ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ४
← उत्तरभागः, अध्यायः ३ | ब्रह्माण्डपुराणम् अध्यायः ४ [[लेखकः :|]] |
उत्तरभागः, अध्यायः ५ → |
ऋषय ऊचुः
श्रुतं सुमहदाख्यानं भवता परिकीर्त्तितम् ।
प्रजानां मनुभिः सार्द्धं देवानामृषिभिः सह ॥ ३,४.१ ॥
पितृगन्धर्वभूतानां पिशाचोरगरक्षसाम् ।
दैत्यानां दानवानां च यक्षाणामेव पक्षिणाम् ॥ ३,४.२ ॥
अत्यद्भुतानि कर्माणि विविधा धर्मनिश्चयाः ।
विचित्राश्च कथायोगा जन्म चाग्र्यमनुत्तमम् ॥ ३,४.३ ॥
तत्कथ्यमानमस्माकं भवता श्लक्ष्णया गिरा ।
मनः कर्णसुखं सौते प्रीणात्यमृतसन्निभम् ॥ ३,४.४ ॥
एवमाराध्य ते सूतं सत्कृत्य च महर्षयः ।
पप्रच्छुः सत्त्रिणः सर्वे पुनः सर्गप्रवर्त्तनम् ॥ ३,४.५ ॥
कथं सुत महाप्राज्ञ पुनः सर्गः प्रपत्स्यते ।
बन्धेषु संप्रलीनेषु गुणसाम्ये तमोमये ॥ ३,४.६ ॥
विकारेष्वविसृष्टेषु ह्यव्यक्ते चात्मनि स्थिते ।
अप्रवृत्ते ब्रह्मणा तु सहसा योज्यगैस्तदा ॥ ३,४.७ ॥
कथं प्रपत्स्यते सर्गस्तन्नः प्रब्रूहि पृच्छताम् ।
एवमुक्तस्ततः सूतस्तदासौ लोमहर्षणः ॥ ३,४.८ ॥
व्याख्यातुमुपचक्राम पुनः सर्गप्रवर्त्तनम् ।
अत्र वो वर्त्तयिष्यामि यथा सर्गः प्रपत्स्यते ॥ ३,४.९ ॥
पूर्ववत्स तु विज्ञेयः समासात्तन्निबोधत ।
दृष्टेनैवानुमेयं च तर्कं वक्ष्यामि युक्तितः ॥ ३,४.१० ॥
यस्माद्वाचो निवर्त्तन्ते त्वप्राप्य मनसा सह ।
अव्यक्त वत्परोक्षत्वाद्गहनं तद्दुरासदम् ॥ ३,४.११ ॥
विकारैः प्रतिसंसृष्टो गुणः साम्येन वर्त्तते ।
प्रधानं पुरुषाणां च साधर्म्येणैव तिष्ठति ॥ ३,४.१२ ॥
धर्माधर्मौं प्रलीयेते ह्यव्यक्ते प्राणिनां सदा ।
सत्त्वमात्रात्मको धर्मो गुणे सत्त्वे प्रतिष्ठितः ॥ ३,४.१३ ॥
तमोमात्रात्मको धर्मो गुणे तमसि तिष्ठति ।
अविभागेन तावेतौ गुणसाम्ये स्थितावुभौ ॥ ३,४.१४ ॥
सर्वं कार्यं बुद्धिपूर्वं प्रधानस्य प्रपत्स्यते ।
बुद्धिपूर्वं क्षेत्रज्ञ अधिष्ठास्यति तान्गुणान् ॥ ३,४.१५ ॥
एवं तानभिमानेन प्रपत्स्यति पुनस्तदा ।
यदा प्रवर्त्तितव्यं तु क्षेत्रक्षेत्रज्ञयोर्द्वयोः ॥ ३,४.१६ ॥
भोज्यभोक्तृत्वसंबन्धाः प्रपत्स्यन्ते च तावुभौ ।
तस्मादक्षरमव्यक्तं साम्ये स्थित्वा गुणात्मकम् ॥ ३,४.१७ ॥
क्षेत्रज्ञाधिष्ठितं तत्र वैपम्यं भजते तु तत् ।
ततः प्रपत्स्यते व्यक्तं क्षेत्रक्षेत्रज्ञयोर्द्वयोः ॥ ३,४.१८ ॥
क्षेत्रज्ञाधिष्ठितं सत्त्वं विकारं जनयिष्यति ।
महदाद्यं विशेषान्तं चतुर्विंशगुणात्मकम् ॥ ३,४.१९ ॥
क्षेत्रज्ञस्य प्रधानस्य पुरुषस्य प्रवर्त्स्यतः ।
आदिदेवः प्रधानस्यानुग्रहाय प्रजक्षते ॥ ३,४.२० ॥
अनाद्यौ वरमुत्पादौ उभौ सूक्ष्मौ तु तौ स्मृतौ ।
अनादिसंयोगयुतौ सर्वं क्षेत्रज्ञमेव च ॥ ३,४.२१ ॥
अबुद्धिपूर्वकं युक्तमाशक्तौ तु वरौ तदा ।
अप्रत्ययममोघं च स्थितावुदकमत्स्यवत् ॥ ३,४.२२ ॥
प्रवृत्तपूर्वौं तौ पूर्वं पुनः सर्वं प्रपत्स्यते ।
अज्ञा गुणैः प्रवर्त्तन्ते रजःसत्त्वतमोऽभिधैः ॥ ३,४.२३ ॥
प्रवृत्तिकाले रजसाभिपन्नो महत्त्वभूतादिविशेषतां च ।
विशेषतां चेन्द्रियतां च याति गुणावसानौषधिभिर्मनुष्यः ॥ ३,४.२४ ॥
सत्याभिध्यायिनस्तस्य ध्यायिनः सन्निमित्तकम् ।
रजः सत्त्वतमोव्यक्ता विधर्माणः परस्परम् ॥ ३,४.२५ ॥
आद्यन्तं वै प्रवत्स्यन्ते क्षेत्रमज्ञाम्वु सर्वशः ।
संसिद्धकार्यकरणा उत्पद्यन्तेऽभिमानिनः ॥ ३,४.२६ ॥
सर्वे सत्त्वाः प्रपद्यन्ते ह्यव्यक्तात्पूर्वमेव च ।
प्राक्सृतौ ये त्वसुवहाः साधकाश्चाप्यसाधकाः ॥ ३,४.२७ ॥
असंशान्तास्तु ते सर्वे स्थानप्रकरणैः सह ।
कार्याणि प्रतिपत्स्यन्ते उत्पत्स्यन्ते पुनः पुनः ॥ ३,४.२८ ॥
गुणमात्रात्मकावेव धर्माधर्मौं परस्परम् ।
आरप्संते हि चान्योन्यं वरेणानुग्रहेण वा ॥ ३,४.२९ ॥
शर्वस्तुल्यप्रसृष्ट्यर्थ सर्गादौ याति विक्रियाम् ।
गुणास्तं प्रतिधीयन्ते तस्मात्तत्तस्य रोचते ॥ ३,४.३० ॥
गुणास्ते यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे ।
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ३,४.३१ ॥
हिंस्राहिंस्रे मृदुकूरे धर्माधर्मावृतानृते ।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ ३,४.३२ ॥
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्त्तिषु ।
विप्रयोगश्च भूतानां गुणेभ्यः संप्रवर्त्तते ॥ ३,४.३३ ॥
इत्येष वो मया ख्यातः पुनः सर्गः समासतः ।
समासादेव वक्ष्यामि ब्रह्मणोऽथ समुद्भवम् ॥ ३,४.३४ ॥
अव्यक्तात्कारणात्तस्मान्नित्यात्सदसदात्मकात् ।
प्रधानपुरुषाभ्यां तु जायते च महेश्वरः ॥ ३,४.३५ ॥
स पुनः संभावयिता जायते ब्रह्मसंज्ञितः ।
सृजते स पुनर्लोकानभिमान गुणात्मकान् ॥ ३,४.३६ ॥
अहङ्कारस्तु महतस्तस्माद्भूतानि चात्मनः ।
युगपत्संप्रवर्त्तन्ते भूतान्येवेन्द्रियाणि च ॥ ३,४.३७ ॥
भूतभेदाश्च भूतेभ्य इति सर्गः प्रवर्त्तते ।
विस्तरावयवस्तेषां यथाप्रज्ञं यथाश्रुतम् ।
कीर्त्त्यतो वो यथापूर्वं तथैवाप्युपधार्यताम् ॥ ३,४.३८ ॥
एतच्छ्रुत्वा नैमिषेया स्तदानीं लोकोत्पत्तिं सुस्थितिं चाप्ययं च ।
तस्मिन्सत्रेऽवभृथं प्राप्य शुद्धाः पुण्यं लोकमृषयः प्राप्नुवन्ति ॥ ३,४.३९ ॥
यथा यूयं विधिना देवातादीनिष्ट्वा चैवावभृथं प्राप्य शुद्धाः ।
त्यक्त्वा देहानायुषोंऽते कृतार्थाः पुण्यं लोकं प्राप्य मोदध्वमेवम् ॥ ३,४.४० ॥
एते ते नैमिषेया वै दृष्ट्वा स्पृष्ट्वा च वै तदा ।
जग्मुश्चावभृथस्नाताः स्वर्गं सर्वे तु सत्रिणः ॥ ३,४.४१ ॥
विप्रास्तथा यूयमपि इष्टा बहुविधैर्मखैः ।
आयुषोंऽते ततः स्वर्गं गन्तारः स्थ द्विजोत्तमाः ॥ ३,४.४२ ॥
प्रक्रिया प्रथमः पादः कथायास्तु परिग्रहः ।
अनुषङ्ग उपोद्धात उपसंहार एव च ॥ ३,४.४३ ॥
एवमेव चतुःपादं पुराणं लोकसम्मतम् ।
उवाच भागवान्सक्षाद्वायुलोकहिते रतः ॥ ३,४.४४ ॥
नैमिषे सत्रमा साद्य मुनिभ्यो मुनिसत्तम ।
तत्प्रसादं च संसिद्धं भूतोत्पत्तिलयान्वितम् ॥ ३,४.४५ ॥
प्राधानिकीमिमां सृष्टिं तथैवेश्वरकारिताम् ।
सम्यग्विदित्वा मेधावी न मोहमधिगच्छति ॥ ३,४.४६ ॥
इदं यो ब्राह्मणो विद्वानितिहासं पुरातनम् ।
शृणुयाच्छ्रावयेद्वापि तथाध्यापयतेऽपि च ॥ ३,४.४७ ॥
स्थानेषु स महेन्द्रस्य मोदते शाश्वतीः समाः ।
ब्रह्मसायुज्यगो भूत्वा ब्रह्मणा सह मोदते ॥ ३,४.४८ ॥
तेषां कीर्तिमतां कीर्तिं प्रजेशानां महात्मनाम् ।
प्रथयन्पृथिवीशानां ब्रह्मभूयाय गच्छति ॥ ३,४.४९ ॥
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संमितम् ।
कृष्णद्वैपायनेनोक्तं पुराण ब्रह्मवादिना ॥ ३,४.५० ॥
मन्वन्तरेश्वराणां च यः कीर्तिं प्रथयेदिमाम् ।
देवतानामृषीणां च भूरिद्रविमतेजसाम् ॥ ३,४.५१ ॥
स सर्वैर्मुच्यते पापैः पुण्यं च महदाप्नुयात् ।
यश्चेदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि ॥ ३,४.५२ ॥
धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय कल्पते ।
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान् पादमन्ततः ॥ ३,४.५३ ॥
अक्षेयं सर्वकामीयं पितॄंस्तच्छोपतिष्ठते ।
यस्मात्पुरा ह्यणन्तीदं पुराणं तेन चोच्यते ॥ ३,४.५४ ॥
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ।
तथैव त्रिषु वर्णेषु ये मनुष्या अधीयते ॥ ३,४.५५ ॥
इतिहासमिमं श्रुत्वा धर्माय विदधे मतिम् ।
यावन्त्यस्य शरीरेषु रोमकूपानि सर्वशः ॥ ३,४.५६ ॥
तावत्कोटिसहस्राणि वर्षाणि दिवि मोदते ।
ब्रह्मसायुज्यगो भूत्वा दैवतैः सह मोदते ॥ ३,४.५७ ॥
सर्वपापहरं पुण्यं पवित्रं च यशस्वि च ।
ब्रह्मा ददौ शास्त्रमिदं पुराणं मातरिश्वने ॥ ३,४.५८ ॥
तस्माच्चोशनसा प्राप्तं तस्माच्चापि बृहस्पतिः ।
बृहस्पतिस्तु प्रोवाच सवित्रे तदनन्तरम् ॥ ३,४.५९ ॥
सविता मृत्यवे प्राह मृत्युश्चेन्द्राय वै पुनः ।
इन्द्रश्चापि वसिष्ठाय सोऽपि सारस्वताय च ॥ ३,४.६० ॥
सारस्वतस्त्रिधाम्नेऽथ त्रिधामा च शरद्वते ।
शरद्वांस्तु त्रिविष्टाय सोंऽतरिक्षाय दत्तवान् ॥ ३,४.६१ ॥
चर्षिणे चान्तरिक्षो वै सोऽपि त्रय्यारुणाय च ।
त्रय्यारुणाद्धनञ्जयः स वै प्रादात्कृतञ्जये ॥ ३,४.६२ ॥
कृतञ्जयात्तृणञ्जयो भरद्वाजाय सोऽप्यथ ।
गौतमाय भरद्वाजः सोऽपि निर्य्यन्तरे पुनः ॥ ३,४.६३ ॥
निर्य्यन्तरस्तु प्रोवाच तथा वाजश्रवाय वै ।
स ददौ सोमशुष्माय स चादात्तृणबिन्दवे ॥ ३,४.६४ ॥
तृणबिन्दुस्तु दक्षाय दक्षः प्रोवाच शक्तये ।
शक्तेः पराशरश्चापि गर्भस्थः श्रुतवानिदम् ॥ ३,४.६५ ॥
पराशराज्जातुकर्ण्यस्तस्माद्द्वैपायनः प्रभुः ।
द्वैपायना त्पुनश्चापि मया प्राप्तं द्विजोत्तम ॥ ३,४.६६ ॥
मया चैतत्पुनः प्रोक्तं पुत्रायामितबुद्धये ।
इत्येव वाक्यं ब्रह्मादिगुरुणां समुदात्दृतम् ॥ ३,४.६७ ॥
नमस्कार्याश्च गुरवः प्रयत्नेन मनीषिभिः ।
धन्यं यशस्यमायुष्यं पुण्यं सर्वार्थसाधकम् ॥ ३,४.६८ ॥
पापघ्नं नियमेनेदं श्रोतव्यं ब्राह्मणैः सदा ।
नाशुचौ नापि पापाय नाप्यसंवत्सरोषिते ॥ ३,४.६९ ॥
नाश्रद्दधानेऽविदुषे नापुत्राय कथञ्चन ।
नाहिताय प्रदातव्यं पवित्रमिदमुत्तमम् ॥ ३,४.७० ॥
अव्यक्तं वै यस्य योनिं वदन्ति व्यक्तं देहं कालमेतं गतिं च ।
वह्निर्वक्त्रं चन्द्रसूर्यौं च नेत्रेदिशः श्रोत्रे घ्राणमाहुश्च वायुम् ॥ ३,४.७१ ॥
वाचो वेदा अन्तरिक्षं शरीरं क्षितिः पादास्तारका रोमकूपाः ।
सर्वाणि द्यौर्मस्तकानि त्वथो वै विद्याश्चैवोपनिषद्यस्य पुच्छम् ॥ ३,४.७२ ॥
तं देवदेवं जननं जनानां यज्ञात्मकं सत्यलोकप्रतिष्ठम् ।
वरं वराणां वरदं महेश्वरं ब्रह्माणमादिं प्रयतो नमस्ये ॥ ३,४.७३ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते द्वादशसाहर्स्यां संहितायां उत्तरभागे चतुर्थं उपसंहारपादे ब्रह्माण्डावर्त्तं नाम चतुर्थोऽध्यायः