ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ६१
← मध्यभागः, अध्यायः ६० | ब्रह्माण्डपुराणम् अध्यायः ६१ [[लेखकः :|]] |
मध्यभागः, अध्यायः ६२ → |
सूत उवाच
विसर्गं मनुपुत्राणां विस्तरेण निबोधत ।
पृषध्रो हिंसयित्वा तु गुरोर्गां निशि तत्क्षये ॥ २,६१.१ ॥
शापाच्छूद्रत्वमापन्नश्च्यवनस्य महात्मनः ।
करूषस्य तु कारूषाः क्षत्त्रिया युद्धदुर्मदाः ॥ २,६१.२ ॥
सहस्रं क्षत्त्रियगणो विक्रान्तः संबभूव ह ।
नाभागो दिष्टपुत्रस्तु विद्वानासीद्भलन्दनः ॥ २,६१.३ ॥
भलन्दनस्य पुत्रोऽभूत्प्रांशुर्नाम महाबलः ।
प्रांशोरेकोऽभवत्पुत्रः प्रजापतिसमो नृपः ॥ २,६१.४ ॥
संवर्तेन दिवं नीतः ससुहृत्सहबान्धवः ।
विवादोऽत्र महानासीत्संवर्त्तस्य बृहस्पतेः ॥ २,६१.५ ॥
ऋद्धिं दृष्ट्वा तु यज्ञस्य क्रुद्धस्तस्य बृहस्पतिः ।
संवर्त्तेन तते यज्ञे चुकोप स भृशं तदा ॥ २,६१.६ ॥
लोकानां सहि नाशाय दैवतैर्हि प्रसादितः ।
मरुत्तश्चक्रवर्त्ती स नरिष्यन्तमवासवान् ॥ २,६१.७ ॥
नरिष्यन्तस्य दायादो राजा दण्डधरो दमः ।
तस्य पुत्रस्तु विज्ञातो राजासीद्राष्ट्रवर्द्धनः ॥ २,६१.८ ॥
सुधृतिस्तस्य पुत्रस्तु नरः सुधृतितः पुनः ।
केवलस्य पुत्रस्तु बन्धुमान्केवलात्मजः ॥ २,६१.९ ॥
अथ बन्धुमतः पुत्रोधर्मात्मा वेगवान्नृप ।
बुधो वेगवतः पुत्रस्तृणबिन्दुर्बुधात्मजः ॥ २,६१.१० ॥
त्रेतायुगमुखे राजा तृतीये संबभूव ह ।
कन्या तु तस्येडविडामाता विश्रवसो हि सा ॥ २,६१.११ ॥
पुत्रो योऽस्य विशालोऽभूद्राजा परमधार्मिकः ।
दाश्वान्प्रख्यातवीर्य्यौजा विशाला येन निर्मिता ॥ २,६१.१२ ॥
विशालस्य सुतो राजा हेमचन्द्रो महाबलः ।
सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः ॥ २,६१.१३ ॥
सुचन्द्रतनयो राजा धूम्राश्व इति विश्रुतः ।
धूम्राश्वतनयो विद्वान्सृंजयः समपद्यत ॥ २,६१.१४ ॥
सृञ्जयस्य सुतः श्रीमान्सहदेवः प्रतापवान् ।
कृशाश्वः सहदेवस्य पुत्रः परमधार्मिकः ॥ २,६१.१५ ॥
कृशाश्वस्य महातेजा सोमदत्तः प्रतापवान् ।
सोमदत्तस्य राजर्षेः सुतोऽभूज्जनमेजयः ॥ २,६१.१६ ॥
जनमेजयात्मजश्चैव प्रमतिर्नाम विश्रुतः ।
तृणबिन्दुप्रभावेण सर्वे वैशालका नृपाः ॥ २,६१.१७ ॥
दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ।
शर्यातेर्मिथुनं त्वासीदानर्त्तो नाम विश्रुतः ॥ २,६१.१८ ॥
पुत्रः सुकन्या कन्या च भार्या या च्यवनस्य च ।
आनर्त्तस्य तु दायादो रेवो नाम सुवीर्यवान् ॥ २,६१.१९ ॥
आनर्त्तविषयो यस्य पुरी चापि कुशस्थली ।
रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ॥ २,६१.२० ॥
ज्येष्ठो भ्रातृशतस्यासीद्राज्यं प्राप्य कुशस्थलीम् ।
कन्यया सह श्रुत्वा च गान्धर्वं ब्रह्मणोंऽतिके ॥ २,६१.२१ ॥
मुहर्त्तं देवदेवस्य मार्त्यं बहुयुगं विभो ।
आजगाम युवा चैव स्वां पुरीं यादवैर्वृताम् ॥ २,६१.२२ ॥
कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् ।
भोजवृष्ण्यन्धकैर्गुप्तां वसुदेवपुरोगमैः ॥ २,६१.२३ ॥
तां कथां रेवतः श्रुत्वा यथातत्त्वमरिन्दमः ।
कन्यां तु बलदेवाय सुव्रतां नाम रेवतीम् ।
दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः ॥ २,६१.२४ ॥
रेमे रामश्च धर्मात्मा रेवत्या सहितः किल ।
तां कथामृषयः श्रुत्वा पप्रच्छुक्तदनन्तरम् ॥ २,६१.२५ ॥
ऋषय ऊचुः
कथं बहुयुगे काले समतीते महामते ।
न जरा रेवतीं प्राप्ता रैवतं वा ककुद्मिनम् ।
एतच्छुश्रूषमाणान्नो गान्धर्वं वद चैव हि ॥ २,६१.२६ ॥
सूत उवाच
न जरा क्षुत्पिपासे वा न च मृत्युभयं ततः ।
न च रोगः प्रभवति ब्रह्मलोकं गतस्य ह ॥ २,६१.२७ ॥
गान्धर्वं प्रति यच्चापि पृष्टस्तु मुनिसत्तमाः ।
ततोऽहं संप्रवक्ष्यामि याथातथ्येन सुव्रताः ॥ २,६१.२८ ॥
सप्त स्वरास्त्रयो ग्रामा मूर्छनास्त्वेकविंशतिः ।
तानाश्चैकोनपञ्चाशदित्येत्स्वरमण्डलम् ॥ २,६१.२९ ॥
षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा ।
धैवतश्चापि विज्ञेयस्तथा चापि निषादकः ॥ २,६१.३० ॥
सौवीरा मध्यमा ग्रामा हरिणाश्च तथैव च ॥ २,६१.३१ ॥
तस्याः कालोयनोपेताश्चतुर्थाशुद्धमध्यमाः ।
नग्निं च पौषा वै देव दृष्ट्वा काञ्च यथाक्रमः ॥ २,६१.३२ ॥
मध्यमग्रामिकाख्याता षड्जग्रामा निबोधत ।
उत्तरं मन्द्रा रजनी तथा वाचोन्नरायताः ॥ २,६१.३३ ॥
मध्यषड्जा तथा चैव तथान्या चाभिमुद्गणा ।
गान्धारग्रामिका श्यामा कीर्तिमाना निबोधत ॥ २,६१.३४ ॥
अग्निष्टोमं तु माद्यं तु द्वितीयं वाजपेयिकम् ।
यवरातसूयस्तु षष्ठवत्तु सुवर्मकम् ॥ २,६१.३५ ॥
सप्त गौसवना नाम महावृष्टिकताष्टमाम् ।
ब्रह्मदानं च नवमं प्राजापत्यमनन्तरम् ।
नागयक्षाश्रयं विद्वान् तद्गोत्तरतथैव च ॥ २,६१.३६ ॥
पदक्रान्तमृगक्रान्तं विष्णुक्रान्तमनोहरा ।
सूर्यकान्तधरेण्यैव संतकोकिलविश्रुतः ॥ २,६१.३७ ॥
तेनवानित्यपवशपिशाचातीवनह्यपि ।
सावित्रमर्धसावित्रं सर्वतोभद्रमेव च ॥ २,६१.३८ ॥
मनोहरमधात्र्यं च गन्धर्वानुपतश्च यः ।
अलंबुषेसेष्टमथो विष्णुवैणवरावुभौ ॥ २,६१.३९ ॥
सागराविजयं चैव सर्वभूतमनोहरः ।
हतोत्सृष्टो विजानीत स्कन्धं तु प्रियमेव च ॥ २,६१.४० ॥
मनोहरमधात्र्यं च गन्धर्वानुपतश्च यः ।
अलंबुसेष्टस्य तथा नारदप्रिय एव च ॥ २,६१.४१ ॥
कथितो भीमसेनेन नगरातानयप्रियः ।
विकलोपनीतविनताश्रीराख्यो भार्गवप्रियः ॥ २,६१.४२ ॥
चतुर्दश तथा पञ्चदशेच्छन्तीह नारदः ।
ससौवीरां सुसोवीरा ब्रह्मणो ह्यपगीयते ॥ २,६१.४३ ॥
उत्तरादिस्वरश्चैव ब्रह्मा वै देवतास्त्रयः ।
हरिदेशसमुत्पन्ना हरिणस्याव्यजायत ॥ २,६१.४४ ॥
मूर्छना हरिणा ते वै चन्द्रस्यास्याधिदैवतम् ।
करोपनीता विवृतावनुद्रिः स्वरमण्डले ॥ २,६१.४५ ॥
साकलोपनतातस्मान्मनुतस्यान्नदैवतः ।
मनुदेशाः समुत्पन्ना मूर्च्छनाशुद्धमात्मना ॥ २,६१.४६ ॥
तस्मात्तस्मान्मृगामर्गीमृगेन्द्रोस्याधिदैवता ।
सावश्रमसमाद्युम्ना अनेकापौरुषानखान् ॥ २,६१.४७ ॥
मूर्च्छनायोजनाह्येषास्याद्रजसारजनीततः ।
तानि उत्तर मद्रांसपद्गदैवतकं विदुः ॥ २,६१.४८ ॥
तस्मादुत्तरतायावत्प्रथमं स्वायमं विदुः ।
तमोदुत्तरमैद्रोयदेवतास्याद्रुवेन च ॥ २,६१.४९ ॥
अपामदुत्तरत्वावधैवतस्योत्तरायणः ।
स्यादिजमूर्छनाह्येच पितरः श्राद्धदेवताः ॥ २,६१.५० ॥
शुद्धषड्जस्वर कृत्वा यस्मादग्निमहर्षयः ।
उपैति तस्मान्नजानी याच्छुद्धयच्छिकरासभा ॥ २,६१.५१ ॥
इत्येता मूर्छनाः कृत्वा यस्यामीदृशभावनः ।
पक्षिणां मूर्छनाः श्रुत्वा पक्षोका मूर्छनाः स्मृताः ॥ २,६१.५२ ॥
नागादृष्टिविषागीतानोपसर्पन्तिमूर्छनाः ।
नानासाधारमश्चैववडवात्रिविदस्तथा ॥ २,६१.५३ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे गान्धर्वमूर्छनालक्षणवर्णनं नामैकषष्टितमोऽध्यायः ॥ ६१॥