ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ११
← उत्तरभागः, अध्यायः १० | ब्रह्माण्डपुराणम् अध्यायः ११ [[लेखकः :|]] |
उत्तरभागः, अध्यायः १२ → |
अगस्त्य उवाच
कथं भण्डासुरो जातः कथं वा त्रिपुरांबिका ।
कथं बभञ्ज तं संख्ये तत्सर्वं वद विस्तरात् ॥ ३,११.१ ॥
हयग्रीव उवाच
पुरा दाक्षायणीं त्यक्त्वा पितुर्यज्ञविनाशनम् ॥ ३,११.२ ॥
आत्मानमात्मना पश्यञ्ज्ञानानन्दरसात्मकः ।
उपास्यमानो मुनिभिरद्वन्द्वगुणलक्षणः ॥ ३,११.३ ॥
गङ्गाकूले हिमवतः पर्यन्ते प्रविवेश ह ।
सापि शङ्करमा राध्य चिरकालं मनस्विनी ॥ ३,११.४ ॥
योगेन स्वां तनुं त्यक्त्वा सुतासीद्धिमभूभृतः ॥ ३,११.५ ॥
स शैलो नारदाच्छ्रुत्वा रुद्राणीति स्वकन्याकाम् ।
तस्य शुश्रूषणार्थाय स्थापयामास चान्तिके ॥ ३,११.६ ॥
एतस्मिन्नन्तरे देवास्तारकेण हि पीडिताः ।
ब्रह्मणोक्ताः समाहूय मदनं चेदमब्रुवन् ॥ ३,११.७ ॥
सर्गादौ भगवान्ब्रह्म सृजमानोऽखिलाः प्रजाः ।
न निर्वृतिरभूत्तस्य कदाचिदपि मानसे ।
तपश्चचार सुचिरं मनोवाक्कायकर्मभिः ॥ ३,११.८ ॥
ततः प्रसन्नो भगवान्सलक्ष्मीको जनार्दनः ।
वरेण च्छन्दयामास वरदः सर्वदेहिनाम् ॥ ३,११.९ ॥
ब्रह्मोवाच ।
यदि तुष्टोऽसि भगवन्ननायासेन वै जगत् ।
चराचरयुतं चैतत्सृजामि त्वत्प्रसादतः ॥ ३,११.१० ॥
एवमुक्तो विधात्रा तु महाल क्ष्मीमुदैक्षत ।
तदा प्रादुरभूस्त्वं हि जगन्मोहनरूपधृक् ॥ ३,११.११ ॥
तवायुधार्थं दत्तं च पुष्पबाणेक्षुकार्मुकम् ।
विजयत्वमजेयत्वं प्रादा त्प्रमुदितो हरिः ॥ ३,११.१२ ॥
असौ सृजति भूतानि कारणेन स्वकर्मणा ।
साक्षिभूतः स्वजनतो भवान्भजतु निर्वृन्तिम् ॥ ३,११.१३ ॥
एष दत्तवरो ब्रह्मा त्वयि विन्यस्य तद्भरम् ।
मनसो निर्वृतिं प्राप्य वर्ततेऽद्यापि मन्मथ ॥ ३,११.१४ ॥
अमोघं बलवीर्यं ते न ते मोघः पराक्रमः ॥ ३,११.१५ ॥
सुकुमाराण्यमोघानि कुसुमास्त्राणि ते सदा ।
ब्रह्मदत्तवरोऽयं हि तारको नाम दानवः ॥ ३,११.१६ ॥
बाधते सकलांल्लोकानस्मानपि विशेषतः ।
शिवपुत्रादृतेऽन्यत्र न भयं तस्य विद्यते ॥ ३,११.१७ ॥
त्वां विनास्मिन्महाकार्ये न कश्चित्प्रवदेदपि ।
स्वकराच्च भवेत्कार्यं भवतो नान्यतः क्वचित् ॥ ३,११.१८ ॥
आत्म्यैक्यधयाननिरतः शिवो गौर्या समन्वितः ।
हिमाचलतले रम्ये वर्तते मुनिभिर्वृतः ॥ ३,११.१९ ॥
तं नियोजय गौर्यां तु जनिष्यति च तत्सुतः ।
ईषत्कार्यमिदं कृत्वा त्रायस्वास्मान्महाबल ॥ ३,११.२० ॥
एवमभ्यर्थितो देवैः स्तूयमानो मुहुर्मुहुः ।
जगामात्मविनाशाय यतो हिमवतस्तटम् ॥ ३,११.२१ ॥
किमप्याराधयान्तं तु ध्यानसंमीलितेक्षणम् ।
ददर्शेशानमासीनं कुसुमषुरुदायुधः ॥ ३,११.२२ ॥
एतस्मिन्नन्तरे तत्र हिमवत्तनया शिवम् ।
आरिराधयिषुश्चा गाद्बिभ्राणा रूपमद्भुतम् ॥ ३,११.२३ ॥
समेत्य शम्भुं गिरिजां गन्धपुष्पोपहारकैः ।
शुश्रूषणपरां तत्र ददर्शातिबलः स्मरः ॥ ३,११.२४ ॥
अदृश्यः सर्वभूतानान्नातिदूरेऽस्य संस्थितः ।
सुमनोमार्गणैरग्र्यैस्स विव्याध महेश्वरम् ॥ ३,११.२५ ॥
विस्मृत्य स हि कार्याणि बाणविद्धोऽन्तिके स्थिताम् ।
गौरीं विलोकयामास मन्मथाविष्टचेतनः ॥ ३,११.२६ ॥
धृतिमालंब्य तु पुनः किमेतदिति चिन्तयन् ।
ददर्शाग्रे तु सन्नद्धं मन्मथं कुसुमायुधम् ॥ ३,११.२७ ॥
तं दृष्ट्वा कुपितः शूली त्रैलोक्यदहनक्षमः ।
तार्तीयं चक्षुरुन्मील्य ददाह मकरध्वजम् ॥ ३,११.२८ ॥
शिवेनैवमवज्ञाता दुःखिता शैलकन्यका ।
अनुज्ञया ततः पित्रोस्तपः कर्तुमगाद्वनम् ॥ ३,११.२९ ॥
अथ तद्भस्म संवीक्ष्य चित्रकर्मा गणेश्वरः ।
तद्भस्मना तु पुरुषं चित्राकारं चकार सः ॥ ३,११.३० ॥
तं विचित्रतनुं रुद्रो ददर्शाग्रे तु पूरुषम् ।
तत्क्षणाज्जात जीवोऽभून्मूर्तिमानिव मन्मथः ।
महाबलोऽतितेजस्वी मध्याह्नार्कसमप्रभः ॥ ३,११.३१ ॥
तं चित्रकर्मा बाहुभ्यां समालिङ्ग्य मुदान्वितः ।
स्तुहि वाल महादेवं स तु सर्वार्थसिद्धिदः ॥ ३,११.३२ ॥
इत्युक्त्वा शतरुद्रीयमुपादिशदमेयधीः ।
ननाम शतशो रुद्रं शतरुद्रियमाजपन् ॥ ३,११.३३ ॥
ततः प्रसन्नो भगवान्महादेवो वृषध्वजः ।
वरेण च्छन्दयामास वरं वव्रे स बालकः ॥ ३,११.३४ ॥
प्रतिद्वन्द्विबलार्थं तु मद्बलेनोपयोक्ष्यति ।
तदस्त्रशस्त्रमुख्यानि वृथा कुर्वन्तु नो मम ॥ ३,११.३५ ॥
तथेति तत्प्रतिश्रुत्य विचार्य किमपि प्रभुः ।
षष्टिवर्षसहस्राणि राज्यमस्मै ददौ पुनः ॥ ३,११.३६ ॥
एतद्दृष्ट्वा तु चरितं धाता भण्डिति भण्डिति ।
यदुवाच ततो नाम्ना भण्डो लोकेषु कथ्यते ॥ ३,११.३७ ॥
इति दत्त्वा वरं तस्मै सर्वैर्मुनिगणैर्वृतः ।
दत्त्वास्त्राणि च शस्त्राणि तत्रैवान्तरधाच्च सः ॥ ३,११.३८ ॥
इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने भण्डासुरप्रादुर्भावो नामैकादशोऽध्यायः