ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः ३५
← अध्यायः ३४ | ब्रह्माण्डपुराणम् अध्यायः ३५ [[लेखकः :|]] |
अध्यायः ३६ → |
हयग्रीव उवाच
अथ वापीत्रयादीनां कक्ष्याभेदान्प्रचक्ष्महे ।
एषां श्रवणमात्रेण जायते श्रीमहोदयः ॥ ३,३५.१ ॥
सहस्रस्तम्भशालस्यांतरमारुतयोजने ।
मनो नाम महाशालः सर्वरत्नविचित्रितः ॥ ३,३५.२ ॥
पूर्ववद्गोपुरद्वारकपाटार्गलसंयुतः ।
तन्मध्यकक्ष्याभागस्तु सर्वाप्यमृतवापिका ॥ ३,३५.३ ॥
यत्पीत्वा योगिनः सिद्धा वज्रकाया महाबलाः ।
भवन्ति पुरुषाः प्राज्ञास्तदेव हि रसायनम् ॥ ३,३५.४ ॥
वाप्याममृतमय्यां तु वर्तते तोयतां गतम् ।
तद्गन्धाघ्राणमात्रेण सिद्धिकान्तापतिर्भवेत् ॥ ३,३५.५ ॥
अस्पृशन्नपि विन्धयारे पुरुषः क्षीणकल्मषः ।
उभयोः शालयोः पार्श्वे सुधावापीतटद्वये ॥ ३,३५.६ ॥
अधक्रोशसमायामा अन्यास्सर्वाश्च वापिकाः ।
चतुर्योजनदूरं तु तलं तस्या जलान्तरे ॥ ३,३५.७ ॥
सोपानावलयस्तस्या नानारत्नविचित्रिताः ।
स्वर्णवर्णा रत्नवर्णास्तस्यां हंसाश्च सारसाः ॥ ३,३५.८ ॥
आस्फोट्यते तटद्वन्द्वतरङ्गैर्मन्दचञ्चलैः ।
पक्षिणस्तज्जलं पीत्वा रसायनमयं नवम् ॥ ३,३५.९ ॥
अजरामरतां प्राप्तास्तत्र विन्ध्यनिषूदन ।
सदाकूजितलक्षेण तत्र कारण्डवद्विजाः ॥ ३,३५.१० ॥
जपन्ति ललितादेव्या मन्त्रमेव महत्तरम् ।
परितो वापिकाचक्रपरिवेषणभूयसा ॥ ३,३५.११ ॥
न तत्र गन्तु मार्गोऽस्ति नौकावाहनमन्तरा ।
आज्ञया केवलं तत्र मन्त्रिणी दण्डनाथयोः ।
तारा नाम महाशक्तिर्वर्तते तोरणेश्वरी ॥ ३,३५.१२ ॥
बह्व्यस्तत्रोत्पलश्यामास्तारायाः परिचारिकाः ।
रत्ननौकासहस्रेण खेलन्त्यो सरसीजले ॥ ३,३५.१३ ॥
अपरं पारमायान्ति पुनर्यान्ति परं तटम् ।
वीणावेणुमृदङ्गादि वादयन्त्यो मुहुर्मुहुः ॥ ३,३५.१४ ॥
कोटिशस्तत्र ताराया नाविक्यो नवयौवनाः ।
मुहुर्गायन्ति नृत्यन्ति देव्याः पुण्यतमं यशः ॥ ३,३५.१५ ॥
अरित्रपाणयः काश्चित्काश्चिच्छूगाम्बुपाणयः ।
पिबन्त्यस्तत्सुधातोयं संचरन्त्यस्तरीशतैः ॥ ३,३५.१६ ॥
तासां नौकावाहिकानां शक्तीनां श्यामलत्विषाम् ।
प्रधानभूता तारांबा जलौघशमनक्षमा ॥ ३,३५.१७ ॥
आज्ञां विना तयोस्तारा मन्त्रिणीदण्डधारयोः ।
त्रिनेत्रस्यापि नो दत्ते वापिकांभसि सन्तरम् ॥ ३,३५.१८ ॥
गायन्तीनां चलन्तीनां नौकाभिर्मणिचारुभिः ।
महाराज्ञी महौदार्यं पतन्तीनां पदेपदे ॥ ३,३५.१९ ॥
पिबन्तीनां मधु भृशं माणिक्यचषकोदरैः ।
प्रतिनौकं मणिगृहे वसन्तीनां मनोहरे ॥ ३,३५.२० ॥
तारातरणिशक्तीनां समवायोऽतिसुन्दरः ।
काश्चिन्नौकाः सुवर्णाढ्याः काश्चिद्रत्नकृता मुने ॥ ३,३५.२१ ॥
मकराकारमापन्नाः काश्चिन्नौका मृगाननाः ।
काश्चित्सिंहासना नावः काश्चिद्दन्तावलाननाः ॥ ३,३५.२२ ॥
इत्थं विचित्ररूपाभिर्नौङ्काभिः परिवेष्टिता ।
तारांबामहतीं नौकामधिगम्य विराजते ॥ ३,३५.२३ ॥
अनुलोमविलोमाभ्यां सञ्चारं वापिकाजले ।
तन्वाना सततं तारा कक्ष्यामेनां हि रक्षति ॥ ३,३५.२४ ॥
मनशालस्यान्तराले सप्तयोजनदूरतः ।
बुद्धिशाल इति ख्यातश्चतुर्योजनमुच्छ्रितः ॥ ३,३५.२५ ॥
तन्मध्यकक्ष्याभागेऽस्ति सर्वाप्यानन्दवापिका ।
तत्र दिव्यं महामद्यं बकुलामोदमेदुरम् ।
प्रतप्तकनकच्छायं तज्जलत्वेन वर्त्तते ॥ ३,३५.२६ ॥
आनन्दवापिकागाधाः पूर्ववत्परिकीर्त्तिताः ।
सोपानादिक्रमश्चैव पक्षिणास्तत्र पूर्ववत् ॥ ३,३५.२७ ॥
तत्रत्यं सलिलं मद्यं पायम्पायं तटस्थिताः ।
विहरन्ति मदोन्मत्ताः शक्तयो मदपाटलाः ॥ ३,३५.२८ ॥
साक्षाच्च वारुणी देवी तत्र नौकाधिनायिका ।
यां सुधामालिनीमाहुर्यामा हुरमृतेश्वरीम् ॥ ३,३५.२९ ॥
सा तत्र मणिनौकास्थशक्तिसेनासमावृता ।
ईषदालोकमात्रेण त्रैलोक्यमददायिनी ॥ ३,३५.३० ॥
तरुणादित्य सङ्काश मदारक्तकपोलभूः ।
पारिजातप्रसूनस्रक्परिवीतकचाचिता ॥ ३,३५.३१ ॥
वहन्ती मदिरापूर्णं चषकं लोलदुत्पलम् ।
पक्वं पिशितखण्डं च मणिपात्रे तथान्यके ॥ ३,३५.३२ ॥
वारुणीतरणिश्रेणीनायिका तत्र राजते ।
साप्याज्ञयैव सर्वेषां मन्त्रिणीदण्डनाथयोः ।
ददाति वापीतरणं त्रिनेत्रस्यापि नान्यथा ॥ ३,३५.३३ ॥
अथ बुद्धिमहाशालान्तरे मारुतयोजने ।
अहङ्कारमहाशालः पूर्ववद्गोपुरान्वितः ॥ ३,३५.३४ ॥
तयोस्तु शालयोर्मध्ये कक्ष्याभूरखिला मुने ।
विमर्शवापिका नाम सौषुम्णामृतरूपिणी ॥ ३,३५.३५ ॥
तन्महायोगिनामन्तर्मनो मारुतपूरितम् ।
सुषुम्णदण्डविवरे जागर्ति परमामृतम् ॥ ३,३५.३६ ॥
तदेव तस्याः सलिलं वापिकायास्तपोधन ।
पूर्ववत्तटसोपानपक्षिनौका हि ताः स्मृताः ॥ ३,३५.३७ ॥
तत्र नौकेश्वरी देवी क्लरुकुल्लेतिविश्रुता ।
तमालश्यामलाकारा श्यामकञ्चुकधारिणी ॥ ३,३५.३८ ॥
नौकेश्वरीभिरन्याभिस्स्वसमानाभिरावृता ।
रत्नारित्रकरा नित्यमुल्लसन्मदमांसला ॥ ३,३५.३९ ॥
परितो भ्राम्यति मुने मणिनौकाधिरोहिणी ।
वापिका पयसागाधा पूर्ववत्परिकीर्तिता ॥ ३,३५.४० ॥
अहङ्कारस्य शालस्यान्तरे मारुतयोजने ।
सूर्यबिंबमहाशालश्चतुर्योजन मुच्छ्रितः ॥ ३,३५.४१ ॥
सूर्यस्यापि महानासीद्यदभूदरुणोदयः ।
तन्मध्यकक्ष्या वसुधा खचिता कुरविन्दकैः ॥ ३,३५.४२ ॥
तत्र बालातपोद्गारे ललिता परमेश्वरी ।
अतितीव्रतपस्तप्त्वा सूर्योऽलभत तां द्युतिम् ॥ ३,३५.४३ ॥
ग्रहराशिगणाः सर्वे नक्षत्राण्यपि तारकाः ।
तेऽत्रेव हि तपस्तप्त्वा लोकभासकतां गताः ॥ ३,३५.४४ ॥
मार्तण्डभैरवस्तत्र भिन्नो द्वादशधा मुने ।
शक्तिभिस्तैजसीभिश्च कोटिसंख्याभिरन्वितः ३५.४५ ।
महाप्रकाशरूपश्च मदारुणविलोचनः ।
कङ्कोलितरुखण्डेषु नित्यं क्रीडारसोत्सुकः ।
वर्तते विन्ध्यदर्पारे पारे यस्तन्मयस्थितः ॥ ३,३५.४६ ॥
महाप्रकाशनाम्रास्ति तस्य शक्तिर्महीयसी ।
चक्षुष्मत्यपराशक्तिश्छाया देवी परा स्मृता ॥ ३,३५.४७ ॥
इत्थं तिसृभि रिष्टाभिः शक्तिभिः परिवारितः ।
ललिताया महेशान्याः सदा विद्या हृदा जपन् ॥ ३,३५.४८ ॥
तद्भक्तानामिन्द्रियाणि भास्वराणि प्रकाशयन् ।
बहिरन्तस्तमोजालं समूलमवमर्दयन् ॥ ३,३५.४९ ॥
तत्र बालातपोद्गारे भाति मार्तण्डभैरवः ।
सूर्यबिम्बमहाशालान्तरे मारुतयोजने ॥ ३,३५.५० ॥
चन्द्रबिम्बमयः शालश्चतुर्योजनमुच्छ्रितः ।
पूर्ववद्गोपुरद्वारकपाटार्गलसंयुतः ॥ ३,३५.५१ ॥
तन्मध्यभूः समस्तापि चन्द्रिकाद्वारमुच्यते ॥ ३,३५.५२ ॥
तत्रैव चन्द्रिकाद्वारे तपस्तप्त्वा सुदारुणम् ।
अत्रिनेत्रसमुत्पन्नश्चन्द्रमाः कान्तिमाययौ ॥ ३,३५.५३ ॥
अत्र श्रीसोमनाथाख्यो वर्तते निर्मलाकृतिः ।
देवस्त्रलोक्यतिमिरध्वंसी संसारवर्तकः ॥ ३,३५.५४ ॥
पिबञ्च षकसम्पूर्णं निर्मलं चन्द्रिकामृतम् ।
सप्तविंशतिनक्षत्रशक्तिभिः परिवारितः ॥ ३,३५.५५ ॥
सदा पूर्णनिजाकारो निष्कलङ्को निजाकृतिः ।
तत्रैव चन्द्रिकाद्वारे वर्तते भगवाञ्छशी ॥ ३,३५.५६ ॥
ललिताया जपैध्यानैः स्तोत्रैः पूजाशतैरपि ।
अश्विन्यादियुतस्तत्र कालं नयति चन्द्रमाः ॥ ३,३५.५७ ॥
अन्याश्च शक्तयस्तारानामधेयाः सहस्रशः ।
सन्ति तस्यैव निकटे सा कक्षा तत्प्र पूरिता ॥ ३,३५.५८ ॥
अथ चन्द्रस्य शालस्यान्तरे मारुतयोजने ।
शृङ्गारो नाम शालोऽस्ति चतुर्योजनमुच्छ्रितः ॥ ३,३५.५९ ॥
शृङ्गारागाररूपैस्तु कौस्तुभैरिव निर्मितः ।
महाशृङ्गारपरिखा तन्मध्ये वसुधाखिला ॥ ३,३५.६० ॥
परिखावलये तत्र शृङ्गाररसपूरिते ।
शृङ्गारशक्तयः सन्ति नानाभूषणभासुराः ॥ ३,३५.६१ ॥
तत्र नौकासहस्रेण संचरन्त्यो मदोद्धताः ।
उपासते सदा सत्तं नौकास्थं कुसुमायुधम् ॥ ३,३५.६२ ॥
स तु संमोहयत्येव विश्वं सम्मोहनादिभिः ।
विशिखैरखिलांल्लोकांल्ललिताज्ञावशंवदः ॥ ३,३५.६३ ॥
तत्प्रभावेण संमूढा महापद्माटवीस्थलम् ।
वनितुं शुद्धवेषाश्च ललिताभक्तिनिर्भराः ।
सावधानेन मनसा यान्ति पद्माटदीस्थलम् ॥ ३,३५.६४ ॥
न गन्तुं पारयत्येव सुरसिद्धनराः सुराः ।
ब्रह्मविष्णुमहेशास्तु शुद्धचित्ताः स्वभावतः ।
तदाज्ञया परं यान्ति महापद्माटवीस्थलम् ॥ ३,३५.६५ ॥
संसारिणश्च रागान्धाबहुसंकल्पकल्पनाः ।
महाकुलाश्च पुरुषा विकल्पज्ञानधूसराः ॥ ३,३५.६६ ॥
प्रभूतरागगहनाः प्रौढव्यामोहदायिनीम् ।
महाशृङ्गारपरिखान्तरितुं न विचक्षणाः ॥ ३,३५.६७ ॥
यस्मादजेयसैन्दर्यस्त्रैलोक्यजनमोहनः ।
महाशृङ्गारपरिखाधिकारी वर्तते स्मरः ॥ ३,३५.६८ ॥
तस्य सर्वमतिक्रम्य महतामपि मोहनम् ।
महापद्माटवीं गन्तुं न कोऽपि भवति क्षमः ॥ ३,३५.६९ ॥
अथ शृङ्गारशालस्यान्तराले सप्तयोजने ।
चिन्तामणिगृहं नाम चक्रराजमहालयः ॥ ३,३५.७० ॥
तन्मध्यभूः समस्तापि परितो रत्नभूषिता ।
महापद्माटवी नाम सर्वसौभाग्यदायिनी ॥ ३,३५.७१ ॥
शृङ्गाराख्यामहाकालपर्यन्तं गोपुरं मुने ।
चतुर्दिक्ष्वप्येवमेव गोपुराणां व्यवस्थितिः ॥ ३,३५.७२ ॥
सर्वदिक्षु तदुक्तानि गोपुराणिशतं मुने ।
शालास्तु विंशतिः प्रोक्ताः पञ्चसंख्याधिकाः शुभाः ॥ ३,३५.७३ ॥
सर्वेषामपि शालानां मूलं योजनसंमितम् ।
पद्माटवीस्थलं वक्ष्ये सावधानो मुने शृणु ॥ ३,३५.७४ ॥
समस्तरत्नखचिते तत्र षड्योजनान्तरे ।
परितस्थलपद्मानि महाकाण्डानि संति वै ॥ ३,३५.७५ ॥
काण्डास्तु योजनायामा मृदुभिः कण्टकैर्वृताः ।
पत्राणि तालदशकमात्रायामानि संति वै ॥ ३,३५.७६ ॥
केसराश्च सरोजानां पञ्चतालसमायताः ।
दशतालसमुन्नम्रः कर्णिकाः परिकीर्तिताः ॥ ३,३५.७७ ॥
अत्यन्तकोमलान्यत्र सदा विकसितानि च ।
नवसौरभहृद्यानि विशङ्कटदलानि च ।
बहुशः संति पद्मानि कोटीनामपि कोटिशः ॥ ३,३५.७८ ॥
महापद्माटवीकक्ष्यापूर्वभागे घटोद्भव ।
क्रोशोन्नतो वह्निरूपो वर्तुलाकारसंस्थितः ॥ ३,३५.७९ ॥
अर्द्धयोजनविस्तारः कलाभिर्दशभिर्युतः ।
अर्घ्यपात्रमहाधारो वर्तते कुम्भसम्भव ॥ ३,३५.८० ॥
तदाधारस्य परितः शक्तयो दीप्तविग्रहाः ।
धूम्रार्चिःप्रमुखा भान्ति कला दश विभावसोः ॥ ३,३५.८१ ॥
दीप्ततारुण्यलक्ष्मीका नानालङ्कारभूषिताः ।
आधाररूपं श्रीमन्तं भगवन्तं हविर्भुजम् ।
परिष्वज्यैव परितो वर्तन्ते मन्मथालसाः ॥ ३,३५.८२ ॥
धूम्रार्चिरुष्णा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ।
सुश्रीःसुरूपा कपिला हव्यकव्यवहेतिच ।
एता दशकलाः प्रोक्ता वह्नेराधाररूपिणः ॥ ३,३५.८३ ॥
तत्राधारे स्थितो देवः पात्ररूपं समाश्रितः ।
सूर्यस्त्रिलोकीतिमिरप्रध्वंसप्रथितोदयः ॥ ३,३५.८४ ॥
सूर्यात्मकं तु तत्पात्रं सार्द्धयोजनमुन्नतम् ।
योजनायामविस्तारं महाज्योतिः प्रकाशितम् ॥ ३,३५.८५ ॥
तत्पात्रात्परितः सक्तवपुषः पुत्रिका इव ।
वर्तन्ते द्वादश कला अतिभास्वररोचिषः ॥ ३,३५.८६ ॥
तपिनी तापिनी धूम्रा मरीचिर्ज्वलिनी रुचिः ।
सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ ३,३५.८७ ॥
तस्मिन्पात्रे परानन्दकारणं परमामृतम् ।
सर्वौंषधि रसाढ्यं च हृद्यसौरभसंयुतम् ॥ ३,३५.८८ ॥
नीलोत्पलैश्च कह्लारैरम्लानैरतिसौरभैः ।
वास्यमानं सदा हृद्यं शीतलं लघु निर्मलम् ॥ ३,३५.८९ ॥
चलद्वीचिशतोदारं ललिताभ्यर्चनोचितम् ।
सदा शब्दायमानं च भासतेऽर्चनकारणम् ॥ ३,३५.९० ॥
तदर्घ्यममृतं प्रोक्तं निशाकरकलामयम् ।
तस्मिंस्तनीयसीर्नौका मणिकॢप्ताः समास्थिताः ।
निशाकरकला हृद्याः क्रीडन्ति नवयौवनाः ॥ ३,३५.९१ ॥
अमृता मानदा पूष्णा तुष्टिः पुष्टी रतिर्धृतिः ।
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ॥ ३,३५.९२ ॥
पूर्णा पूर्णामृता चेति कलाः पीयूष रोचिषः ।
नवयौवनसंपूर्णाः सदा प्रहसिताननाः ॥ ३,३५.९३ ॥
पुष्टिर्ऋद्धिः स्थितिर्मेधा कान्तिर्लक्ष्मीर्द्युतिर्धृतिः ।
जरा सिद्धिरिति प्रोक्ताः क्रीडन्ति ब्रह्मणः कलाः ॥ ३,३५.९४ ॥
स्थितिश्च पालिनी शान्तिश्चेश्वरी ततिकामिके ।
वरदाह्लादिनी प्रीतिर्दीर्घा चेति हरेः कलाः ॥ ३,३५.९५ ॥
तीक्ष्णा रौद्री भया निद्रा तन्द्रा क्षुत्क्रोधिनी त्रपा ।
उत्कारी मृत्युरप्येता रोद्ध्र्यस्तत्र स्थिताः कलाः ॥ ३,३५.९६ ॥
ईश्वरस्य कलाः पीताः श्वेताश्चैवारुणाः सिताः ।
चतस्र एव प्रोक्तास्तु शङ्करस्य कला अथ ॥ ३,३५.९७ ॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
इन्दिरा दीपिका चैव रेचिका चैव मोचिका ॥ ३,३५.९८ ॥
परा सूक्ष्मा च विन्ध्यारे तथा सूक्ष्मामृता कला ।
ज्ञानामृता व्याधिनी च व्यापिनी व्योमरूपिका ।
एताः षोडश संप्रोक्तास्तत्र क्रीडन्ति शक्तयः ॥ ३,३५.९९ ॥
रुद्रनौकासमारूढास्ततश्चेतश्च चञ्चलाः ।
शक्तिरुपेण खेलन्ति तत्र विद्याः सहस्रशः ॥ ३,३५.१०० ॥
अर्घ्यसंशोधनार्थाय कल्पिताः परमेष्ठिना ।
तदर्घ्यममृतं पीत्वा सदा माद्यन्ति शक्तयः ॥ ३,३५.१०१ ॥
महापद्माटवीवासा महाचक्रस्थिता अपि ।
मुहुर्मुहुर्नवनवं मुहुस्चाबद्धसौरभम् ॥ ३,३५.१०२ ॥
रत्नकुम्भसहस्रैश्च सुवर्णघटकोटिभिः ।
आपूर्यापूर्य सततं तदर्घ्यममृतं महत् ॥ ३,३५.१०३ ॥
चिन्तामणिगृहस्थानां परिचारकशक्तयः ।
अणिमादिकशक्तीनामर्घ्ययन्ति मदोद्धताः ॥ ३,३५.१०४ ॥
महापद्माटवीकक्ष्यापूर्वभागेऽर्घ्यकल्पनम् ।
इत्थ समीरितं पश्चात्तत्रान्यदपि कथ्यते ॥ ३,३५.१०५ ॥
इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने महापद्माटव्यार्घ्यस्थापनकथनं नाम पञ्चत्रिंशोऽध्यायः