ब्रह्माण्डपुराणम्/मध्यभागः/अध्यायः ५७
← मध्यभागः, अध्यायः ५६ | ब्रह्माण्डपुराणम् अध्यायः ५७ [[लेखकः :|]] |
मध्यभागः, अध्यायः ५८ → |
जैमिनिरुवाच
ततः शुष्कसुमित्राद्या मुनयः शंसितव्रताः ।
ययुर्दिदृक्षवो रामं महेन्द्रमचलं प्रति ॥ २,५७.१ ॥
अतीत्य सुबहून्देशान्वनानि सरितस्तथा ।
आसेदुरचलश्रेष्ठं क्रमेण मुनिपुङ्गवाः ॥ २,५७.२ ॥
तमारुह्य शनैस्तस्यख्यातमाश्रममण्डलम् ।
प्रशान्तक्रूरसत्त्वाढ्यं शुभं मध्ये तपोवनम् ॥ २,५७.३ ॥
सर्वर्त्तुफलपुष्पाढ्यतरुखण्डमनोहरम् ।
स्निग्धच्छायमनौपम्यं स्वामोदिसुखमारुतम् ॥ २,५७.४ ॥
तं तदाश्रममासाद्य ब्रह्मघोषेण नादितम् ।
विविशुर्त्दृष्टमनसो यथावृद्धपुरस्सरम् ॥ २,५७.५ ॥
ब्रह्मासने सुखासीनं मृदुकृष्णाजिनोत्तरे ।
शिष्यैः परिवृतं शान्तं ददृशुस्ते तपोधनाः ॥ २,५७.६ ॥
कालाग्निमिव लोकांस्त्रीन्दग्ध्वा पूर्वं निजेच्छया ।
तद्दोषशान्त्यै तपसि प्रवृत्तमिव्देहिनम् ॥ २,५७.७ ॥
ते समेत्य भृगुश्रेष्ठं विनयाचारशालिनः ।
ववन्दिरे महामौनं भक्तिप्रणतकन्धराः ॥ २,५७.८ ॥
ततस्तानागतान्दृष्ट्वा मुनीन्भृगुकुलोद्वहः ।
अर्घपाद्यादिभिः सम्यक्पूजयामास सादरम् ॥ २,५७.९ ॥
तानासीनान्कृतातिथ्यानृषीन्देशान्तरागतान् ।
उवाच भृगुशार्दूलः स्मितपूर्वमिदं वचः ॥ २,५७.१० ॥
स्वागतं वो महाभागा यूयं सर्वे समागताः ।
करणीयं किमस्माभिर्वदध्वमविचारितम् ॥ २,५७.११ ॥
ततस्ते मुनयो रामं प्रणम्येदमथाब्रुवन् ।
अवेह्यस्मान्मुनिश्रेष्ठ गोकर्णनिलयान्मुनीन् ॥ २,५७.१२ ॥
खनद्भिः सागरैर्भूमिं कस्मिंश्चित्कारणान्तरे ।
सतीर्थं तन्महाक्षेत्रं पतितं सागरांभसि ॥ २,५७.१३ ॥
उत्सारितार्मवजलं क्षेत्रं तत्सर्वपावनम् ।
उपलब्धुमभीप्सामो भवतस्तु न संशयः ॥ २,५७.१४ ॥
विष्णोरंशेन संजातो भवान्भृगुकुले किल ।
तस्मात्कर्तुमशक्यं ते त्रैलोक्येऽपि न किञ्चन ॥ २,५७.१५ ॥
वाञ्छितार्थप्रदो लोके त्वमेवेत्यनुशुश्रुम ।
वयं त्वामागताः सर्वे रामैतदभियाचितुम् ॥ २,५७.१६ ॥
स त्वमात्मप्रभावेण क्षेत्रप्रवरमद्य तत् ।
दातुमर्हसि विप्रेन्द्र समुत्सार्यार्मवोदकम् ॥ २,५७.१७ ॥
राम उवाच
एतत्सर्वमशेषण विदितं मे तपोधनाः ।
करणीयं च वः कृत्यं मया नात्र विचारणा ॥ २,५७.१८ ॥
किं तु युष्मदभिप्रेतं कर्म लोके सुदारुणम् ।
शस्त्रसंग्रहणाच्छक्यं मयापि न तदन्यथा ॥ २,५७.१९ ॥
दत्तसर्वाभयोऽहं वै न्यस्तशस्त्रः शमान्वितः ।
तपः समास्थितश्चर्तु प्रागेव पितृ शासनात् ॥ २,५७.२० ॥
न जातु शस्त्रग्रहणं करिष्यामीत्यहं पुरा ।
प्रतिश्रुत्य सतां मध्ये तपः कर्त्तुमिहानघाः ॥ २,५७.२१ ॥
शस्त्रग्रहणसाध्यत्वाद्युष्मदीप्सितवस्तुनः ।
किङ्कर्त्तव्यं मयात्रेति मम डोलायते मनः ॥ २,५७.२२ ॥
शुष्क उपाच ।
सतां संरक्षणार्थाय शस्त्रसंग्रहणं तु यत् ।
तन्नच्यावयते सत्यद्यथोक्तं ब्रह्मणा पुरा ॥ २,५७.२३ ॥
तस्मादस्मद्धितार्थाय भवता ग्राह्यमायुधम् ।
धर्म एव महांस्तेन चरितस्ते भविष्यति ॥ २,५७.२४ ॥
जैमिनिरुवाच
एवं संप्रार्थ्यमानस्तु मुनिभिर्भृगुपुङ्गवः ।
तमनुद्रुत्य मेधावी धर्ममुद्दिश्य केवलम् ॥ २,५७.२५ ॥
स तैः सह मुनिश्रेष्ठो दिशं दक्षिणपश्चिमाम् ।
समुद्दिश्य चचौ राजन्द्रष्टुकामः सरित्पतिम् ॥ २,५७.२६ ॥
स सह्यमचलश्रेष्ठमवतीर्य भृगूद्वहः ।
तत्परं सरितां पत्युस्तीरं प्राप महामनाः ॥ २,५७.२७ ॥
स ददर्श महाभागः परितो मारुताकुलम् ।
आकरं सर्वरत्नानां पूर्यमाणमनारतम् ॥ २,५७.२८ ॥
अपरिज्ञेयगांभीर्यं महातामिव मानसम् ।
दुष्पारपारं सर्वस्य विविधग्रहसंहतिम् ॥ २,५७.२९ ॥
अप्रधृष्य तमं लोके धातारमिव केवलम् ।
आत्मानमिव चात्मत्वे न्यक्कृताखिलमुद्धतम् ॥ २,५७.३० ॥
आश्रयं सर्वसत्त्वानामापगानां च पार्थिवः ।
अत्यर्थचपलोत्तुगतरङ्गशतमालिनम् ॥ २,५७.३१ ॥
उपान्तोपलसंघातकुहरान्तरसंश्रयात् ।
विशीर्यमाणलहरीशतफेनौघसोभितम् ॥ २,५७.३२ ॥
गंभीरघोषं जलधिं पश्यन्मुनिगणैः सह ।
संसेव्यमानस्तरलैर्लहरीकणशीतलैः ॥ २,५७.३३ ॥
मुहूर्त्तमिव राजेन्द्र तीरेनदनदीपतेः ।
विशश्रमे महाबाहुर्द्रष्टुकामः प्रचेतसम् ॥ २,५७.३४ ॥
ततो रामः समुत्थाय दक्षिणाभिमुखः स्थितः ।
मेघगंभिरया वाचा वरुणं वाक्यमब्रवीत् ॥ २,५७.३५ ॥
अहं मुनिगणैः सार्द्धमागतस्त्वद्दिदृक्षया ।
तस्मात्स्वरूपधृङ्मह्यं प्रचेतो देहि दर्शनम् ॥ २,५७.३६ ॥
इति श्रुत्वापि तद्वाक्यं वरुणो यादसां पतिः ।
न चचाल निजस्थानान्नृप धीरतरस्त्वयम् ॥ २,५७.३७ ॥
पुनः पुनश्च रामेण समाहूतोऽपि तोयराट् ।
न ददौ दर्शनं तस्मै प्रतिवाच्यं च नाभ्यधात् ॥ २,५७.३८ ॥
अलङ्घनीयं तद्वाक्यं वरुणेनावधीरितम् ।
अत्यन्तमिति कार्यार्थी विदुषा समुपेक्षितम् ॥ २,५७.३९ ॥
ततः प्रचेतसा वाक्यं मन्यमानोऽवधीरितम् ।
चुकोप तमभिप्रेक्ष्य रामः शस्त्रभृतां वरः ॥ २,५७.४० ॥
संक्षुब्धसागराकारः स तदा स्वबलाश्रयात् ।
निस्तोयमर्णवं कर्तुमियेष रुषितो भृशम् ॥ २,५७.४१ ॥
ततो जलमुपस्पृश्य समीपे विजयं धनुः ।
ततः प्रणम्य मनसा शर्वं रामो महाद्धनुः ॥ २,५७.४२ ॥
गृहीत्वारोपयामास क्रोधसंरक्तलोचनः ।
अभिमृश्य धनुःश्रेष्ठं सगुणं भृगुसत्तमः ॥ २,५७.४३ ॥
पश्यतां सर्वभूतानां ज्याघोषमकरोत्तदा ।
ज्याघोषः शुश्रुवे तस्य दिविस्पृगतिनिष्ठुरः ॥ २,५७.४४ ॥
चचाल निखिलायेन सप्तद्वीपार्मवा मही ।
ततः सरभसं रामश्चापे कालानलोपमम् ॥ २,५७.४५ ॥
सुवर्मपुङ्खं विशिखं संदधे शरसत्तमम् ।
तस्मिन्नस्त्रं महाघोरं भार्गवं वह्निदैवतम् ॥ २,५७.४६ ॥
युयोज भृगुशार्दूलः समन्त्राभ्यासमोक्षणम् ।
ततश्चचाल वसुधा सशैलवनकानना ॥ २,५७.४७ ॥
प्रक्षोभं परमं जग्मुर्देवासुरमहोरगाः ।
संधितास्त्रं भृगुश्रेष्ठं क्रोधसंरक्तलोचनम् ॥ २,५७.४८ ॥
दृष्ट्वा संभ्रान्तमनसो बभूवुः सचराचराः ।
सदिग्दाहभ्रपटलैरभवन्संवृता दिशः ॥ २,५७.४९ ॥
ववुश्च परुषा वाता रजोव्याप्ता महारवाः ।
मन्दरश्मिरशीतांशुरभूतसंरक्तमण्डलः ॥ २,५७.५० ॥
सोल्कापाताशनिर्वृष्टिर्बभूव रुधिरोदका ।
किमेतदिति संभ्रान्ता धूमोद्गारातिभीषणम् ॥ २,५७.५१ ॥
अधिरोपितदिव्यास्त्रं प्रचकर्ष महाशरम् ।
धनुर्विकर्षमाणं तं स्फुरज्ज्वालाग्रसायकम् ॥ २,५७.५२ ॥
ददृशुर्मुनयो रामं कल्पान्तानलसन्निभम् ।
आकर्णाकृष्टकोदण्डमण्डलाभ्यं तरस्थितम् ॥ २,५७.५३ ॥
तस्य प्रतिभयाकारं दुष्प्रापमभवद्वपुः ।
विकृष्टधनुषस्तस्य रूपमुग्रं रवेरिव ॥ २,५७.५४ ॥
कल्पान्तेऽभ्युदितस्येव मण्डलं परिवेषितम् ।
कल्पान्ताग्नसमज्वालाभीषणं स्फुरतो वपुः ॥ २,५७.५५ ॥
तस्यालक्ष्यत चक्रम्य हरेरिव च मण्डलम् ।
स्फुरत्क्रोधानलज्वालापरीतस्यातिरौद्रताम् ॥ २,५७.५६ ॥
अवाप विष्णोः स तदा नरसिंहाकृतेरिव ।
वपुर्विकृष्टचापस्य भृकुटीकुटिलाननम् ॥ २,५७.५७ ॥
रामस्याभूद्भवस्येव दिधक्षोस्त्रिपुरं पुरा ।
जाज्वल्यमानवपुषं तं दृष्ट्वा सहसा भयात् ॥ २,५७.५८ ॥
प्रसीद जय रामेति तुष्टुवुर्मुनयोऽखिलाः ।
ततोऽस्त्राग्निस्फुरद्धूमपटलैः शकलीकृतम् ॥ २,५७.५९ ॥
बभूव च्छन्नमंभोधेरन्तः पुरमशैषतः ।
ज्वलदस्त्रानलज्वालाप रितापपराहतः ॥ २,५७.६० ॥
अत्यरिच्यत संभ्रान्तसलिलौघ उदन्वतः ।
तिमिङ्गिलतिमिग्राहनक्रमत्स्याहिकच्छपाः ॥ २,५७.६१ ॥
प्रजग्मुः परमामार्त्तिं प्राणिनः सलिलेशयाः ।
उत्पतन्निपतत्ताम्यन्नानासत्त्वोद्धतोर्मिभिः ॥ २,५७.६२ ॥
प्रक्षोभं भृशमंभोधिः सहसा समुपागमत् ।
त्रासरासं च विपुलमंभसा प्लवता सह ॥ २,५७.६३ ॥
उद्वेलतामितस्तप्ताः सलिलान्तरचारिणः ।
ततस्तस्माच्छराज्ज्वालाः फूत्कृताशेष भीषणाः ॥ २,५७.६४ ॥
निरूपितमिव व्यक्तं निश्चेरुः सर्वतो दिशम् ।
ततः प्रचण्डपवनैः सर्वतः परिवर्त्तितम् ॥ २,५७.६५ ॥
अग्निज्वालामयं रक्तवितानाभमलक्ष्यत ।
प्रलयाब्धेरिवात्यर्थमस्त्राग्निव्याकुलांभसः ॥ २,५७.६६ ॥
समुद्रिक्ततया तस्य तरङ्गास्तीरमभ्ययुः ।
अस्त्राग्निविद्धाकुलितजलघोषेण भूयसा ॥ २,५७.६७ ॥
ककुभो बधिरीकुवन्नलक्ष्यत पयोनिधिः ।
परितोऽस्त्रानलज्वालापरिवीतजलाविलः ॥ २,५७.६८ ॥
जगाम परमामार्त्तिं सह्यः सद्यस्तदाश्रयः ।
आकर्णाकृष्टकोदण्डं दृष्ट्वा रामं पयोनिधिः ॥ २,५७.६९ ॥
विषादमगमत्तीव्रं यमं दृष्ट्वेव पातकी ।
भयकंपितसर्वाङ्गस्ततो नदनदीपतिः ॥ २,५७.७० ॥
विहाय सहजं धैर्यं भीरुत्वं समुपागमत् ।
ततः स्वरूपमास्थाय सर्वाभरणभूषितः ॥ २,५७.७१ ॥
उत्तीर्यमाणः स्वजलं वरुणः प्रत्यदृश्यत ।
कृताञ्जलिः सार्वहस्तः प्रचेता भार्गवान्तिकम् ॥ २,५७.७२ ॥
त्वरयाभ्यायायौ शीघ्रसायकाद्भीतभीतवत् ।
अभ्येत्याकृष्टधनुषः स तस्य चरणाब्जयोः ॥ २,५७.७३ ॥
अब्रवीच्च भृशं भीतः संभ्रमाकुलिताक्षरम् ।
रक्ष मां भृगुशार्दूल कृपया शरणागतम् ॥ २,५७.७४ ॥
अपराधमिमं राम मया कृतमजानता ।
स्थितोऽस्मि तव निर्देशेशाधि किं करवाणि वै ॥ २,५७.७५ ॥
इति श्रीब्रह्माण्डे महापुराणे मध्यमभागे तृतीये उपोद्धातपादे भार्गवं प्रति वरुणागमनं नाम सप्तपञ्चशत्तमोऽध्यायः ॥ ५७॥