← अध्यायः ९९ भैषज्यरत्नावली
अध्यायः १००
[[लेखकः :|]]
अध्यायः १०१ →
भैषज्यरत्नावली अध्यायाः


अथ मस्तिष्कचयापचयचिकित्साप्रकरणम्।।100
तन्रादौ मस्तिष्कचयस्य निदानादिकम्-
<100-1>
प्रायः शिशूनां क्कतिदेव यूनां-
तनुस्वभावादथवाऽपि दैवतः।
कपालमत्यर्थमुपैति वृद्विं-
मस्तिष्कवृद्वौ खलु मस्तुलुङ्गः।।1।।
</100-1>

<100-2>
वृद्विः समाना यदि मस्तुलुङ्ग-
कपालगा स्याद्वि यदा तु तत्र।
प्रायेम काचिन्न विकारजाता
भीतिर्भिषग्भिः क्कचिदूहनीया।।2।।
</100-2>

<100-3>
मस्तिष्कमध्ये यदि जातु वृद्वि-
र्न सा कपाले परिलोकिता स्यत्।
मस्तिष्कमध्ये तु तदाऽतिघोरा-
उपद्रवाः स्युश्च तदीयपीडनात्।।3।।
</100-3>

उपद्रवाः-
<100-4>
शिरोऽर्त्तिर्भ्रमो मूर्च्छनं पक्षनाशो-
बलस्यापि हानिस्तथाऽऽक्षेपरोगः।
तथाऽन्तेऽपि मृत्युश्च मस्तिष्कवृद्वा-
उपद्रुत्य एता भिषग्भिर्विमाव्याः।।4।।
</100-4>

मस्तिष्कचयस्य चिकित्सा-
<100-5>
वृद्विस्तु मातुलुङ्गस्य भवेन्मृत्यप्रदायिनी।
न भवेत्सफलं यद्यष्यौषधं तत्र योजितम्।।5।।
</100-5>

<100-6>
तथाऽपि सेव्यं यत्नेन यथाविधि रसायनम्।
पञ्चगव्यं घृतं क्षौद्रेणान्वितं पेयमेव हि।।6।।
</100-6>

मस्तिष्कापचयस्य निदानादिकम्-
<100-7>
वृद्विस्तु मस्तिषकभवा यथा स्याद्-
ध्रासस्तथैवाप्युपजायते हि।
ह्नासोऽपि मस्तिष्कगतः कपाले
प्रवर्द्वमानेऽतिभयङ्करः स्यात्।।7।।
</100-7>

<100-8>
ह्नासो यदा स्यात्क्कचिदेकपार्श्वै
मृत्युर्भवेन्नैव तदाऽऽतुरस्य।
चेन्मस्तुलुङ्गस्य समन्ततो वा।
ह्नासस्तदाऽऽश्वस्तु मृतिस्तदीया।।8।।
</100-8>

मस्तिष्कापच्चयस्यचिकित्सा-
<100-9>
स्यान्मस्तुलुङ्गस्य सदैव वृद्विर्ह्नासोऽपि नूनं मरणायलोके
त्र्यर्थौ भवेदत्र यदप्युपायस्तथाऽपि रसायनिकोविधेयः।।9।।
</100-9>

<100-10>
ह्नासो मस्तिष्कगो यद्यपयन्तकृत् परिकीर्त्तितः।
तथाऽपि बृंहणं श्रेष्ठं सेवनीयमिहौषधम्।।10।।
</100-10>

चन्दनादिक्काथः-
<100-11>
चन्दनद्वितयं मर्वा द्वे श्यामे द्वे निशे शुभा।
लाक्षा वरी गैरिकं च जीवन्ती मधुकं तथा।।11।।
</100-11>

<100-12>
वाजिगन्धा वचा कृष्णा काकोली जीवकर्षभौ।
क्काथमेषां पिबेत् प्रातर्मस्तिष्कह्नासशान्तये।।12।।
</100-12>

<100-13>
अत्र वाताधिकारोक्तं घृतं तैलं यदुत्तमम्।
अपस्माराधिकारस्थं वाऽपि सेब्यं तदादरात्।।13।।
</100-13>

पथ्यापथ्यम्-
<100-14>
मस्तिष्कस्य चये ह्नासे लघु देहस्य पोषणम्
अन्नापनं च सेवेत विपरीतं तु संत्यजेत्।।14।।
</100-14>

इति भैषज्यरत्नालवल्यां विशिष्टरोगाधिकारे मस्तिष्क-
चयापचयचित्साप्रकरणम्।।100।।