ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः १५
← उत्तरभागः, अध्यायः १४ | ब्रह्माण्डपुराणम् अध्यायः १५ [[लेखकः :|]] |
उत्तरभागः, अध्यायः १६ → |
तच्छ्रुत्वा वचनं देवी मन्दस्मितमुखांबुजा ।
उवाच स ततो वाक्यं ब्रह्मविष्णुमुखान्सुरान् ॥ ३,१५.१ ॥
स्वतन्त्राहं सदा देवाः स्वेच्छाचारविहारिणी ।
ममानुरूपचरितो भविता तु मम प्रियः ॥ ३,१५.२ ॥
तथेति तत्प्रतिश्रुत्य सर्वेर्देवैः पितामहः ।
उवाच च महादेवीं धर्मार्थसहितं वचः ॥ ३,१५.३ ॥
कालक्रीता क्रयक्रीता पितृदत्ता स्वयंयुता ।
नारीपुरुषयोरेवमुद्वाहस्तु चतुर्विधः ॥ ३,१५.४ ॥
कालक्रीता तु वेश्या स्यात्क्रयक्रीता तु दासिका ।
गन्धर्वोद्वाहिता युक्ता भार्या स्यात्पितृदत्तका ॥ ३,१५.५ ॥
समानधर्मिणी युक्ता भार्या पितृवशंवदा ।
यदद्वैतं परं ब्रह्म सदसद्भाववर्जितम् ॥ ३,१५.६ ॥
चिदानन्दात्मकं तस्मात्प्रकृतिः समजायत ।
त्वमेवासीच्च तद्ब्रह्म प्रकृतिः सा त्वमेव हि ॥ ३,१५.७ ॥
त्वमेवानादिरखिला कार्यकारणरूपिणी ।
त्वामेव हि विचिन्वन्ति योगिनः सनकादयः ॥ ३,१५.८ ॥
सदसत्कर्मरूपां च व्यक्ताव्यक्तो दयात्मिकाम् ।
त्वामेव हि प्रशंसंति पञ्चब्रह्मस्वरूपिणीम् ॥ ३,१५.९ ॥
त्वामेव हि सृजस्यादौ त्वमेव ह्यवसि क्षणात् ।
भजस्व पुरुषं कञ्चिल्लोकानुग्रहकाम्यया ॥ ३,१५.१० ॥
इति विज्ञापिता देवी ब्रह्मणा सकलैः सुरैः ।
स्रजमुद्यम्य हस्तेन चक्षेप गगनान्तरे ॥ ३,१५.११ ॥
तयोत्सृष्टा हि सा माला शोभयन्ती नभस्थलम् ।
पपात कण्ठदेशे हि तदा कामेश्वरस्य तु ॥ ३,१५.१२ ॥
ततो मुमुदिरे देवा ब्रह्मविष्णुपुरोगमाः ।
ववृषुः पुष्पवर्षाणि मन्दवातेरिता घनाः ॥ ३,१५.१३ ॥
अथोवाच विधाता तु भगवन्तं जनार्दनम् ।
कर्तव्यो विधिनोद्वाहस्त्वनयोः शिवयोर्हरे ॥ ३,१५.१४ ॥
मुहुर्तो देवसम्प्राप्तो जगन्मङ्गलकारकः ।
त्वद्रूपा हि महादेवी सहजश्च भवानपि ॥ ३,१५.१५ ॥
दातुमर्हसि कल्याणीमस्मै कामशिवाय तु ।
तच्छ्रुत्वा वचनं तस्य देवदेवस्त्रिविक्रमः ॥ ३,१५.१६ ॥
ददौ तस्यै विधानेन प्रीत्या तां शङ्कराय तु ।
देवर्षिपितृमुख्यानां सर्वेषां देवयोगिनाम् ॥ ३,१५.१७ ॥
कल्याणं कारयामास शिवयोरादिकेशवः ।
उपायनानि प्रददुः सर्वे ब्रह्मादयः सुराः ॥ ३,१५.१८ ॥
ददौ ब्रह्मेक्षुचापं तु वज्रसारमनश्वरम् ।
तयोः पुष्पायुधं प्रादादम्लानं हरिरव्ययम् ॥ ३,१५.१९ ॥
नागपाशं ददौ ताभ्यां वरुणो यादसांपतिः ।
अङ्कुशं च ददौ ताभ्यां विश्वकर्मा विशांपतिः ॥ ३,१५.२० ॥
किरीटमग्निः प्रायच्छत्ताटङ्कौ चन्द्रभास्करौ ।
नवरत्नमयीं भूषां प्रादाद्रत्नाकरः स्वयम् ॥ ३,१५.२१ ॥
ददौ सुराणामधिपो मधुपात्रमथाक्षयम् ।
चिन्तामणिमयीं मालां कुबेरः प्रददौ तदा ॥ ३,१५.२२ ॥
साम्राज्यसूचकं छत्रं ददौ लक्ष्मीपतिः स्वयम् ।
गङ्गा च यमुना ताभ्यां चामरे चन्द्रभास्वरे ॥ ३,१५.२३ ॥
अष्टौ च वसवो रुद्रा आदित्याश्चाश्विनौ तथा ।
दिक्पाला मरुतः साध्या गन्धर्वाः प्रमथेश्वराः ।
स्वानिस्वान्यायुधान्यस्यै प्रददुः परितोषिताः ॥ ३,१५.२४ ॥
रथांश्च तुरगान्नागान्महावेगान्महाबलान् ।
उष्टानरोगानश्वांस्तान्क्षुत्तृष्णापरिवर्जितान् ।
ददुर्वज्रोपमाकारान्सायुधान्सपरिच्छदान् ॥ ३,१५.२५ ॥
अथाभिषेकमातेनुः साम्राज्ये शिवयोः शिवम् ।
अथाकरोद्विमानं च नाम्ना तु कुसुमाकरम् ॥ ३,१५.२६ ॥
विधाताम्लानमालं वै नित्यं चाभेद्यमायुधैः ।
दिवि भुव्यन्तरिक्षे च कामगं सुसमृद्धिमत् ॥ ३,१५.२७ ॥
यद्गन्धघ्राणमात्रेण भ्रान्तिरोगक्षुर्धातयः ।
तत्क्षणादेव नश्यन्ति मनोह्लादकरं शुभम् ॥ ३,१५.२८ ॥
तद्विमानमथारोप्य तावुभौ दिव्यदंपती ।
चामख्याजनच्छत्रध्वजयष्टिमनोहरम् ॥ ३,१५.२९ ॥
वीणावेणुमृदङ्गादिविविधैस्तौर्यवादनैः ।
सेव्यमाना सुरगणैर्निर्गत्य नृपमन्दिरात् ॥ ३,१५.३० ॥
ययौ वीथीं विहारेशा शोभयन्ती निजौजसा ।
प्रतिहर्म्याग्रसंस्थाभिरप्सरोभिः सहस्रशः ॥ ३,१५.३१ ॥
सलाजाक्षतहस्ताभिः पुरन्ध्रीभिश्च वर्षिता ।
गाथाभिर्मङ्गलार्थाभिर्वीणावेण्वादिनिस्वनैः ।
तुष्यन्ती वीवीथिवीथीषु मन्दमन्दमथाययौ ॥ ३,१५.३२ ॥
प्रतिगृह्याप्स रोभिस्तु कृतं नीराजनाविधिम् ।
अवरुह्य विमानग्रात्प्रविवेश महासभाम् ॥ ३,१५.३३ ॥
सिंहासनमधिष्ठाय सह देवेन शंभुना ।
यद्यद्वाञ्छन्ति तत्रस्था मनसैव महाजनाः ।
सर्वज्ञा साक्षिपातेन तत्तत्कामानपूरयत् ॥ ३,१५.३४ ॥
तद्दृष्ट्वा चरितं देव्या ब्रह्मा लोक पितामहः ।
कामाक्षीति तदाभिख्यां ददौ कामेश्वरीति च ॥ ३,१५.३५ ॥
ववर्षाश्चर्यमेघोऽपि पुरे तस्मिंस्तदाज्ञया ।
महार्हाणि च वस्तूनि दिव्यान्याभरणानि च ॥ ३,१५.३६ ॥
चिन्तामणिः कल्पवृक्षः कमला कामधेनवः ।
प्रतिवेश्म ततस्तस्थुः पुरो देव्याजयाय ते ॥ ३,१५.३७ ॥
तां सेवैकरसाकारां विमुक्तान्यक्रियागुणाः ।
सर्वकामार्थसंयुक्ता हृष्यन्तः सार्वकालिकम् ॥ ३,१५.३८ ॥
पितामहो हरिश्चैव महादेवश्च वासवः ।
अन्ये दिशामधीशास्तु सकला देवतागणाः ॥ ३,१५.३९ ॥
देवर्षयो नारदाद्याः सनकाद्याश्च योगिनः ।
महर्षयश्च मन्वाद्या वशिष्ठाद्यास्तपोधनाः ॥ ३,१५.४० ॥
गन्धर्वाप्सरसो यक्षा याश्चान्या देवजातयः ।
दिवि भूम्यन्तरिक्षेषु ससंबाधं वसंति ये ॥ ३,१५.४१ ॥
ते सर्वे चाप्यसंबाधं निवसंति स्म तत्पुरे ॥ ३,१५.४२ ॥
एवं तद्वत्सला देवी नान्यत्रैत्यखिलाज्जनात् ।
तोषयामास सततमनुरागेण भूयसा ॥ ३,१५.४३ ॥
राज्ञो महति भूर्लोके विदुषः सकलेप्सिताम् ।
राज्ञी दुदोहाभीष्टानि सर्वभूतलवासिनाम् ॥ ३,१५.४४ ॥
त्रिलोकैकमहीपाले सांबिके कामशङ्करे ।
दशवर्षसहस्राणि ययुः क्षण इवापरः ॥ ३,१५.४५ ॥
ततः कदा चिदागत्य नारदो भगवानृषिः ।
प्रणम्य परमां शक्तिं प्रोवाच विनयान्वितः ॥ ३,१५.४६ ॥
पर ब्रह्म परं धाम पवित्रं परमैश्वरि ।
मदसद्भावसंकल्पविकल्पकलनात्मिका ॥ ३,१५.४७ ॥
जगदभ्युदयार्थाय व्यक्तभावमुपागता ।
असज्जनविनाशार्था सज्जनाभ्युदयार्थिनी ।
प्रवृत्तिस्तव कल्याणि साधूनां रक्षणाय हि ॥ ३,१५.४८ ॥
अयं भण्डोऽसुरो देवि बाधते जगतां त्रयम् ।
त्वयैकयैव जेतव्यो न शक्यस्त्वपरैः सुरैः ॥ ३,१५.४९ ॥
त्वत्सेवैकपरा देवाश्चिरकालमिहोषिताः ।
त्वदाज्ञया गमिष्यन्ति स्वानिस्वानि पुराणि तु ॥ ३,१५.५० ॥
अमङ्गलानि शून्यानि समृद्धार्थानि संत्वतः ।
एवं विज्ञापिता देवी नारदेनाखिलेश्वरी ।
स्वस्ववासनिवासाय प्रेषयामास चामरान् ॥ ३,१५.५१ ॥
ब्रह्माणं च हरिं शंभुं वासवादीन्दिशां पतीन् ।
यथार्हं पूजयित्वा तु प्रेषयामास चांबिका ॥ ३,१५.५२ ॥
अपराधं ततस्त्यक्तुमपि संप्रेषिताः सुराः ।
स्वस्वांशैः शिवयोः सेवामादिपित्रोरकुर्वत ॥ ३,१५.५३ ॥
एतदाख्यानमायुष्यं सर्वमङ्गलकारणम् ।
आविर्भावं महादेव्यास्तस्या राज्याभिषेचनम् ॥ ३,१५.५४ ॥
यः प्रातरुत्थितो विद्वान्भक्तिश्रद्धासमन्वितः ।
जपेद्धनसमृद्धः स्यात्सुधासंमितवाग्भवेत् ॥ ३,१५.५५ ॥
नाशुभं विद्यते तस्य परत्रेह च धीमतः ।
यशः प्राप्नोति विपुलं समानोत्तमतामपि ॥ ३,१५.५६ ॥
अचला श्रीर्भवेतस्य श्रेयश्चैव पदेपदे ।
कदाचिन्न भयं तस्य तेजस्वी वीर्यवान्भवेत् ॥ ३,१५.५७ ॥
तापत्रयविहीनश्च पुरुषार्थैश्च पूर्यते ।
त्रिसंध्यं यो जपेन्नित्यं ध्यात्वा सिंहासनेश्वरीम् ॥ ३,१५.५८ ॥
षण्मासान्महतीं लक्ष्मीं प्राप्नुयाज्जापकोत्तमः ॥ ३,१५.५९ ॥
इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने वैवाहिकोत्सवो नाम पञ्चदशोऽध्यायः