
यमनियमकृशीकृताङ्गयष्टेश्
चरति तपः स्म भृगूद्वहस्य चेतः ।
तनुरथ पवनापनीतरक्ता
चिरमलुठन्महतीषु सा शिलासु ॥ ४,९.१६ ॥
यमनियमकृशीकृताङ्गयष्टेः भृगूद्वहस्य शुक्रस्य । चेतः तपः चरति स्म । अथ सा तनुः पवनापनीतरक्ता सती महतीषु शिलासु अलुठत्लुठितवती । इति शिवम् ॥ ४,९.१६ ॥
इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे नवमः सर्गः ॥९॥