ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ३२
← मध्यभागः, अध्यायः ३१ | ब्रह्माण्डपुराणम् अध्यायः ३२ [[लेखकः :|]] |
मध्यभागः, अध्यायः ३३ → |
वसिष्ठ उवाच
ब्रह्मणो वचनं श्रुत्वा स प्रणम्य जगद्गुरुम् ।
प्रसन्नचेताः सुभृशं शिवलोकं जगाम ह ॥ २,३२.१ ॥
लक्षयोजनमूर्द्ध्वं च ब्रह्मलोका द्विलक्षणम् ।
अथनिर्वचनीयं च योगिगम्यं परात्परम् ॥ २,३२.२ ॥
वैकुण्ठो दक्षिणे यस्माद्गौरीलोकश्च वामतः ।
यदधो ध्रुवलोकश्च सर्वलोकपरस्तु सः ॥ २,३२.३ ॥
तपोवीर्यगती रामः शिवलोकं ददर्श च ।
उपमानेन रहितं नानाकौतुकसंयुतम् ॥ २,३२.४ ॥
वसंति यत्र योगीन्द्राः सिद्धाः पाशुपताः शुभाः ।
कोटिकल्पतपः पुण्याः शान्ता निर्मत्सरा जनाः ॥ २,३२.५ ॥
पारिजातमुखैर्वृक्षैः शोभितं कामधेनुभिः ।
योगेन योगिना सृष्टं स्वेच्छया शङ्करेण हि ॥ २,३२.६ ॥
शिल्पिनां गुरुणा स्वप्ने न दृष्टं निश्वकर्मणा ।
सरोवरशतैर्दिव्यैः पद्मरागविराजितैः ॥ २,३२.७ ॥
शोभितं चातिरम्यं च संयुक्तं मणिवेदिभिः ।
सुवर्णरत्नरचितप्राकारेण समावृतम् ॥ २,३२.८ ॥
अत्यूर्द्ध्वमंबरस्पर्शि स्वच्छं क्षीरनिभंपरम् ।
चतुर्द्वारसमायुक्तं शोभितं मणिवेदिभिः ॥ २,३२.९ ॥
रक्तसोपानयुक्तैश्च रत्नस्तंभकपाटकैः ।
नानाचित्रविचित्रैश्च शोभितैः सुमनोहरैः ॥ २,३२.१० ॥
तन्मधये भवनं रम्यं सिंहद्वारोपशोभितम् ।
ददर्शरामो धर्मात्मा विचित्रमिव संगतः ॥ २,३२.११ ॥
तत्र स्थितौ द्वार पालौ ददर्शातिभयङ्करौ ।
महाकरालदन्तास्यौ विकृतारक्तलोचनौ ॥ २,३२.१२ ॥
दग्धशैलप्रतीकाशौ महाबलपराक्रमौ ।
विभूतिभूषिताङ्गौ च व्याघ्रचर्मांबरौ च तौ ॥ २,३२.१३ ॥
त्रिशूलपट्टिशधरौ ज्वलन्तौ ब्रह्मतेजसा ।
तौ दृष्ट्वा मनसा भीतः किञ्चिदाह विनीतवत् ॥ २,३२.१४ ॥
नमस्करोमि वामीशौ शङ्करं द्रष्टुमागतः ।
ईश्वराज्ञां समादाय मामथाज्ञप्तुमर्हथ ॥ २,३२.१५ ॥
तौतु तद्वचनं श्रुत्वा गृहीत्वाज्ञां शिवस्य च ।
प्रवेष्टुमाज्ञां ददतुरीश्वरानुचरौ च तौ ॥ २,३२.१६ ॥
स तदाज्ञामनुप्राप्य विवेशान्तः पुरं मुदा ।
तत्रातिरम्यां सिद्धौघैः समाकीर्णां सभां द्विजः ॥ २,३२.१७ ॥
दृष्ट्वा विस्मयमापेदे सुगन्धबहुलां विभोः ।
तत्रापश्यच्छिवं शान्तं त्रिनेत्रं चन्द्रशेखरम् ॥ २,३२.१८ ॥
त्रिशूलशोभितकरं व्याघ्रचर्मवरांबरम् ।
विभूतिभूषिताङ्गं च नागयज्ञोपवीतिनम् ॥ २,३२.१९ ॥
आत्मारामं पूर्णकामं कोटिसूर्यसमप्रभम् ।
पञ्चाननं दशभुजं भक्तानुग्रहविग्रहम् ॥ २,३२.२० ॥
योगज्ञाने प्रब्रुवन्तं सिद्धेभ्यस्तर्कमुद्रया ।
स्तूयमानं च योकीन्द्रैः प्रमथप्रकरैर्मुदा ॥ २,३२.२१ ॥
भैरवैर्योगिनीभिश्च वृतं रुद्रगणैस्तथा ।
मूर्ध्ना नमाम तं दृष्ट्वा रामः परमया मुदा ॥ २,३२.२२ ॥
वामभागे कार्त्तिकेयं दक्षिणे च गणेश्वरम् ।
नन्दीश्वरं महाकालं वीरभद्रं च तत्पुरः ॥ २,३२.२३ ॥
क्रोडे दुर्गां शतभुजां दृष्ट्वा नत्वाथ तामपि ।
स्तोतुं प्रचक्रमे विद्वान्गिरा गद्गदया विभुम् ॥ २,३२.२४ ॥
नमस्ये शिवमीशानं विभुं व्यापकमव्ययम् ।
भुजङ्गभूषणं चोग्रं नृकपालस्रगुज्ज्वलम् ॥ २,३२.२५ ॥
यो विभुः सर्वलोकानां सृष्टिस्थितिविनाशकृत् ।
ब्रह्मादिरूपधृग्ज्येष्ठस्तं त्वां वेद कृपार्णवम् ॥ २,३२.२६ ॥
वेदा न शक्ता यं स्तोतु मवाङ्मनसगोचरम् ।
ज्ञानबुद्ध्योरसाध्यं च निराकारं नमाम्यहम् ॥ २,३२.२७ ॥
शक्रादयः सुरगणा ऋषयो मनवोऽसुराः ।
न यं विदुर्यथातत्त्वं तं नमामि परात्परम् ॥ २,३२.२८ ॥
यस्यांशांशेन सृजयन्ते लोकाः सर्वे चराचराः ।
लीयन्ते च पुनर्यस्मिंस्तं नमामि जगन्मयम् ॥ २,३२.२९ ॥
यस्येषत्कोपसंभूतो हुताशो दहतेऽखिलम् ।
सोर्द्ध्वलोकं सपातालं तं नमामि हरं परम् ॥ २,३२.३० ॥
पृथ्वीपवन वह्न्यभभोनभोयज्वेन्दुभास्कराः ।
मूर्त्तयोऽष्टौ जगत्पूज्यास्तं यज्ञं प्रणमाम्यहम् ॥ २,३२.३१ ॥
यः कालरूपो जगदादिकर्त्ता पाता पृथग्रूपधरो जगन्मयः ।
रर्त्ता पुना रुद्रवपुस्तथान्ते तं कालरूपं शरणं प्रपद्ये ॥ २,३२.३२ ॥
इत्येवमुक्त्वा स तु भार्गवो मुदा पषात तस्याङ्घ्रि समीप आतुरः ।
उत्थाप्य तं वामकरेण लीलया दध्रे तदा मूर्ध्नि करं कृपार्णवः ॥ २,३२.३३ ॥
आशीर्भिरेनं ह्यभिनन्द्य सादरं निवेशयामास गणेशपूर्वतः ।
उवाच वामामभिवीक्ष्य चाप्युमां कृपार्द्रदृष्ट्याखिलकामपूरकः ॥ २,३२.३४ ॥
शिव उवाच
कस्त्वं वटो कस्यकुले प्रसूतः किं कार्यमुद्दिश्य भवानिहागतः ।
विनिर्द्दिशाहं तव भक्तिभावतः प्रीतः प्रदद्यां भवतो मनोगतम् ॥ २,३२.३५ ॥
इत्येवमुक्तः स भृगुर्महात्मना हरेण विश्वार्त्तिहरेण सादरम् ।
पुनश्च नत्वा विबुधां पति गुरुं कृपासमुद्रं समुवाच सत्वरम् ॥ २,३२.३६ ॥
परशुराम उवाच
भृगोश्चाहं कुले जातो जमदग्निसुतौ विभो ।
रामो नाम जगद्वन्द्यं त्वामहं शरणं गतः ॥ २,३२.३७ ॥
यत्कार्यार्थमहं नाथ तव सांनिध्यमागतः ।
तं प्रसाधय विश्वेश वाञ्छितं काममेव मे ॥ २,३२.३८ ॥
मृगयामागतस्यापि कार्त्तवीर्यस्य भूपतेः ।
आतिथ्यं कृतवान् देव जमदग्निः पिता मम ॥ २,३२.३९ ॥
राजा तं स बलाल्लोभात्पातयामास मन्दधीः ।
सा धेनुस्तं मृतं दृष्ट्वा गवां लोकं जगाम ह ॥ २,३२.४० ॥
राजा न शोचन्मरणं पितुर्मम निरागसः ।
जगाम स्वपुरं पश्चान्माता मे प्रारुदद्भृशम् ॥ २,३२.४१ ॥
तज्ज्ञात्वा लोकवृत्तज्ञो भृगुर्नः प्रपितामहः ।
आजगाम महादेव ह्यहमप्यागतो वनात् ॥ २,३२.४२ ॥
मया मह सुदुःखार्त्तान्भ्रातॄन्मात्रासहैव मे ।
सांत्वयित्वा स मन्त्रज्ञोऽजीवयत्पितरं मम ॥ २,३२.४३ ॥
आनागते भृगौ मातुर्दुःखेनाहं प्रकोपितः ।
प्रतिज्ञां कृतवान्देव सात्वयन्मातरंस्वकाम् ॥ २,३२.४४ ॥
त्रिःसप्तकृत्वो यदुरस्ताडितं मातुरात्मनः ।
तावत्संख्यमहं पृथ्वीं करिष्ये क्षत्रवर्जिताम् ॥ २,३२.४५ ॥
इत्येवं परिपूर्णा मे कर्त्ता देवो जगत्पतिः ।
महादेवो ह्यतो नाथ त्वत्सकाणमिहागतः ॥ २,३२.४६ ॥
वसिष्ठ उवाच
इत्येवं तद्वचः श्रुत्वा दृष्ट्वा दुर्गामुखं हरः ।
बभूवानम्रवदनस्छिन्तयानः क्षणं तदा ॥ २,३२.४७ ॥
एतस्मिन्नन्तरे दुर्गा विस्मिता प्राहसद्भृशम् ।
उवाच च महाराज भार्गवं वैरसाधकम् ॥ २,३२.४८ ॥
तपस्विन्द्विजपुत्र क्ष्मां निर्भूपां कर्त्तुमिच्छसि ।
त्रिः सप्तकृत्वः कोपेन साहसस्ते महान्बटो ॥ २,३२.४९ ॥
हन्तुमिच्छसि निःशस्त्रः सहस्रार्जुनमीश्वरम् ।
भ्रूभङ्गलीलया येन रावणोऽपि निराकृतः ॥ २,३२.५० ॥
तस्मै प्रदत्तं दत्तेन श्रीहरेः कवचं पुरा ।
शक्तिरत्यर्थवीर्या च तं कथं हन्तुमिच्छसि ॥ २,३२.५१ ॥
शङ्करः करुणासिद्धः कर्त्तुं चाप्यन्यथा विभुः ।
न चान्यः शङ्करात्पुत्र सत्कार्यं कर्त्तुमीश्वरः ॥ २,३२.५२ ॥
अथ देव्या अनुमतिं प्राप्य शंभुर्द्दयार्णवः ।
अभ्यधाद्भद्रया वाया जमदग्निसुतं विभुः ॥ २,३२.५३ ॥
शिव उवाच
अद्यप्रभृति विप्र त्वं मम स्कन्दसमो भव ।
दास्यामि मन्त्रं दिव्यं ते कवचं च महामते ॥ २,३२.५४ ॥
लीलया यत्प्रसादेन कार्त्तवीर्यं हनिष्यसि ।
त्रिः सप्तकृत्वो निर्भूपां महीं चापि करिष्यसि ॥ २,३२.५५ ॥
इत्युक्त्वा शङ्करस्तस्मै ददौ मन्त्रं सुदुर्लभम् ।
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥ २,३२.५६ ॥
नागपाशं पाशुपतं ब्रह्मास्त्रं च सुदुर्ल्लभम् ।
नारायणास्त्रमाग्नेयं वायव्यं वारुणं तथा ॥ २,३२.५७ ॥
घान्धर्वं गारुडं चैव जृंभणास्त्रं महाद्भुतम् ।
गदां शक्तिं च परशुं शूलं दण्डमनुत्तमम् ॥ २,३२.५८ ॥
शस्त्रास्त्रग्राममखिलं प्रहृष्टः संबभूव ह ।
नमस्कृत्य शिवं शान्तं दुर्गां स्कन्दं गणेश्वरम् ॥ २,३२.५९ ॥
परिक्रम्य ययौ रामः पुष्करं तीर्थमुत्तमम् ।
सिद्धं कृत्वा शिवोक्तं तु मन्त्रं कवचमुत्तमम् ॥ २,३२.६० ॥
साधयामास निखिलं स्वकार्यं भृगुनन्दनः ।
निहत्य कार्त्तवीर्यं तं ससैन्यं सकुलं मुदा ।
विनिवृत्तो गृहं प्रागात्पितुः स्वस्य भृगूद्वहः ॥ २,३२.६१ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते द्वात्रिंशत्तमोऽध्यायः ॥ ३२॥