लिङ्गपुराणम् - पूर्वभागः/अध्यायः ६
सूत उवाच
पवमानः पावकश्च शुचिरग्निश्च ते स्मृताः।।
निर्मर्थ्यः पवमानस्तु वैद्युतः पावकः स्मृतः।। ६.१ ।।
शुचिः सौरस्तु विज्ञेयः स्वाहापुत्रास्त्रयस्तु ते।।
पुत्रैः पौत्रैस्त्विहैतेषां संख्या संक्षेपतः स्मृता।। ६.२ ।।
विसृज्य सप्तकं चादौ चत्वारिशन्नवैव च।।
इत्येते वह्नयः प्रोक्ताः प्रणीयंतेऽध्वरेषु च।। ६.३ ।।
सर्वे तपस्विनस्त्वेते सर्वे व्रतभृतः स्मृताः।।
प्रजानां पतयः सर्वे सर्वे रुद्रात्मकाः स्मृताः।। ६.४ ।।
अयज्वानश्च यज्वानः पितरः प्रीतिमानसाः।।
आग्निष्वात्ताश्च यज्वानः शेषा बर्हिषदः स्मृताः।। ६.५ ।।
मेनां तु मानसीं तेषां जनयामास वै स्वधा।।
आग्निष्वात्तात्मजा मेना मानसी लोकविश्रुता।। ६.६ ।।
असूत मेना मैनाकं क्रौंचं तस्यानुजामुमाम्।।
गंगां हैमवतीं जज्ञे भवांगाश्लेषपावनीम्।। ६.७ ।।
धरणीं जनयामास मानसीं यज्ञयाजिनीम्।।
स्वधा सा मेरुराजस्य पत्नी पद्मसमानना।। ६.८ ।।
पितरोऽमृतपाः प्रोक्तास्तेषां चैवेह विस्तरः।।
ऋषीणां च कुलं सर्वं श्रृणुध्वं तत्सुविस्तरम्।। ६.९ ।।
वदामि पृथगध्यायसंस्थितं वस्तदूर्ध्वतः।।
दाक्षायणी सती याता पार्श्वं रुद्रस्य पार्वती।। ६.१० ।।
पश्चाद्दक्षं विनिंद्यैषा पतिं लेभे भवं तथा।।
तां ध्यात्वा व्यसृजद्रुद्राननेकान्नीललोहितः।। ६.११ ।।
आत्मनस्तु समान्सर्वान्सर्वलोकनमस्कृतान्।।
याचितो मुनिशार्दूला ब्रह्मणा प्रहसन् क्षणात्।। ६.१२ ।।
तैस्तु संच्छादितं सर्वं चतुर्दशविधं जगत्।।
तान्दृष्ट्वा विविधान्रुद्रान्निर्मलान्नीललोहितान्।। ६.१३ ।।
जरामरणनिर्मुक्तान् प्राह रुद्रान्पितामहः।।
नमोऽस्तु वो महादेवास्त्रिनेत्रा नील लोहिताः।। ६.१४ ।।
सर्वज्ञाः सर्वगा दीर्घा ह्रस्वा वामनकाः शुभाः।।
हिरण्यकेशा दृष्टिघ्ना नित्या बुद्धाश्च निर्मलाः।। ६.१५ ।।
निर्द्वंद्वावतिरागाश्च विश्वात्मानो भवात्मजाः।।
एवं स्तुत्वा तदा रुद्रान्रुद्रं चाह भवं शिवम्।।
प्रदक्षिणीकृत्य तदा भगवान्कनकांडजः।। ६.१६ ।।
नमोऽस्तु ते महादेव प्रजा नार्हसि शंकर।।
मृत्युहीना विभो स्रष्टुं मृत्युयुक्ताः सृज प्रभो।। ६.१७ ।।
ततस्तमाह भगवान्न हि मे तादृशी स्थितिः।।
स त्वं सृज यथाकामं मृत्युयुक्ताः प्रजाः प्रभो।। ६.१८ ।।
लब्ध्वा ससर्ज सकलं शंकराच्चतुराननः।।
जरामरणसंयुक्तं जगदेतच्चराचरम्।। ६.१९ ।।
शंकरोऽपि तदा रुद्रौर्निवृत्तात्मा ह्यधिष्ठितः।।
स्थाणुत्वं तस्य वै विप्राः शंकरस्य महात्मनः।। ६.२० ।।
निष्कलस्यात्मनः शंभोः स्वेच्छाधृतशरीरिणः।।
शं रुद्रः सर्वभूतानां करोति घृणया यतः।। ६.२१ ।।
शंकरश्चाप्रयत्नेन तदात्मा योग विद्यया।।
वैराग्यस्थं विरक्तस्य विमुक्तिर्यच्छमुच्यते।। ६.२२ ।।
अणोस्तु विषयत्यागः संसारभयतः क्रमात्।।
वैराग्याज्जायते पुंसो विरागो दर्शनांतरे।। ६.२३ ।।
विमिख्यो विगुणत्यागो विज्ञानस्याविचारतः।।
तस्य चास्य च संधानं प्रसादात्परमेष्ठिनः।। ६.२४ ।।
धर्मो ज्ञानं च वैराग्यमैश्वर्यं शंकरादिह।।
स एव शंकरः साक्षात्पिनाकी नीललोहितः।। ६.२५ ।।
ये शंकराश्रिताः सर्वे मुच्यंते ते न संशयः।।
न गच्छंत्येव नरकं पापिष्ठा अपि दारुणम्।। ६.२६ ।।
आश्रिताः शंकरं तस्मात्प्राप्नुवंति च शश्वतम्।।
ऋषय ऊचुः।।
मायान्ताश्चैव घोराद्या ह्यष्टाविंशतिरेव च।। ६.२७ ।।
कोटयो नरकाणां तु पच्यंते तासु पापिनः।।
अनाश्रिताः शिवं रुद्रां शंकरं नीललोहितम्।। ६.२८ ।।
आश्रयं सर्वभूतानामव्ययं जगतां पतिम्।।
पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम्।। ६.२९ ।।
तमसा कालरुद्राख्यं रजसा कनकांडजम्।।
सत्त्वेन सर्वगं विष्णुं निगुर्णत्वे महेश्वरम्।। ६.३० ।।
केन गच्छंति नरकं नराः केन महामते।।
कर्मणाकर्मणा वापि श्रोतुं कौतूहलं हि नः।। ६.३१ ।।
इति श्रीलिङ्गमहापुराणे पूर्वभागे षष्ठोऽध्यायः।। ६ ।।