← अध्यायः ९४ भैषज्यरत्नावली
अध्यायः ९५
[[लेखकः :|]]
अध्यायः ९६ →
भैषज्यरत्नावली अध्यायाः


अथ फिरङ्गरोगचिकित्साप्रकरणम्।।95
तन्र फिरङ्गब्दस्य निरूक्तिः-
<95-1>
फिरङ्गसंज्ञके देशे बाहुल्योनैव यद्भवेत्।
तस्मात्फिरङ्ग इत्युक्तो व्याधिर्व्याधिविशारदैः।।1।।
</95-1>

फिरङ्गस्य विप्रकृष्टनिदानम्-
<95-2>
गन्धरोगः फिरङ्गोऽयं जायते देहिनां ध्रुबम्।
फिरङ्गिणोऽङ्गसंसर्गात्फिरङ्गिण्याः प्रसङ्गतः।।2।।
</95-2>

<95-3>
व्याधिरागन्तुजो ह्येष दोषाणामत्र सङ्‌कमः।
भवेत्तं लक्षयेत्तेषां लक्षणैभिषजां वरः।।3।।
</95-3>

फिरङ्गरोगरूपम्-
<95-4>
फिरङ्गस्त्रिविधो ज्ञेयो बाह्य आभ्यन्तरस्तथा।
वहिरन्तर्भवश्चापि तेषां लिङ्गनि च ब्रुवे।।4।।
</95-4>

<95-5>
तत्र बाह्यः फिरङ्गः स्याद्विस्फोटसदृशोल्परूक्।
स्फुटितो व्रणद्वेद्यः सुखसाध्योऽपि स स्मृतः।।5।।
</95-5>

<95-6>
सन्धिष्वाभ्यन्तरः स स्यादामवात इव व्यथाम्।
शोथञ्च जनयेदेष कष्टसाध्यो बुधैः स्मृतः।।6।।
</95-6>

फिरङ्गस्योपद्रवाः-
<95-7>
कार्श्यं बलक्षयो नासाभङ्गो वह्नेश्च मन्दता।
स्थिशोषोऽस्थिवक्रत्वं फिरङ्गोपद्रवा अमी।।7।।
</95-7>

फिरङ्गस्य साध्यत्वादिकम्-
<95-8>
हिर्भवो भवेत्साध्यो नवीना निरूपद्रवः।
आभ्यन्तरस्तु कष्टेन साध्यः स्यादयमामयः।।8।।
</95-8>

<95-9>
हिरन्तर्भवो जीर्णः क्षीणस्योपद्रवैर्युतः।
यातो व्याधिरसाध्योऽयोऽयमित्याहुर्मुनयः पुरा।.9।।
</95-9>

अथ फिरङ्रोगस्य चिकित्सा।
कर्पूररससेवनविधिः-
<95-10>
फिरङ्गसंज्ञकं रोगं रसः कर्पूरसंज्ञकः।
अवश्यं नाशयेदेतदूचुः पूर्वचिकित्सकाः।।10।।
</95-10>

<95-11>
लिखयते रसकर्पूरप्राशने विधिरूत्तमः।
अनेन विधिना खादेन्मुखे शोथं न बिन्दति।।11।।
</95-11>

<95-12>
गोधूमचूर्णं सन्नीय विदध्यात्सूक्ष्मकूपिकाम्।
चन्मध्ये निक्षिपेत्सूतं चतुर्गुञ्जामितं भिषक्।।12।।
</95-12>

<95-13>
ततस्तु गुटिकां कुर्याद्यथा न दृश्यते बहिः।
सूक्ष्मचूर्णे लवङ्गस्य तां वटीमवधूलयेत्।।13।।
</95-13>

<95-14>
दन्तस्पर्शो यथा न स्यात्तथा तामम्भसा गिलेत्।
श्रममातपमध्वानं विशेषात् स्त्रीनिषेवणम्।।14।।
</95-14>

सप्तशालिवटी-
<95-15>
पारदष्टङ्गमानः स्यात्खदिरष्टङ्कसंमितः।
आकारकरभश्चापि ग्राह्यष्टङ्कद्वयोन्मितः।।15।।
</95-15>

<95-16>
टङ्कत्रयोन्मितं क्षौद्रं खल्वे सर्वं विनिक्षिपेत्
संमर्द्य तस्य सर्वस्य कुर्यात्सप्तवटीर्भिषक्।।16।।
</95-16>

<95-17>
रोगी तु भक्षयेत्प्रातरेकैकामम्बुना वटीम्
वर्जयेदम्ललवणं फिरङ्गस्तस्य नश्यति।।17।।
</95-17>

धूमप्रयोगः-
<95-18>
पारदः कर्षमात्रः स्यात्तावानेव हि गन्धकः।
तण्डुलाश्चाक्षमात्राः स्युरेषां कुर्वोत कज्जलीम्।।18।।
</95-18>

<95-19>
तस्यः सप्तः वटीः कुर्यात्ताभिर्धूमं प्रयोजयेत्।
दिनानि सप्त तेन स्यात्फिरङ्गान्तो न संशयः।।19।।
</95-19>


<95-20>
पीतपुष्पबला०पत्ररसैष्टङ्कमितं रसम्।
हस्ताभ्यां मर्दयेत्तावद्यावत्सूतो न दृश्यते।।20।।
</95-20>

<95-21>
ततः संस्वेदयेद्वस्तावेवं वासरसप्तकम्।
त्यजेल्लवणमम्लञ्च फिरङ्गस्तस्य नश्यति।।21।।
</95-21>

<95-22>
चूर्णयेन्निम्बपत्राणि पथ्या निम्बाष्टमाशिका।
धात्री च तावती रात्रिर्निम्बषोडशभागिका।।22।।
</95-22>

<95-23>
शाणमानमिदं चूर्णमश्नीयादम्भसा सह।
फिरङ्गं नाशयत्येव बाह्यमाभ्यन्तरं तथा।।23।।
</95-23>

<95-24>
चोपचीनीभवं चूर्णं शाणमानं समाक्षिकम्।
फिरङ्गव्याधिनाशाय भक्षयेल्लवणं त्यजेत्।।24।।
<94-24>

<94-25>
लवणं यदि वा त्यक्तुं न शक्नोति तदा तदा जनः।
सैन्धवं स हि भुञ्जीत मधुरं परमं हितम्।।25।।
</95-25>

कज्जल्यादिमोदकः-
<95-26>
पारदः कर्षमात्रः स्यात्तावन्मात्रं तु गन्धकम्।
तावन्मात्रस्तु खदिरस्तेषां कुर्यात्तु कज्जलीम्।।26।।
</95-26>

<95-27>
रजनी केशरं त्रुटयौ जीरयुग्मं यवानिका।
चन्दनद्वितयं कृष्णा वांशी मांसी च पत्रकम्।।27।।
</95-27>

<95-28>
अर्द्वकर्षमितं सर्वं चूर्णयित्वा च निक्षिपेत्।
तत्सर्वं मधुसर्पिर्भ्यां द्विपलाभ्यां पृथक्‌ पृथक्‌।।28।।
</95-28>

<95-29>
मर्दयेदथ तत्खादेदर्द्वकर्षमितं नरः।
व्रणः फिकङ्गरोगोत्थस्तस्यावश्यं विनश्यति।।29।।
</95-29>

<95-30>
अन्योऽपि चिकजातोऽपि प्रशाम्यति महाव्रणः।
एतद्भक्षततः शोथो मुखस्यान्तर्न जायते।।30।।
</95-30>

<95-31>
वर्जयेदत्र लवणमेकविंशतिवासरान्।।31।।
</95-31>
इति भैषज्यरत्नवाल्यां विशिष्टरोगाधिकारे
फिरङ्गरोगचिकित्साप्रकरणम्।।95।।