ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ४३

← मध्यभागः, अध्यायः ४२ ब्रह्माण्डपुराणम्
अध्यायः ४३
[[लेखकः :|]]
मध्यभागः, अध्यायः ४४ →

ब्रह्माण्डपुराणम्/मध्यभागः

  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४

वसिष्ठ उवाच
एवं सुस्निग्धचित्तेषु तेषु तिष्ठत्सु भूपते ।
भवान्युत्संगतो रामः समुत्थाय कृताजलिः ॥ २,४३.१ ॥

तुष्टाव प्रयतो भूत्वा निर्विशेष विशेषवत् ।
अद्वयं द्वैतमापन्नं निर्गुणं सगुणात्मकम् ॥ २,४३.२ ॥

राम उवाच
प्रकृतिविकृतिजातं विश्वमेतद्विधातुं मम कियदनुभातं वैभवं तत्प्रमातुम् ।
अविदिततनुनामाभीष्टवस्त्वेकधामाभवदथ भव भामा पातु मां पूर्णकामा ॥ २,४३.३ ॥

प्रकटितगुणाभानं कालसंख्याविधानं सकलभवनिदानं कीर्त्यते यत्प्रधानम् ।
तदिह निखिलतातः संबभूवोक्षपातः कृतकृतकनिपातः पातु मामद्य मातः ॥ २,४३.४ ॥

दनुजकुलविनाशीलेखपाताविनाशी प्रथमकुलविकाशी सर्वविद्याप्रकाशी ।
प्रसभरचितकाशी भक्तदत्ताखिलाशीरवतु विजितपाशी मांसदा षण्मुखाशी ॥ २,४३.५ ॥

हरनिकट निवासी कृष्णसेवाविलासी प्रणतजनविभासी गोपकन्याप्रहासी ।
हरकृतबहुमानो गोपिकेशैकतानो विदितबहुविधानो जायतां कीर्तिहा नौ ॥ २,४३.६ ॥

प्रभुनियतमाना यो नुन्नभक्तान्तरायो त्दृतदुरितनिकायो ज्ञानदातापरायोः ।
सकलगुणगरिष्ठो राधिकाङ्केनिविष्टो मम कृतमपराधं क्षन्तुमर्हत्वगाधम् ॥ २,४३.७ ॥

या राधा जगदुद्भवस्थितिलयेष्वाराध्यते वा जनैः शब्दं बोधयतीशवक्त्रंविगलत्प्रेमामृतास्वादनम् ।
रासेशी रसिकेश्वरी रमणत्दृन्निष्ठानिजानन्दिनी नेत्री सा परिपातु मामवनतं राधेति य कीर्त्यते ॥ २,४३.८ ॥

यस्या गर्भसमुद्भवो ह्यतिविराड्यस्यांशभूतो विराट्यन्नाभ्यंबुरुहोद्भवेन विधिनैकान्तोपदिष्टेन वै सृष्टं सर्वमिदं चराचरमयं विश्वं च यद्रोमसु ब्रह्माण्डानि विभान्ति तस्य जननी शश्वत्प्रसन्नास्तु सा ॥ २,४३.९ ॥

पायाद्यः स चराचरस्य जगतो व्यापी विभुः सच्चिदानन्दाब्धिः प्रकटस्थितो विलसति प्रेमान्धया राधया ।
कृष्णः पूर्णतमो ममोपरि दयाक्लिन्नान्तरः स्तात्सदा येनाहं सुकृती भवामि च भवाम्यानन्दलीनान्तरः ॥ २,४३.१० ॥

वसिष्ठ उवाच
स्तुत्वैवं जामदग्न्यस्तु विरराम ह तत्परम् ।
विज्ञाताखिलतत्त्वार्थो हृष्टरोमा कृतार्थवत् ॥ २,४३.११ ॥

अथोवाच प्रसन्नात्मा कृष्णः कमललोचनः ।
भार्गवं प्रणतं भक्त्या कृपापात्रं पुरस्थितम् ॥ २,४३.१२ ॥

कृष्म उवाच
सिद्धोऽसि भार्गवेन्द्र त्वं प्रसादान्मम संप्रतम् ।
अद्य प्रभृति वत्सास्मिंल्लोके श्रेष्ठतमो भव ॥ २,४३.१३ ॥

तुभ्यं वरो मया दत्तः पुरा विष्णुपदाश्रमे ।
तत्सर्वं क्रमतो भाव्यं समा बह्वीस्त्वया विभो ॥ २,४३.१४ ॥

दया विधेया दीनेषु श्रेय उत्तममिच्छता ।
योगश्च सादनीयो वै शत्रूणां निग्रहस्तथा ॥ २,४३.१५ ॥

त्वत्समो नास्ति लोकेऽस्मिंस्तेजसा च बलेन च ।
ज्ञानेन यशसा वापि सर्वश्रेष्ठतमो भवान् ॥ २,४३.१६ ॥

अथ स्वगृहमासाद्य पित्रोः शुश्रूषणं कुरु ।
तपश्चर यथाकालं तेन सिद्धिः करस्थिता ॥ २,४३.१७ ॥

राधोत्संगात्समुत्थाप्य गणेशं राधिकेश्वरः ।
आलिङ्ग्य गाढं रासेण मैत्रीं तस्य चकार ह ॥ २,४३.१८ ॥

अथोभावपि संप्रीतौ तदा रामगणेश्वरौ ।
कृष्णाज्ञया महाभागौ बभूवतुररिन्दम ॥ २,४३.१९ ॥

एतस्मिन्नन्तरे देवी राधा कृष्णप्रिया सती ।
उभाभ्यां च वरं प्रादात्प्रसन्नास्या मुदान्विता ॥ २,४३.२० ॥

राधोवाच ।
सर्वस्य जगतो वन्द्यौ दुराधर्षौं प्रियावहौ ।
मद्भक्तौ च विशेषेण भवन्तौ भवतां सुतौ ॥ २,४३.२१ ॥

भवतोर्नाम चौच्चार्य यत्कार्यं यः समारभेत् ।
सिद्धिं प्रयातु ततसर्वं मत्प्रसादाद्धि तस्य तु ॥ २,४३.२२ ॥

अथोवाच जगन्माता भवानी भववल्लभा ।
वत्स राम प्रसन्नाहं तुभ्यं कं प्रददे वरम् ।
तं प्रब्रूहि महाभाग भयं त्यक्त्वा सुदूरतः ।
राम उवाच
जन्मान्त रसहस्रेषु येषुयेषु व्रजाम्यहम् ॥ २,४३.२३ ॥

कृष्णयोर्भवयोर्भक्तो भविष्यामीति देहि मे ।
अभेदेन च पश्यामि कृष्णौ चापि भवौ तथा ॥ २,४३.२४ ॥

पार्वत्युवाच
एवमस्तु महाभाग भक्तोऽसि भवकृष्णयोः ।
चिरञ्जीवी भवाशु त्वं प्रसादान्मम सुव्रत ॥ २,४३.२५ ॥

अथोवाच धराधीशः प्रसन्नस्तमुमापतिः ।
प्रणतं भार्गवेन्द्रं तु वरार्हं जगदीश्वरः ॥ २,४३.२६ ॥

शिव उवाच
रामभक्तोऽसि मे वत्स यस्ते दत्तो वरो मया ।
स भविष्यति कार्त्स्येन सत्यमुक्तं न चान्यथा ॥ २,४३.२७ ॥

अद्यप्रभृति लोकेऽस्मिन् भवतो बलवत्तरः ।
न कोऽपि भवताद्वत्स तेजस्वी च भवत्परः ॥ २,४३.२८ ॥

वसिष्ठ उवाच
अथ कृष्णोऽप्यनुज्ञाप्य शिवं च नगनन्दिनीम् ।
गोलोकं प्रययौ युक्तः श्रीदाम्ना चापि राधया ॥ २,४३.२९ ॥

अथ रामोऽपि धर्मात्मा भवानीं च भवं तथा ।
संपूज्य चाभिवाद्याथ प्रदक्षिणमुपा क्रमीत् ॥ २,४३.३० ॥

गणेशं कार्त्तिकेयं च नत्वापृच्छ्य च भूपते ।
अकृतव्रणसंयुक्तो निश्चक्राम गृहान्तरात् ॥ २,४३.३१ ॥

निष्क्रम्यमाणो रामस्तु नन्दीश्वरमुखैर्गणैः ।
नमस्कृतो ययौ राजन्स्वगृहं परया मुदा ॥ २,४३.३२ ॥

इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय
उपोद्धातपादे भार्गवचरिते त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४३॥