ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः २०
← उत्तरभागः, अध्यायः १९ | ब्रह्माण्डपुराणम् अध्यायः २० [[लेखकः :|]] |
उत्तरभागः, अध्यायः २१ → |
हयग्रीव उवाच
किरिचक्ररथेन्द्रस्य पञ्चपर्वसमाश्रिताः ।
देवताश्च शृणु प्राज्ञ नाम यच्छृण्वतां जयः ॥ ३,२०.१ ॥
प्रथमं पर्वबिन्द्वाख्यं संप्राप्ता दण्डनायिका ।
सा तत्र जगदुद्दण्डकण्टकव्रातघस्मरी ॥ ३,२०.२ ॥
नानाविधाभिर्ज्वालाभिर्नर्तयन्ती जयश्रियम् ॥ ३,२०.३ ॥
उद्दण्डपोत्रनिर्घातनिर्भिन्नोद्धतदानवाः ।
दंष्ट्राबालमृगाङ्कांशुविभावनविभावरी ॥ ३,२०.४ ॥
प्रावृषेण्यपयोवाहव्यूहनीलवपुर्ल्लता ।
किरिचक्ररथेन्द्रस्य सालङ्कारायते सदा ।
पोत्रिणी पुत्रिताशेषविश्वावर्तकदंबिका ॥ ३,२०.५ ॥
तस्यैव रथनाभस्य द्वितीयं पर्व संश्रिताः ।
जृंभिनी मोहिनी चैव स्तंभिनी तिस्र एव हि ।
उत्फुल्लदाडिमीप्रख्यं सर्वदानवमर्दनाः ॥ ३,२०.६ ॥
मुसलं च हलं हालापात्रं मणिगणर्पितम् ।
ज्वलन्माणिक्यवलयैर्बि भ्राणाः पाणिपल्लवैः ॥ ३,२०.७ ॥
अतितीक्ष्णकरालाक्ष्यो ज्वालाभिर्दैत्यसैनिकान् ।
दहन्त्य इव निःशङ्कं सेवन्ते सूकराननाम् ॥ ३,२०.८ ॥
किरिचक्ररथेन्द्रस्य तृतीयं पर्व संश्रिताः ।
अन्धिन्याद्याः पञ्च देव्यो देवीयन्त्रकृतास्पदाः ॥ ३,२०.९ ॥
कठोरेणाट्टहासेन भिन्दन्त्यो भुवनत्रयम् ।
ज्वाला इव तु कल्पग्नेरङ्गनावेषमाश्रिताः ॥ ३,२०.१० ॥
भण्डासुरस्य सर्वेषां सैन्यानां रुधिरप्लुतिम् ।
लिलिक्षमाणा जिह्वाभिर्लेलिहानाभिरुज्ज्वलाः ॥ ३,२०.११ ॥
सेवन्तें सततं दण्डनाथामुद्दण्डविक्रमाम् ।
किरिचक्ररथेन्द्रस्य चतुर्थं पर्व संश्रिताः ॥ ३,२०.१२ ॥
ब्रह्माद्याः पञ्चमीवर्ज्या अष्टमीरवर्जिता अपि ।
षडेव देव्यः षट्चक्रज्वलज्ज्वालाकलेवराः ॥ ३,२०.१३ ॥
महता विक्रमौघेण विबन्त्य इव दानवान् ।
आज्ञया दण्डनाथायास्तं प्रदेशमुपासते ॥ ३,२०.१४ ॥
तस्यैव पर्वणोऽधस्तात्त्वरिताः स्थानमाश्रिताः ।
यक्षिणी शङ्खिनी चैव लाकिनी हाकिनी तथा ॥ ३,२०.१५ ॥
शाकिनी डाकिनी चैव तासामैक्यस्वरूपिणी ।
हाकिनी सप्तमीत्येताश्चण्डदोर्दण्डविक्रमाः ॥ ३,२०.१६ ॥
पिबन्त्य इव भूतानि पिबन्त्य इव मेदिनीम् ।
त्वचं रक्तं तथा मांसं मेदोऽस्थि च विरोधिनाम् ॥ ३,२०.१७ ॥
मज्जानमथ शुक्रं च पिबन्तयो विकटाननाः ।
निष्ठुरैः सिंहनादैश्च पूरयन्त्यो दिशो दश ॥ ३,२०.१८ ॥
धातुनाथा इति प्रोक्ता अणिमाद्यष्टसिद्धिदाः ।
मोहने मारणे चैव स्तंभने ताडने तथा ॥ ३,२०.१९ ॥
भक्षणे दुष्टदैत्यानामामूलं च निकृन्तने ।
पण्डिताः खण्डिताशेषविपदो भक्तिशालिषु ॥ ३,२०.२० ॥
धातुनाथा इतिप्रोक्ताः सर्वधातुषु संस्थिताः ।
सप्तापि वारिधीनूर्मिमालासंचुंबितांबरान् ॥ ३,२०.२१ ॥
क्षणर्धेनैव निष्पातुं निष्पन्नबहुसाहसाः ।
शकटा कारदन्ताश्च भयङ्करविलोचनाः ॥ ३,२०.२२ ॥
स्वस्वामिनीद्रोहकृतां स्वकीयसमयद्रुहाम् ।
वैदिकद्रोहणादेव द्रोहिणां वीरवैरिणाम् ॥ ३,२०.२३ ॥
यज्ञद्रोहकृतां दुष्टदैत्यानां भक्षणे समाः ।
नित्यमेव च सेवन्ते पोत्रिणीं दण्डनायिकाम् ॥ ३,२०.२४ ॥
तस्यैव पर्वणः पार्श्वे द्वितीये दिव्यमन्दिरे ।
क्रोधिनी स्तंभिनी ख्याते वर्तेते देवते उभे ॥ ३,२०.२५ ॥
चामरे वीजयन्त्यौ च लोलकङ्कणदोर्लते ।
देवद्विषां चमूरक्तहालापानमहोद्धते ॥ ३,२०.२६ ॥
सदा विघूर्णमानाक्ष्यौ सदा प्रहसितानने ।
अथ तस्य रथेन्द्रस्य किरिचक्राश्रितस्य च ॥ ३,२०.२७ ॥
पार्श्वद्वयकृतावासमायुधद्वन्द्वमुत्तमम् ।
हलं च मुसलं चैव देवतारूपमास्थितम् ॥ ३,२०.२८ ॥
स्वकीयमुकुटस्थाने स्वकीयायुधविग्रहम् ।
आबिभ्राणं जग षिघस्मरं विबुधैः स्मृतम् ॥ ३,२०.२९ ॥
एतदायुधयुग्मेन ललिता दडनायिका ।
खण्डयिष्यति संग्रामं विषङ्गं नामदानहम् ॥ ३,२०.३० ॥
तस्यैव पर्वणो दण्डनाथाया अग्रसीमनि ।
वर्त्तमानो महाभीमः सिंहो नादैर्ध्वनन्नभः ॥ ३,२०.३१ ॥
दंष्ट्राकटकटात्कार बधिरीकृतदिङ्मुखः ।
चण्डोच्चण्ड इति ख्यातश्चतुर्हस्तस्त्रिलोचनः ॥ ३,२०.३२ ॥
शूलखड्गप्रेतपाशान्दधानो दीप्तविग्रहः ।
सदा संसेवते देवीं पश्यन्नेव हि पोत्रिणीम् ॥ ३,२०.३३ ॥
किरिचक्ररथेन्द्रस्य षष्टं पर्व समाश्रिताः ।
वार्त्ताल्याद्या अष्ट देव्यो दिक्ष्वष्टासूपविश्रुताः ॥ ३,२०.३४ ॥
अष्टपर्वतनिष्पातघोरनिर्घातनिःस्वनाः ।
अष्टनागस्फुरद्भूषा अनष्टबलतेजसः ॥ ३,२०.३५ ॥
प्रकृष्टदोष्प्रकाण्डोष्महुतदानवकोटयः ।
सेवन्ते ललितां देव्यो दण्डनाथामहर्निशम् ॥ ३,२०.३६ ॥
तासामाख्याश्च विख्याताः समाकर्णय कुंभज ।
वार्ताली चैव वाराहीसा वाराहमुखी परा ॥ ३,२०.३७ ॥
अन्धिनी रोधिनी चैव जृंभिणी चैव मोहिनी ।
स्तंभिनीति रिपुक्षोभस्तंभनोच्चाटनक्षमाः ॥ ३,२०.३८ ॥
तासां च पर्वणो वामभागे सततसंस्थितिः ।
दण्डनाथोपवाह्यस्तु कासरो धूसराकृतिः ॥ ३,२०.३९ ॥
अर्धक्रोशायतः शृङ्गद्वितये क्रोशविग्रहः ।
खड्गवन्निष्ठुरैर्लोमजातैः संवृतविग्रहः ॥ ३,२०.४० ॥
कालदण्डवदुच्चण्डबालकाण्डभयङ्करः ।
नीलाञ्जनाचलप्रख्यो विकटोन्नतरुष्टभूः ॥ ३,२०.४१ ॥
महानीलगिरिश्रेष्ठगरिष्ठस्कन्धमण्डलः ।
प्रभूतोष्मलनिश्वासप्रसराकंपितांबुधिः ॥ ३,२०.४२ ॥
घर्घरध्वनिना कालमहिषं विहसन्निव ।
वर्त्तते खुरविक्षिप्तपुष्कलावर्तवारिदः ॥ ३,२०.४३ ॥
तस्यैव पर्वणोऽधस्ताच्चित्रस्थानकृतालयाः ।
इन्द्रादयोऽनेकभेदा दिशामष्टकदेवताः ॥ ३,२०.४४ ॥
ललितायां कार्यसिद्धिं विज्ञापयितुमागताः ।
इन्द्रश्चाप्सरसश्चैव स चतुष्षष्टिकोटयः ॥ ३,२०.४५ ॥
सिद्ध अग्निश्च साध्याश्च विश्वेदेवास्तथापरे ।
विश्वकर्मा मयश्चैव मातरश्च बलोन्नताः ॥ ३,२०.४६ ॥
रुद्राश्च परिचाराश्च रुद्राश्चैव पिशाचकाः ।
क्रन्दञ्चिरक्षसां नाथा राक्षसा बहवस्तथा ॥ ३,२०.४७ ॥
मित्राश्च तत्र गन्धर्वाः सदा गानविशारदाः ।
विश्वावसुप्रभृतयो विख्यातास्तत्पुरोगमाः ॥ ३,२०.४८ ॥
तथा भूतगणाश्चान्ये वरुणो वासवः परे ।
विद्याधराः किन्नराश्च मारुतेश्वर एव च ॥ ३,२०.४९ ॥
तथा चित्ररथश्चैव रथकारक कारकाः ।
तुंबुरुर्नारदो यक्षः सोमोयक्षेश्वरस्तथा ॥ ३,२०.५० ॥
देवैश्च भगवांस्तत्र गोविन्दः कमलापतिः ।
ईशानश्च जगच्चक्रभक्षकः शूलभीषणः ॥ ३,२०.५१ ॥
ब्रह्मा चैवाश्विनीपुत्रो वैद्यविद्याविशारदौ ।
धन्वन्तरिश्च भगवानथान्ये गणनायकाः ॥ ३,२०.५२ ॥
कटकाण्डगलद्दान संतर्पितमधुव्रताः ।
अनन्तो वासुकिस्तक्षः कर्केटः पद्म एव च ॥ ३,२०.५३ ॥
महापद्मः शङ्खपालो गुलिकः सुबलस्तथा ।
एते नागेश्वराश्चैव नागकोटिभिरावृताः ॥ ३,२०.५४ ॥
एवंप्रकारा बहवो देवतास्तत्र जाग्रति ।
पूर्वादिदिशमारभ्य परितः कृतमन्दिराः ॥ ३,२०.५५ ॥
तत्रैव देवताश्चक्रे चक्राकारा मरुद्दिशः ।
आश्रित्य किल वर्तन्ते तदधिष्ठातृदेवताः ॥ ३,२०.५६ ॥
जृंभिणी स्तंभिनी चैव मोहिनी तिस्र एव च ।
तस्यैव पर्वणः प्रान्ते किरिचक्रस्य भास्वतः ॥ ३,२०.५७ ॥
कपालं च गदां बिभ्रदूर्ध्वकेशो महावपुः ।
पातालतलजंबालबहुला कारकालिमा ॥ ३,२०.५८ ॥
अट्टहासमहावज्रदीर्णब्रह्माण्डमण्डलः ।
भिन्दन्डमरुकध्वानै रोदसीकन्दरोदरम् ॥ ३,२०.५९ ॥
फूत्कारीत्रिपुरायुक्तं फणिपाशं करे वहन् ।
क्षेत्रपालः सदा भाति सेवमानः किटीश्वरीम् ॥ ३,२०.६० ॥
तस्यैव च समीपस्थस्तस्या वाहनकेसरी ।
यमा रुह्य प्रववृते भण्टासुरबधैषिणी ॥ ३,२०.६१ ॥
प्रागुक्तमेव देवेशीवाहसिंहस्य लक्षण्म् ।
तस्यैव पर्वणोऽधस्ताद्दण्डनाथासमत्विषः ॥ ३,२०.६२ ॥
दण्डिनीसदृशाशेषभूषणायुधमण्डिताः ।
शम्याः क्रोडाननाश्चन्द्ररेखोत्तंसितकुन्तलाः ॥ ३,२०.६३ ॥
हलं च मुसलं हस्ते घूर्णयन्त्यो मुहुर्मुहुः ।
ललिताद्रोहिणां श्यामाद्रोहिणां स्वामिनीद्रुहाम् ॥ ३,२०.६४ ॥
रक्तस्रोतोभिरुत्कूलैः पूरयन्त्यः कपालकम् ।
निजभक्तद्रोहकृता मन्त्रमालाविभूषणाः ॥ ३,२०.६५ ॥
स्वगोष्ठीसमायाक्षेपकारिणां मुण्डमण्डलैः ।
अखण्डरक्तविच्छर्दैर्बिभ्रत्यो वक्षसि क्रजः ॥ ३,२०.६६ ॥
सहस्रं देवताः प्रोक्ताः सेवमानाः किटीश्वरीम् ॥ ३,२०.६७ ॥
तासां नामानि सर्वासां दण्डिन्याः कुंभसंभव ।
सहस्रनामाध्याये तु वक्ष्यन्ते नाधुना पुनः ॥ ३,२०.६८ ॥
अथ तासां देवतानां कोलास्यानां समीपतः ।
वाहनं कृष्णसारङ्गो दण्डिन्याः समये स्थितः ॥ ३,२०.६९ ॥
क्रोशार्धार्द्धायतः शृङ्गे तदर्धार्धायतो मुखे ।
क्रोशप्रमाणापादश्च सदा चोद्धृतवालधिः ॥ ३,२०.७० ॥
उदरे धवलच्छायो हुङ्कारेण महीयसा ।
हसन्मारुतवाहस्य हरिणस्य पराक्रमम् ॥ ३,२०.७१ ॥
तस्यैव पर्वणो देशे वर्त्तते वाहनोत्तमम् ।
किरिचक्ररथेन्द्रस्य स्थितस्तत्रैव पर्वणि ॥ ३,२०.७२ ॥
वर्त्तते मदिरासिंधुर्देवतारूपमास्थिता ।
माणिक्यगिरिवच्छोणं हस्ते पिशितपिण्डकम् ॥ ३,२०.७३ ॥
दधाना घूर्णमा नाक्षी हेमांभोजस्रगावृता ।
मदशक्त्या समाश्लिष्टा धृतरक्तसरोजया ॥ ३,२०.७४ ॥
यदायदा भण्डदैत्यः संग्रामे संप्रवर्तते ।
युद्धस्वेद मनुप्राप्ताः शक्तयः स्युः पिपासिताः ॥ ३,२०.७५ ॥
तदातदा सुरासिंधुरात्मानं बहुधा क्षिपन् ।
रणे खेदं देवतानामञ्जसापाकरिष्यति ॥ ३,२०.७६ ॥
तदप्यद्भुतमे वर्षे भविष्यति न संशयः ।
तदा श्रोष्यसि संग्रामे कथ्यमानं मया मुदा ॥ ३,२०.७७ ॥
तस्यैव पर्वणोऽधस्तादष्टदिक्ष्वघ एव हि ।
उपर्यपि कृतावासा हेतुकाद्या दश स्मृताः ॥ ३,२०.७८ ॥
महान्तो भैरवश्रेष्ठाः ख्याता विपुलविक्रमाः ।
उद्दीप्तायुत तेजोभिर्द्दिवा दीपितभानवः ॥ ३,२०.७९ ॥
कल्पान्तकाले दण्डिन्या आज्ञया विश्वघस्मराः ।
अत्युदग्रप्रकृतयो रददष्टौष्ठसंपुटाः ॥ ३,२०.८० ॥
त्रिशूलाग्रविनिर्भिन्नमहावारिदमण्डलाः ।
हेतुकस्त्रिपुरारिश्च तृतीयश्चाग्निभैरवः ॥ ३,२०.८१ ॥
यमजिह्वैकपादौ च तथा कालकरालकौ ।
भीमरूपो हाटकेशस्तथैवाचलनामवान् ॥ ३,२०.८२ ॥
एते दशैव विख्याता दशकोटिभटान्विताः ।
तस्यैव किरिचक्रस्य वर्तन्ते पर्वसीमनि ॥ ३,२०.८३ ॥
एवं हि दण्डनाथायाः किरिचक्रस्य देवताः ।
जृंभिण्याद्यचलेन्द्रान्ताः प्रोक्तास्त्रैलोक्यपावनाः ॥ ३,२०.८४ ॥
तत्रत्यैर्देवतावृन्दैर्बहवस्तत्र संगरे ।
दानवा मारयिष्यन्ते पास्यन्ते रक्तवृष्टयः ॥ ३,२०.८५ ॥
इत्थं बहुविधत्राणं पर्वस्थैर्देवतागणैः ।
किरिचक्रं दण्डनेत्र्या रथरत्नं चचाल ह ॥ ३,२०.८६ ॥
चक्रराजरथो यत्र तत्र गेयरथोत्तमः ।
यत्र गेयरथस्तत्र किरिचक्ररथोत्तमः ॥ ३,२०.८७ ॥
एतद्रथ त्रयं तत्र त्रैलोक्यमिव जङ्गमम् ।
शक्तिसेनासहस्रस्यान्तश्चचार तदा शुभम् ॥ ३,२०.८८ ॥
मेरुमन्दरविन्ध्यानां समवाय इवाभवत् ।
महाघोषः प्रववृते शक्तीनां सैन्यमण्डले ।
चचाल वसुधा सर्वा तच्चक्ररवदारिता ॥ ३,२०.८९ ॥
ललिता चक्रराजाख्या रथनाथस्य कीर्तिताः ।
षट्सारथय उद्दण्डपाशग्रहणकोविदाः ॥ ३,२०.९० ॥
यत्र गेयरथस्तत्र किरिचक्ररथोत्तमम् ।
इति देवी प्रथमतस्तथा त्रिपुरभैरवी ॥ ३,२०.९१ ॥
संहारभैरवश्चान्यो रक्तयोगिनिवल्लभः ।
सारसः पञ्चमश्चैव चामुण्डा च तथा परा ॥ ३,२०.९२ ॥
एतासु देवतास्तत्र रथसारथयः स्मृताः ।
गेयच क्ररथेन्द्रस्य सारथिस्तु हसंतिका ॥ ३,२०.९३ ॥
किरिचक्ररथेन्द्रस्य स्तंभिनी सारथिः स्मृता ।
दशयोजनमुन्नम्रो ललितारथपुङ्गवः ॥ ३,२०.९४ ॥
सप्तयोजनमुच्छ्रायो गीतसक्ररथोत्तमः ।
षड्योजनसमुन्नम्रो किरिचक्ररथो मुने ॥ ३,२०.९५ ॥
महामुक्तातपत्रं तु दशयोजनविस्तृतम् ।
वर्तते ललितेशान्या रथ एव न चान्यतः ॥ ३,२०.९६ ॥
तदेव शक्तिसाम्राज्यसूचकं परिकीर्तितम् ।
सामान्यमातपत्रं तु तथद्वन्द्वेपि वर्तते ॥ ३,२०.९७ ॥
अथ सा ललितेशानी सर्वशक्तिमहेश्वरी ।
महासाम्राज्यपदवीमारूढा परमेश्वरी ॥ ३,२०.९८ ॥
चचाल भण्डदेत्यस्य क्षयसिद्ध्यभिकाङ्क्षिणी ।
शब्दायन्ते दिशः सर्वाः कंपते च वसुंधरा ॥ ३,२०.९९ ॥
क्षुभ्यन्ति सर्वभूतानि ललितेशाविनिर्गमे ।
देवदुन्दुभयो नेदुर्निपेतुः पुष्पवृष्टयः ॥ ३,२०.१०० ॥
विश्वावसुप्रभृतयो गन्धर्वाः सुरगायकाः ।
तुम्बुरुर्नारदश्चैव साक्षादेव सरस्वती ॥ ३,२०.१०१ ॥
जयमङ्गल पद्यानि पठन्तः पटुगीतिभिः ।
हर्षसंफुल्लवदनाः स्फुरत्पुलकभूषणाः ।
मुहुर्जयजयेत्येवं स्तुवाना ललितेश्वरीम् ॥ ३,२०.१०२ ॥
हर्षेणाढ्या मदोन्मत्ताः प्रनृत्यन्तः पदेपदे ।
सप्तर्षयो वशिष्ठाद्या ऋग्यजुः सामरूपिभिः ॥ ३,२०.१०३ ॥
अथर्वरूपैर्मन्त्रैश्च वर्धयन्तो जयश्रियम् ।
हविषेव महावह्निशिखामत्यन्तपाविनीम् ॥ ३,२०.१०४ ॥
आशीर्वादेन महता वर्धयामासुरुत्तमाः ।
तैः स्तूयमाना ललिता राजमाना रथोत्तमे ॥ ३,२०.१०५ ॥
भण्डासुरं विनिर्जेतुमुद्दण्डैः सह सैनिकैः ॥ ३,२०.१०६ ॥
इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने किरिचक्ररथदेवताप्रकाशनं नाम विंशोऽध्यायः