ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ५९

← मध्यभागः, अध्यायः ५८ ब्रह्माण्डपुराणम्
अध्यायः ५९
[[लेखकः :|]]
मध्यभागः, अध्यायः ६० →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

बृहस्पतिरुवाच
ऋषयस्त्वेव मुक्तास्तु परं हर्षमुपागताः ।
परं शुश्रूषया भूयः पप्रच्छुस्तदनन्तरम् ॥ २,५९.१ ॥
ऋषय ऊचुः
वंशानामानुपूर्व्येण राज्ञां चामिततेजसाम् ।
स्थितिं चैषां प्रभावं च ब्रूहि नः परिपृच्छताम् ॥ २,५९.२ ॥
एवमुक्तस्ततस्तैस्तु तदासौ लोमहर्षणः ।
शृण्वतामुत्तराख्याने ऋषीणां वाक्य कोविदः ॥ २,५९.३ ॥
अख्यानकुशलो भूयः परं वाक्यमुवाच ह ।
ब्रुवतो मे निबोधंश्च ऋषिराह यथा मम ॥ २,५९.४ ॥
वंशानामानुपूर्व्येण राज्ञां चामिततेजसाम् ।
स्थितिं चैषां प्रभावं च क्रमतो मे निबोधत ॥ २,५९.५ ॥
वरुणस्य सपत्नीकान् स्तुता देवी उदाहृता ।
तस्याः पुत्रौ कलिर्वैद्यः स्तुता च सुरसुंदरी ॥ २,५९.६ ॥
कलिपुत्रौ महावीर्यौं जयश्च विजयश्च ह ।
वैद्यपुत्रौ घृणिश्चैव मुनिश्चैव महाबलौ ॥ २,५९.७ ॥
प्रत्तानामनु कामानामन्योन्यस्य प्रभक्षिणौ ।
भक्ष्यित्वा तावन्योन्यं विनाशं समवाप्नुतः ॥ २,५९.८ ॥
कलिः सुरायाः संज्ञेयस्तस्य पुत्रो मदः स्मृतः ।
स्मृता हिंसा कलेर्भार्या श्रेष्ठा या निकृतस्मृतिः ॥ २,५९.९ ॥
प्रसूतान्ये कलेः पुत्राश्चत्वारः पुरुषादकाः ।
नाके विघ्नश्च विख्यातो भद्रमोविधमस्तथा ॥ २,५९.१० ॥
अशिरस्कतया विघ्नो नाकश्चैवाशरीरवान् ।
भद्रमश्चैकहस्तोऽभूद्विधमश्चैकपात्स्मृतः ॥ २,५९.११ ॥
भद्रमस्य तथापत्नी तामसी पूतना तथा ।
रेवती विधमस्यापि तयोः पुत्राः सहस्रशः ॥ २,५९.१२ ॥
नाकस्य शकुनिः पत्नी विघ्नस्य च अयो मुखी ।
राक्षसास्तु महावीर्याः संध्याद्वयविचारिणः ॥ २,५९.१३ ॥
रेवतीपूतनापुत्रा नैऋता नामतः स्मृताः ।
ग्रहास्ते राक्षसाः सर्वे बालानां तु विशेषतः ॥ २,५९.१४ ॥
स्कन्दस्तेषामधिपतिर्ब्रह्मणोऽनुमतः प्रभुः ।
बृहस्पतेर्या भगिनी वरस्त्री ब्रह्मचारिणी ॥ २,५९.१५ ॥
योगसिद्धा जगत्कृत्स्नमसक्ता चरते सदा ।
प्रभासस्य तु सा भार्या वसूनामष्टमस्य च ॥ २,५९.१६ ॥
विश्वकर्मा सुरस्तस्या जातः शिल्पिप्रजापतिः ।
त्वष्टा विराजो रूपाणि धर्मपौत्र उदारधीः ॥ २,५९.१७ ॥
कर्त्ता शिल्पिसहस्राणां त्रिदशानां तु योगतः ।
यःसर्वेषां विमानानि देवतानां चकार ह ॥ २,५९.१८ ॥
मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः ।
प्रह्रादी विश्रुता तस्य पत्नी त्वष्टुर्विरोचना ॥ २,५९.१९ ॥
विरोचनस्य भगिनी माता त्रिशिरसस्तथा ।
देवाचार्यस्य महतो विश्वरूपस्य धीमतः ॥ २,५९.२० ॥
विश्वकर्मात्मजश्वैव विश्वकर्मा मयः स्मृतः ।
सुरेणुरिति विख्याता स्वसा तस्य यवीयसी ॥ २,५९.२१ ॥
त्वाष्ट्री या सवितुर्भार्या पुनः संज्ञेति विश्रुता ।
प्रासूत सा महाभागं मनुं ज्येष्ठं विवस्वतः ॥ २,५९.२२ ॥
यमौ प्रासूत च पुनर्यमं च यमुनां च ह ।
सा तु गत्वा कुरून्देवी वडवा रूपधारिणी ॥ २,५९.२३ ॥
सवितुश्चास्य रूपस्य नासिकाभ्यां तु तौ स्मृतौ ।
प्रासूत सा महाभाग त्वन्तरिक्षेऽश्विनौ किल ॥ २,५९.२४ ॥
नासत्यं चैव दस्रं च मार्त्तण्डस्यात्मजावुभौ ।
ऋषय ऊचुः
कस्मान्मार्त्तण्ड इत्येष विवस्वानुदितो बुधैः ॥ २,५९.२५ ॥
किमर्थं सासुरूपा वै नासिकाभ्यामसूयत ।
एतद्वेदितुमिच्छामो सर्वं नो ब्रूहि पृच्छताम् ॥ २,५९.२६ ॥
सूत उवाच
चिरोत्पन्नमतिर्भिन्नमण्डं त्वष्ट्रा विदारितम् ।
गर्भवधं भ्रान्तः कश्यपो विद्रुतो भवेत् ॥ २,५९.२७ ॥
अण्डे द्विधाकृते त्वण्डं दृष्ट्वा त्वष्टेदमब्रवीत् ।
नैतन्न्यूनं भवादण्डं मार्त्तण्डस्त्वं भवानघ ॥ २,५९.२८ ॥
न खल्वयं मृतोंऽडस्थ इति स्नेहात्पिताब्रवीत् ।
तस्य तद्वचनं श्रुत्वा नामान्वर्थमुदाहरन् ॥ २,५९.२९ ॥
यन्मार्त्तण्डो भवेत्युक्तस्त्वण्डात्सोंडे द्विधाकृते ।
तस्माद्विवस्वान्मार्त्तण्डः पुराणज्ञैर्विभाव्यते ॥ २,५९.३० ॥
ततः प्रजाः प्रवक्ष्यामि मार्त्तण्डस्य विवस्वतः ।
विजज्ञे सवितुर्भार्या संज्ञा पुत्रांस्तु त्रीन्पुनः ॥ २,५९.३१ ॥
मनुं यमीं यमं चैव छाया सा तपती तथा ।
शनैश्चरं तथैवैते मार्त्तण्डस्यात्मजाः स्मृताः ॥ २,५९.३२ ॥
विवस्वान्कश्यपाज्जज्ञे दाक्षायिण्यां महायशाः ।
तस्य संज्ञाभवद्भार्या त्वाष्ट्री देवी विवस्वतः ॥ २,५९.३३ ॥
सुरेणुरिति विख्याता पुनः संज्ञेति विश्रुता ।
सा तु भार्या भगवतो मार्त्तण्डस्यातितेजसः ॥ २,५९.३४ ॥
न खल्वये मृतो ह्यण्डे इति स्नेहात्तमब्रवीत् ।
अजानन्कश्यपः स्नेहात्मार्त्तण्ड इति चोच्यते ॥ २,५९.३५ ॥
तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः ।
येनापि तापयामास त्रील्लोङ्कान्कश्यपात्मजः ॥ २,५९.३६ ॥
त्रीण्यपत्यानि संज्ञायां जनयामास वै रविः ।
द्वौ सुतौ तु महावीर्यौं कन्यैका विदितैव च ॥ २,५९.३७ ॥
मनुर्वैवस्वतो ज्येष्ठः श्राद्धदेवः प्रजापतिः ।
ततो यमो यमी चैव यमजौ संबभूवतुः ॥ २,५९.३८ ॥
असह्यतेजस्तद्रूपं दृष्ट्वा संज्ञा विवस्वतः ।
असहन्ती स्वकां छायां सवर्णां निर्ममे पुनः ॥ २,५९.३९ ॥
महाभागा तु सा नारी तस्याश्छायासमुद्गता ।
प्राञ्जलिः प्रयता भूत्वा पुनः संज्ञामभाषत ॥ २,५९.४० ॥
वदस्व किं मया कार्यं सा संज्ञा तामथाब्रवीत् ।
अहं यास्यापि भद्रं ते स्वमेव भवनं पितुः ॥ २,५९.४१ ॥
त्वयेह भवने मह्यं वस्तव्यं निर्विशङ्कया ।
इमौ च बालकौ मह्यं कन्या च वरवर्णिनी ॥ २,५९.४२ ॥
भर्त्तव्या नैवमाख्येयमिदं भगवते त्वया ।
इमौ च बालकौ मह्यं तथेत्युक्ता तथा च सा ॥ २,५९.४३ ॥
त्वष्टुः समीपमगमद्व्रीडितेव तपस्विनी ।
पिता तामागतां दृष्ट्वा क्रुद्धः संज्ञामथाब्रवीत् ॥ २,५९.४४ ॥
भर्त्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः ।
अगमद्वडवा भूत्वाच्छाद्य रूपमनिन्दिता ॥ २,५९.४५ ॥
उत्तरान्सा कुरून्गत्वा तृणान्यथ चचार सा ।
द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्त्य ताम् ॥ २,५९.४६ ॥
आदित्यो जनयामास पुत्रावादित्यवर्चसौ ।
पूर्वजस्य मनोस्तुल्यौ सादृश्येन तु तौ प्रभू ॥ २,५९.४७ ॥
श्रुतश्रवं तु धर्मज्ञं श्रुतकर्माणमेव च।
श्रुतश्रवा मनुस्ताभ्यां सावर्णिर्वै भविष्यति ॥ २,५९.४८ ॥
श्रुतकर्मा तु विज्ञेयो ग्रहो वै यः शनैश्चरः ।
मनुरेवाभवत्सोऽपि सावर्णिरिति चोच्यते ॥ २,५९.४९ ॥
संज्ञा तु पार्थिवी सा वै स्वस्य पुत्रस्य वै तदा ।
चकाराभ्यधिकं स्नेहं त तथा पूर्वजेषु वै ॥ २,५९.५० ॥
मनुस्तच्छाक्षमत्सर्वं यमस्तद्वै न चाक्षमत् ।
बहुशो जल्पमानस्तु सापत्न्यादतिदुःखितः ॥ २,५९.५१ ॥
तां वै रोषाच्च बालाच्च भाविनोर्ऽथस्य वै बलात् ।
यदा संतर्जयामास च्छायां वैवस्वतो यमः ॥ २,५९.५२ ॥
सा शशाप ततः क्रोधात्सार्णिजननी यमम् ।
यदा तर्जयसेऽकस्मात्पितृभार्यां यशस्विनीम् ॥ २,५९.५३ ॥
तस्मात्तवैष चरमः पतिष्यति न संशयः ।
यमस्तु तेन शापेन भृशं पीडितमानसः ॥ २,५९.५४ ॥
मनुना सह धर्मात्मा पितुः सर्वं न्यवेदयत् ।
भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विनिर्जितः ॥ २,५९.५५ ॥
तस्यां मयोद्यतः पादो न तु देहे निपातितः ।
बाल्याद्वा यदि वा मोहात्तद्भवान्क्षन्तुमर्हति ॥ २,५९.५६ ॥
शप्तोऽहमस्मि लोकेश जनन्या तपतां वर ।
तव प्रसादो नस्त्रातुमेतस्मान्महतो भयात् ॥ २,५९.५७ ॥
विवस्वानेवमुक्तस्तु यमं प्रोवाच वै प्रभुः ।
असंशयं पुत्र महद्भविष्यत्यत्र कारणम् ॥ २,५९.५८ ॥
येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् ।
न शक्यमेतन्मिथ्य तु कर्त्तुं मातुर्वचस्तव ॥ २,५९.५९ ॥
कृमयो मांसमादाय यास्यन्ति च महीं तव ।
ततः पादं महाप्राज्ञ पुनः सांप्राप्स्यसे सुखम् ॥ २,५९.६० ॥
कृतमेवं वचः सत्यं मातुस्तव भविष्यति ।
शापस्य परिहारेण त्वं च त्रातो भविष्यसि ॥ २,५९.६१ ॥
आदित्यस्त्वब्रवीत्संज्ञां किमर्थं तनयेषु तु ।
तुल्येष्वभ्यधिकस्नेह एकस्मिन्क्रियते त्वया ॥ २,५९.६२ ॥
सा तत्परिहरन्ती वै नाचचक्षे विवस्वतः ।
आत्मना स समाधाय योगात्तत्त्वमपश्यत ॥ २,५९.६३ ॥
तां शप्तुकामो भगवान्नाशाय कुपितः प्रभुः ।
सा तत्सर्वं यथा तत्त्वमाचचक्षे विवस्वतः ॥ २,५९.६४ ॥
विवस्वांस्तु यथा श्रुत्वा क्रुद्धस्त्वष्टारमभ्ययात् ।
त्वष्टा तु तं यथान्यायमर्चयित्वा विभावसुम् ॥ २,५९.६५ ॥
निर्दग्धुकामं रोषेण सांत्वयामास वै शनैः ।
तवातितेजसा युक्तमिदं रूपं न शोभते ॥ २,५९.६६ ॥
असहन्ती तु तत्संज्ञा वने चरति शाद्वले ।
द्रक्ष्यते तां भवनद्य स्वां भार्यां शुभचारिणीम् ॥ २,५९.६७ ॥
श्लाघ्ययौवनसंपन्नां योगमास्थाय गोपते ।
अनुकूलं भवेदेवं यदि स्यात्समयो मतः ॥ २,५९.६८ ॥
रूपं निवर्त्तयेयं ते ह्याद्यं श्रेष्ठमरिन्दम ।
रूपं विवस्वतस्त्वासीत्तिर्यगूर्द्ध्वमधस्तथा ॥ २,५९.६९ ॥
तेनासौ पीडिता देवी रूपेण तु दिवस्पतेः ।
तस्मात्ते समचक्रं तु वर्तते रूपमद्भुतम् ॥ २,५९.७० ॥
अनुज्ञातस्ततस्त्वष्ट्रा रूपनिर्वर्त्तनाय वै ।
ततोऽभ्युपागमत्त्वष्टा मार्त्तण्डस्य विवस्वतः ॥ २,५९.७१ ॥
भ्रमिमारोप्य तत्तेजः शातयामास तस्य वै ।
तं निर्मूलित तेजस्कं तेजसापहृतेन तु ॥ २,५९.७२ ॥
कान्तां प्रभाकरो द्रष्टुमियेष शुभदर्शनः ।
ददर्श योगमास्थाय स्वां भार्यां वडवां तथा ॥ २,५९.७३ ॥
अदृश्यां सर्वभूतानां तेजसा नियमेन च ।
अश्वरूपेण मार्त्तण्डस्तां मुखे समभावयत् ॥ २,५९.७४ ॥
मैथुनान्तनिविष्टा च परपुंसोऽभिशङ्कया ।
सा तं निःसारयामास नोभ्यां शुक्रं विवस्वतः ॥ २,५९.७५ ॥
देवौ तस्मादजायेतामश्विनौ भिषजां वरौ ।
नासत्यश्चैव दस्रश्च स्मृतौ द्वादशमूर्तितः ॥ २,५९.७६ ॥
मार्त्तण्डस्य सुतावेतावष्टमस्य प्रजापतेः ।
तां तु रूपेण कान्तेन दर्शयामास भास्करः ॥ २,५९.७७ ॥
स तां दृष्ट्वा तदा भार्यां तुतो षैतामुवाच ह ।
यमस्तु तेन शापेन भृशं पीडितमानसः ॥ २,५९.७८ ॥
धर्मेण रञ्जयामास धर्मराजस्ततस्तु सः ।
सोऽलभत्कर्मणां तेन शुभेन परमां द्युतिम् ॥ २,५९.७९ ॥
पितॄणामाधिपत्यं च लोकपालत्वमेव च ।
मनुः प्रजापतिस्त्वेष सावर्णिः स महायशाः ॥ २,५९.८० ॥
भाव्यः सोऽनागते तस्मिन्मनुः सावर्णिकेन्तरे ।
मेरुपृष्ठे तपो घोरमद्यापि चरते प्रभुः ॥ २,५९.८१ ॥
भ्राता शनैश्चरस्तत्रग्रहत्वं स तु लब्धवान् ।
त्वष्टा तु तेन रूपेण विष्णोश्चक्रमकल्पयत् ॥ २,५९.८२ ॥
महामहोऽप्रतिहतं दानवान्प्रतिवारणम् ।
यवीयसी तयोर्या तु यमुनाच यशस्विनी ॥ २,५९.८३ ॥
अभवत्सा सरिच्छ्रेष्ठा यमुना लोकपावनी ।
यस्तु ज्येष्ठो महातेजाः सर्गो यस्येति सांप्रतम् ॥ २,५९.८४ ॥
विस्तरं तस्य वक्ष्यामि मनोर्वैवस्वतस्य ह ।
इदं तु जन्म देवानां शृणुयाद्वा पठेच्च वा ॥ २,५९.८५ ॥
वैवस्वतस्य पुत्राणां सप्तानां तु महौजसाम् ।
आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद्यशः ॥ २,५९.८६ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते तृतीय उपोद्धातपादे वैवस्वतोत्पत्तिर्नामैकोनषष्टितमोध्यायः ॥ ५९॥