← अध्यायः ९१ भैषज्यरत्नावली
अध्यायः ९२
[[लेखकः :|]]
अध्यायः ९३ →
भैषज्यरत्नावली अध्यायाः



अथ ध्वजभङ्गचिकित्साप्रकरणम्।।92।।
तन्र क्लैब्यस्य लक्षणम्
</92-1>
क्लीबः स्यात् सुरताशक्तस्तद्भावः क्लैब्यमुच्यते।।1।।
</92-1>

क्लीबलक्षणम्-
<92-2>
न मूत्रं फेनिलं यस्य विष्ठा चाप्सु निमज्जति।
मेढ्रश्चोन्मादशुक्राभ्यां हीनः स क्लीब उच्यते।।2।।
</92-2>

क्लैब्यस्य निदानम्-
<92-3>
तच्च सप्तविधं प्रोक्तं, निदानं तस्य कथ्यते।
तैस्तैर्भावैरहॄद्यैस्तु रिरंसोर्मनसि क्षते।।
ध्वजः पतत्यधो नॄणां क्लैब्यं समुपजायते।।3।।
</92-3>

मानसक्लैब्यहेतुः-
<92-4>
द्वेष्यस्त्रीसम्प्रयोगाच्च क्लैब्यं तन्मानसं स्मतम्।।4।।
</92-4>

पित्तजक्लैब्यहेतुः-
<92-5>
कटुकाम्लोष्णलवणैरतिमात्रोपसेवितैः।
पित्ताच्छुक्रक्षयो दृष्टः क्लैब्यं तस्मात् प्रयोज्यते।।5।।
</92-5>

शुक्रक्षयजक्लैब्योहतुः-
<92-6>
अतिव्यवायशीलो यो न च वाजीक्रीयारतः।
ध्वजभङ्गमवाप्नोति स शुक्रक्षयहेतुकम्।।6।।
</92-6>

मेढ्ररोगजक्लैब्यहेतुः-
<92-7>
महता मेढ्ररोगेण चतुर्थो क्लीबता भवेत्।।7।।
</92-7>

उपघातजक्लैब्यहेतुः-
<92-8>
वीर्यवाहिसिराच्छेदान्मेहानुन्नतिर्भवेत्।
तत्तूपघातजं क्लैब्यं पञ्चमं समुदीरितम्।।8।।
</92-8>

शुक्रस्तम्भजक्लैब्यहेतुः-
<92-9>
बलिनः क्षुब्धमनसो निरोधाद्‌ ब्रह्नर्य्यतः।
षष्ठं क्लैब्यं स्मृतं तत्तु शुक्रस्तम्भनिमित्तजम्।।9।।
</92-9>

सहजक्लैब्यहेतुः-
<92-10>
जन्मप्रभृति यत्कलैब्यं सहजं तद्वि सप्तममम्।।10।।
</92-10>

साध्यासाध्यते-
<92-11>
असाध्यं सहजं क्लैब्यं मर्मच्छेदाच्च यद्भवेत्।
तथा तात्कालिकं साध्यं याप्यं स्याच्चिककालिकम्।।11।।
</92-11>

ध्वजभङ्गचिकित्सा-
<92-12>
क्लैब्यानामिह साध्यानां कार्यो हेतुविपर्ययः।
मुख्यं चिकित्सतं यस्मान्निदानपरिवर्जनम्।।12।।
</92-12>

विलासिनीवल्लभरसः-
<92-13>
कर्षौन्मितः पारदः स्याद् गन्धकोऽपि च तत्समः।
कर्षद्वयं च धुस्तूरबीजमेकत्र मर्दयेत्।।13।।
</92-13>

<92-14>
धुस्तूरबीजतैलेन पिष्ट्वा सर्वं यथाविधि।
वल्लद्वयप्रमाणेन सेवनीयो रसोत्तमः।।14।।
</92-14>

<92-15>
विलासिनीवल्लभाह्नः सितायुक्तो निरन्तरम्।
अयं मेहसमूहघ्नो वीर्यबन्धकरः परः।
कामिनीनां च दर्पघ्रो मुनिभिः समुदीरितः।।15।।
</92-15>



मदनकामदेवरसः-
<92-16>
रजतं हीरकं स्वर्णं रविः सूतश्च गन्धकः।
अयश्च क्रमवृद्वानि कुर्यादेतानि मात्रया।।16।।
</92-16>

<92-17>
विमर्द्य कन्यास्वरसैः काचकूष्यां निधापयेत्।
विमुद्रय तां तु यत्नेन मृद्वाण्डे सैन्धवैर्भृते।।17।।
</92-17>

<92-18>
संस्थाप्य विधिना तस्य मुखसन्धिं निरूद्वय च।
क्षतश्चुल्यां च संस्थाप्य दिनैकं मन्दवह्निना।।18।।
</92-18>

<92-19>
पकत्वा यथाविधि पुनः स्वाङ्गशीतं तमुद्वरेत्।
ततः संचूर्ण्य तं चार्कपयसैव विभावयेत्।।19।।
</92-19>

<92-20>
हयगन्धा च कालोली कपिकच्छुः शतावरी।
मुशली कोकिलाक्षश्च रसैरेषां पृथक्‌ पृथक्‌।।20।।
</92-20>

<92-21>
भावयेच्च त्रिधा पश्चात्पझकन्दकसेरूजैः।
रसैश्चापि पृथक्‌ कार्या भावनाऽप्येकधा ततः।।21।।
</92-21>

<92-22>
कर्पूरव्योषकस्तूरीकक्कोलैलालवङ्गकम्।
पूर्वचूर्णादष्टमाशमेतच्चूर्मं विमिश्रयेत्।।22।।
</92-22>

<92-23>
सर्वतुल्यां सितां चैव मिश्रयित्वा निधापयेत्।
शाणोन्मितं पिबेद्गव्यपसा द्विपलेन हि ।।23।।
</92-23>

<92-24>
मधुराहारनिरतो नरस्वत्वस्य प्रभावतः।
बलसौन्दर्यतेजोभिर्युक्तो नारीरनेकशः।।
भजमानोऽपि लभते बलहानिं न जातुचित्।।24।।
</92-24>

राक्षसरसः-
<92-25>
विशुद्वसूतं पलयुग्मसंमितं-
चाङ्कोटनीरेण विभावितं पुनः।
दृढं च घस्त्रत्रितयं विमर्द्य-
समानगन्धेन पुनर्विमर्दयेत्।।25।।
</92-25>

<92-26>
यदाऽञ्जनाभस्तु भवेत्तदा पुन-
श्चाङ्कोटनीरोण विभावयेद्भिषक्‌।
सद्योहतच्छगलमांसमध्ये
संस्थाप्य तल्लोहितवह्निवारा।।26।।
</92-26>

<92-27>
तुल्येन संमुद्रय च तालमूली-
निर्यासकेनापि च मांसपिण्डम्।
तदन्यमांसस्य च पिण्डमध्ये
पुनश्च संस्थाप्य च माषपिष्टया।।27।।
</92-27>

<92-28>
संलिप्य गाढं परितोऽतियत्ना-
  त्तत्तप्ततैले च पाचनीयं-
कृतावधानैर्भिषजां वरैस्तु।।
पञ्चाक्षरं चात्र मनुं जपेच्च
ध्यात्वाऽपि देवीं प्रयतो रसेश्वरीम्।।28।।
</92-28>

<92-29>
ततः सिन्दूरतुल्याभं सिद्वं वचकसमुद्वरेत्।
अष्टोत्तरसहस्त्रं च जप्त्वा पञ्चाक्षरं मनुम्।।29।।
</92-29>

<92-30>
सिद्वाद्वकटतो यत्नाद्रसं निष्कासयेच्छनैः।
ततः शुभमुहूर्त्ते तु भिषजं सद्‌द्विजानपि।।30।।
</92-30>

<92-31>
संतोष्य रक्तिकोन्मानं मधुसर्पिःसमन्वितम्।
भक्षयित्वा रसं चानुपिबेद्‌ दुग्धं सितान्वितम्।।31।।
</92-31>

<92-32>
रसायनोचितं भोज्यं यथेष्टं चापि भक्षयेत्।
कषायं च कटुं यत्नाद्रसं सेवेत न क्काचित्।।32।।
</92-32>

<92-33>
अनेन विधिना यस्तु शीलयेन्मानवो रसम्।
स कामदेवसदृशो भूत्वा वरस्त्रीणां शतं सदा।।33।।
</92-33>

<92-34>
सहस्त्रमपि कामान्धो भोक्तुं शक्तो भवेदपि।
यदि व्यावायं नो कुर्यात्तर्हि तद्रेत एव हि।।34।।
</92-34>

<92-35>
स्फुटित्वा नयनं यायात्त्स्मान्मैथुनमाचरेत्।
सेवनाद्राक्षसरसस्यास्य संजायते नरः।
अनङ्गसदृशः कामी कश्चिदत्र न संशयः।।35।।
</92-35>

कन्दर्पसुन्दररसः-
<92-36>
सूतो वज्रमाहिर्मुक्ता तारं सिताभ्रकम्।
रसैः कर्षाशकानेतान् मर्दयेदिरिमेदजैः।।36।।
</92-36>

<92-37>
प्रवालं चूर्णं गन्धस्य द्विद्विकर्षं विमिश्रयेत्।
प्रवालं चूर्णं गन्धस्य विमर्द्य मृगक्षृङ्गके।।37।।
</92-37>

<92-38>
क्षिप्त्वा मृदुपुटे पक्तवा भावयेद्वाचकीरसैः।
काकोली मधुकं मांसी बलात्रयबिसेङ्गुदम्।।38।।
</92-38>

<92-39>
द्राक्षापिप्पलिबन्दाकं वरी वानरी तथा।
परूषकं कशेरूश्च मधूकं वानरी तथा।।39।।
</92-39>

<92-40>
भावयित्वा रसैरेषां शोषयित्वा विचूर्णयेत्।
एलात्वाक्पत्रकं मांसीं लवङ्गगुरूकेशरम्।।40।।
</92-40>

<92-41>
मुस्तं मृगमदं कृष्णां जलं चन्द्रं च मिश्रयेत्।
एतच्चूर्णैः शाणमितै रसं कन्दर्पसुन्दरम्।।41।।
</92-41>

<92-42>
खादेच्छणमितं रात्रौ सिता धात्री विदारिका।
एतेषां कर्षचूर्णेन सर्पिष्कर्षेण समितम्।।42।।
</92-42>

<92-43>
तस्यानु द्विपलं क्षीरं पिबेत्सखिचमानसः।
रमणी रमयेद्वह्नीर्न हानिं क्कापि च्छति।।43।।
</92-43>

वीर्यसंस्तम्भकः सूतः-
<92-44>
शूद्वं सूतमिषुप्रतोलकमितं गन्धं तथा शुद्विमत्।
पञ्चाक्षं परिगृह्य संयतमुखां शुक्तिं समुद्वाटय ताम्।
तत्कीटं परिहृत्य शुक्तिजठरादन्तः क्षिपेद्कन्धकं
प्रोक्तस्यार्दवमथान्तरे विनिहितं सूतं समस्तं ततः।।44।।
</92-44>

<92-45>
सूतस्योपरि शेषगन्धकरजः प्रक्षिप्य तन्मध्यगं-
सूतं शुक्तिकयाऽन्ययोपरिगया संमुद्रय मृद्रस्त्रकैः
तां शुक्तिं परिशोष्य सूर्याकिरणात्संदीयतेऽग्रिस्तिषै
र्धान्यानां गजसंज्ञके वरपुटे तत्स्वाङ्गसंशीतलम्।
संचूर्ण्याशुकगालितं किल भवेद्‌ गुञ्जोन्मितं पुष्टिकृद्‌
रेतः स्तम्भनकृत्पयोऽनु च पिबेत्सायं सितासंयुतम्।।45।।
</92-45>

सौगतगुटिका-
<92-46>
पारदगधन्कचम्पककेशरकुङ्कुमलवङ्गकरहाटाः।
अजमोगाम्बुधिशोषौ जातीपत्रं च जातिफलम्।।46।।
</92-46>

<92-47>
प्रत्येकं भागैकं भागद्वितयं च शुद्वमहिफेनम्।
तेन बदरसमुगुडिका कार्या मधुनाऽथ भक्षयेदेकाम्।।47।।
</92-47>

<92-48>
यामेऽतीते ललनासविधे स्थित्वा यमानिकाकर्षम्।
तैलार्द्वं भुञ्जीयादनुपानं चैतदेतस्य।।48।।
</92-48>

<92-49>
लिङ्गं कठिनतरं स्याद्‌ वीर्यस्तम्भं भवेद्‌ यामम्।
एषा सौगतुगटिका सत्यं सत्यं च वीर्यरोधकरी।।49।।
</92-49>

कामदेवरसः-
<92-50>
सूतो माषमितः स्वदोषरहितस्तत्तुर्यभागो बलि-
स्तन्मानस्तु भुडङ्गफेन उदितः क्षुद्राफलस्याम्बुना।
एतद्गोलकमाकलय्य विपचेत्क्षुद्राफले हेमगे
लावैरष्टमितैर्भवोदिति रसः श्रीकामदेवाभिधः।।50।।
</92-50>

<92-51>
मात्रा सूर्योदये गुञ्जा चैका यामचतुष्टये।
गुञ्जाचतुष्टयं नागवल्लीदलरसान्वितम्।
दुग्धौदनं सलवणं रात्रौ क्षीरं यथेच्छया।।51।।
</92-51>

वीर्यस्तम्भकलेपः-
<92-52>
सूतटङ्गकर्पूरं तुल्यं मुनिरसं मधु।
संमर्द्य लेपयेल्लिङ्गं स्थित्वा यामं तथैव च।।52।।
</92-52>

<92-53>
ततः प्रक्षाल्यं रसमेद्वनितानां शतं सुखम्।
वीर्यस्तम्भकरं पुंसां सम्यङ्‌ नागार्जुनोदितम्।।53।।
</92-53>

मदनतैलम्-
<92-54>
शुष्कगण्डूपदभवं शुद्वभल्लातकोद्भवम्।
जातीफलसमुद्‌भूतं चाकारकरभोत्थितम्।।54।।
</92-54>

<92-55>
मृगधूलिमयं चूर्णं प्रत्येकं शाणमात्रकम्।
वातादफलतैलन्तु ग्राह्यं द्विकुडवोन्मितम्।।55।।
</92-55>

<92-56>
ततो विस्तीर्णमुख्यां तु काचकूप्यां निधाप्य च।
तन्मुखं रोधयेद्‌ यत्नाद्‌ मासमेकं सुरक्षिते।।56।।
</92-56>

<92-57>
स्थाने रक्षेत्तदूर्ध्वं तचु निर्मलं तैलमुत्तमम्।
प्राह्यं युक्त्योपरिस्थं तु पूतं किट्टविर्जितम्।।57।।
</92-57>

<92-58>
अस्य संमर्दनाल्लिङ्गे ध्वजभङ्गो विनश्यति।
अवैधमैथुनादिभ्यो जायमानो न संशयः।।58।।
</92-58>

ध्वमङ्गौषधमनामानि-
<92-59>
अधिकारे तु सम्प्रोक्तो वाजीकरणनामके।
स्वल्पो तथा बृहच्चन्द्रोदयादिमकरध्वजौ।।59।।
</92-59>

<92-60>
सिद्वसूतः पञ्चशरः कामदीपके एव च।
कामिनीपदसंयुक्तदर्पघ्नो रस उत्तमः।।60।।
</92-60>

<92-61>
कामाग्निसन्दीपनोऽपि पुष्पधन्वा पुष्पधन्वा रसस्तथा।
पूर्णचन्द्रस्तथा सिद्वशाल्मलीकल्प एव च।।61।।
</92-61>

<92-62>
एवंविधा रसाश्चान्ये प्रोज्याश्च यथाविधि।
त्रिकण्टकाद्यश्चापि श्रीमदनानान्दनामकः।।62।।
</92-62>

<92-63>
मोदकौ च रसालाऽपि योजनीया भिषग्जनैः।
अश्वहगन्धाऽमृतप्राशघृते साधुविनिर्मिते।।63।।
</92-63>

<92-64>
श्रीगोपालाभिधं तैलं पल्लवसारनामकम्।
तैलं महाचन्दनादि सेवनीयं प्रयत्नतः।।64।।
</92-64>

<92-65>
एवंविधान्यौषधानि यथादोषानुसारतः।
प्रयोज्यानि विचार्यैव ध्वभङ्गमये सदा।।65।।
</92-65>

ध्वजभङ्गे पथ्यम्-
<92-66>
शालिषष्टिकगोधूममसूरचणकादयः।
नवनीतं च दुग्धं च सुरा सीधुश्च वर्तकः।।66।।
</92-66>

<92-67>
चटकः कुक्कुटश्चैव तित्तिरिर्हरिणस्तथा।
शशच्छागयोरेषां पललानि मृदूनि तु।।67।।
</92-67>

<92-68>
द्राक्षाखर्जूराम्रजम्बूदाडिमानां फलानि च।
पथ्यान्येतानि प्रोक्तानि ध्वजभङ्गदे बुधैः।।68।।
</92-68>
इति भैषज्यरत्नावल्यां विशिशष्टरोगाधिकारे ध्वजभङ्ग-
चिकित्साप्रकरणम्।।92।।