ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः १३
← उत्तरभागः, अध्यायः १२ | ब्रह्माण्डपुराणम् अध्यायः १३ [[लेखकः :|]] |
उत्तरभागः, अध्यायः १४ → |
देवा ऊचुः
जय देवि जगन्मातर्जय देवि परात्परे ।
जय कल्याणनिलये जय कामकलात्मिके ॥ १ ॥
जयकारि च वामाक्षि जय कामाक्षि सुन्दरि ।
जयाखिलसुराराध्ये जय कामेशि मानदे ॥ २ ॥
जय ब्रह्ममये देवि ब्रह्मात्मकरसात्मिके ।
जय नारायणि परे नन्दिताशेषविष्टपे ॥ ३ ॥
जय श्रीकण्ठदयिते जय श्रीललितेंबिके ।
जय श्रीविजये देवि विजय श्रीसमृद्धिदे ॥ ४ ॥
जातस्य जायमानस्य इष्टापूर्तस्य हेतवे ।
नमस्तस्यै त्रिजगतां पालयित्र्यै परात्परे ॥ ५ ॥
कलामुहूर्तकाष्ठाहर्मासर्तुशरदात्मने ।
नमः सहस्रशीर्षायै सहस्रमुखलोचने ॥ ६ ॥
नमः सहस्रहस्ताब्जपादपङ्कजशोभिते ।
अणोरणुतरे देवि महतोऽपि महीयसि ॥ ७ ॥
परात्परतरे मातस्तेजस्तेजीयसामपि ।
अतलं तु भवेत्पादौ वितलं जानुनी तव ॥ ८ ॥
रसातलं कटीदेशः कुक्षिस्ते धरणी भवेत् ।
हृदयं तु भुवर्लोकः स्वस्ते मुखमुदाहृतम् ॥ ९ ॥
दृशश्चन्द्रार्कदहना दिशस्ते बाहवोंबिके ।
मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयोऽखिलाः ॥ १० ॥
क्रीडा ते लोकरचना सखा ते चिन्मयः शिवः ।
आहारस्ते सदानन्दो वासस्ते हृदये सताम् ॥ ११ ॥
दृश्यादृश्य स्वरूपाणि रूपाणि भुवनानि ते ।
शिरोरुहा घनास्ते तु तारकाः कुसुमानि ते ॥ १२ ॥
धर्माद्या बाहवस्ते स्युरधर्माद्यायुधानि ते ।
यमाश्च नियमाश्चैव करपादरुहास्तथा ॥ १३ ॥
स्तनौ स्वाहास्वधाकरौ लोकोज्जीवनकारकौ ।
प्राणायामस्तु ते नासा रसना ते सरस्वती ॥ १४ ॥
प्रत्याहारस्त्विद्रिंयाणि ध्यानं ते धीस्तु सत्तमा ।
मनस्ते धारणाशक्तिर्हृदयं ते समाधिकः ॥ १५ ॥
महीरुहास्तेङ्गरुहाः प्रभातं वसनं तव ।
भूतं भव्यं भविष्यच्च नित्यं च तव विग्रहः ॥ १६ ॥
यज्ञरूपा जगद्धात्री विश्वरूपा च पावनी ।
आदौ या तु दयाभूता ससर्ज निखिलाः प्रजाः ॥ १७ ॥
हृदयस्थापि लोकानामदृश्या मोहनात्मिका ॥ १८ ॥
नामरूपविभागं च या करोति स्वलीलया ।
तान्यधिष्ठाय तिष्ठन्ती तेष्वसक्तार्थकामदा ।
नमस्तस्यै महादेव्यै सर्वशक्त्यै नमोनमः ॥ १९ ॥
यदाज्ञया प्रवर्तन्ते वह्निसूर्यैदुमारुताः ।
पृथिव्यादीनि भूतानि तस्यै देव्यै नमोनमः ॥ २० ॥
या ससर्जादिधातारं सर्गादावादिभूरिदम् ।
दधार स्वयमेवैका तस्यै देव्यै नमोनमः ॥ २१ ॥
यथा धृता तु धरिणी ययाकाशममेयया ।
यस्यामुदेति सविता तस्यै देव्यै नमोनमः ॥ २२ ॥
यत्रोदेति जगत्कृत्स्नं यत्र तिष्ठति निर्भरम् ।
यत्रान्तमेति काले तु तस्यै देव्यै नमोनमः ॥ २३ ॥
नमोनमस्ते रजसे भवायै नमोनमः सात्त्विकसंस्थितायै ।
नमोनमस्ते तमसे हरायै नमोनमो निर्गुणतः शिवायै ॥ २४ ॥
नमोनमस्ते जगदेकमात्रे नमोनमस्ते जगदेकपित्रे ।
नमोनमस्तेऽखिलरूपतन्त्रे नमोनमस्तेऽखिलयन्त्ररूपे ॥ २५ ॥
नमोनमो लोकगुरुप्रधाने नमोनमस्तेऽखिलवाग्विभूत्यै ।
नमोऽस्तु लक्ष्म्यै जगदेकतुष्ट्यै नमोनमः शांभवि सर्वशक्त्यै ॥ २६ ॥
अनादिमध्यान्तमपाञ्चभौतिकं ह्यवाङ्मनोगम्यमतर्क्यवैभवम् ।
अरूपमद्वन्द्वमदृष्टगोचरं प्रभावमग्र्यं कथमंब वर्णये ॥ २७ ॥
प्रसीद विश्वेश्वरि विश्ववन्दिते प्रसीद विद्येश्वरि वेदरूपिणि ।
प्रसीद मायामयि मन्त्राविग्रहे प्रसीद सर्वेश्वरि सर्वरूपिणि ॥ २८ ॥
इति स्तत्वा महादेवीं देवाः सर्वे सवासवाः ।
भूयोभूयो नमस्कृत्य शरणं जगमुरञ्जसा ॥ २९ ॥
ततः प्रसन्ना सा देवी प्रणतं वीक्ष्य वासवम् ।
वरेण च्छन्दयामास वरदाखिलदेहिनाम् ॥ ३० ॥
इन्द्र उवाच
यदि तुष्टासि कर्याणि वरं दैत्येन्द्र पीडितः ।
दुर्धरं जीवितं देहि त्वां गताः शरणार्थिनः ॥ ३१ ॥
श्रीदेव्युवाच
अहमेव विनिर्जित्य भण्डं दैत्यकुलोद्भवम् ।
अचिरात्तव दास्यामि त्रैलोक्यं सचराचरम् ॥ ३२ ॥
निर्भया मुदिताः सन्तु सर्वे देवगणास्तथा ।
ये स्तोष्यन्ति च मां भक्त्या स्तवेनानेन मानवाः ॥ ३३ ॥
भाजनं ते भविष्यन्ति धर्मश्रीयशसां सदा ।
विद्याविनयसंपन्ना नीरोगा दीर्घजीविनः ॥ ३४ ॥
पुत्रमित्रकल त्राढ्या भवन्तु मदनुग्रहात् ।
इति लब्धवरा देवा देवेन्द्रोऽपि महाबलः ॥ ३५ ॥
आमोदं परमं जग्मुस्तां विलोक्य मुहुर्मुहुः ॥ ३६ ॥
इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने ललितास्तवराजो नाम त्रयोदशोऽध्यायः