← अध्यायः १०१ भैषज्यरत्नावली
अध्यायः १०२
[[लेखकः :|]]
अध्यायः १०३ →
भैषज्यरत्नावली अध्यायाः


`अथथांशुघातरोगचिकित्साप्रकरणम्।।102।
तस्य कारणम्-
<102-1>
प्रचण्डण्डांशुकरैर्यदैव
प्रतप्तशीर्षः पुरूषस्तदैव।
वपुर्विमर्दो ननु देहिनोंऽशु-
घातभिधो व्याधिरूदेति तस्मिन्।।1।।
</102-1>

<102-2>
भूम्नाऽयमुग्रतपहेतुतः सदा
स्यांदशुघातः खलु दुर्बलादिषु।
उष्णप्रदेशेषु तथैव भूमे-
रार्द्रत्वतः स्थैर्यत एव वायोः।।2।।
</102-2>

<102-3>
उष्णानि कार्याण्यनिशं प्रकुर्व-
त्‌स्वेतत्प्रभावान्मनुजेषु नूनम्।
ग्रीष्मप्रचण्डांशुनिषेविषूपा-
नदातपत्रादिमनाश्रितेषु।।3।।
</102-3>

<102-4>
निर्वातकारालयमास्थितेषु
प्राधान्यतो योद्‌धृजनेष्ववश्यम्।
संजायते प्राणिवपुर्विमर्दो
घेरे गदः सद्भिषजां मतेन।।4।।
</102-4>

तस्य लक्षणम्-
<102-5>
अस्यांशुघातस्य गदस्य वैद्यै-
स्तिस्त्रस्त्ववस्थाः परिकीर्त्तिता वै।
शीताभिधाऽऽद्या चान्तगता हि तीव्रा।।5।।
</102-5>

<102-6>
क्लिन्नत्वशीतत्वसमन्विता त्वग्‌
मूर्च्छा श्रमः स्यादथ दुर्बलत्वम्।
तीव्रत्वमुक्तं ननु नाडिकाया-
स्तत्रादिमायां हि रूजो दशायाम्।।6।।
</102-6>

<102-7>
अस्यां दशायां नहि जातु मृत्युः-
प्रदृश्यते रोगिजनस्य नूनम्।
चिकित्सया जीवनमेव रोगी
दृत्कार्यरोधात्तु लभेत मृत्युम्।।7।।
</102-7>

<102-8>
तथा द्वितीया दशां गतस्यां-
शुघातिनो मूर्ध्नि भवेद्वि शूलम्।
पीडाऽपि शुष्कत्वमथोष्णता च
त्वचो धमन्याञ्चपलत्वमुक्तम्।।8।।
<102-8>

<102-9>
क्षीणत्वमेवं बहुदुर्बलत्वं-
दृच्छ्वासयोरप्यतिनिश्चयेन।
मूर्च्छाऽऽदिचिह्नानि भवेयुरत्र
प्रायेम पूर्वोक्तदशासमानि।।9।।
</102-9>

<102-10>
एवं दशामाप्नुवतोऽन्तिमां च
ज्वरस्तु तीव्रः श्वसं प्रलापः।
भवेद्गदार्त्तस्य च नीलवर्णता
संन्यासरोगो मरणं तथाऽन्ते।।10।।
</102-10>

असाध्यलक्षणम्-
<102-11>
करद्वयेऽङिघ्रद्वितये नीलिमा
तथा धमन्याः क्षणलुप्तता च।
विक्षेपणं चावयवस्य रोगिणोऽ-
शुघातिनो मृत्युकृते भवन्ति।।11।।
</102-11>

अशुंघातस्य चिकित्सा-
<102-12>
अङ्गवरणवासांसि दूरे निक्षिप्य यत्नतः।
प्रच्छाये प्रवहद्वाते गन्धाढये मनसः प्रिये।।12।।
</102-12>

<102-13>
विविक्ते व्यक्तनभसि विहङ्गगणनादते।
शीतलैर्मृदुलैः पर्णैः पझदप्रभवैरपि।।13।।
</102-13>

<102-14>
विस्तीर्णायां सुशय्यायां शाययेदंशुघातिनम्।
ततस्तस्य हरेतस्वेदं तालवृन्तभवानिलैः।।14।।
</102-14>

<102-15>
पझरम्भादलोशीरव्यजनैस्तं च वीजयेत्।
शीतवारिपरीषेकं विदध्याच्च मुहुर्मुहुः।।15।।
</102-15>

<102-16>
सचन्दनं च सलिलं स्वल्पमेव प्रपायेत्।
पिपालाऽऽर्त्तंन सहसा पाययेदम्बु वाऽधिकम्।।16।।
</102-16>

<102-17>
दाहोष्णतानिरासार्थं सर्वमङ्गं रोगिणः।
शीतलाम्भोऽधिकार्द्रेणाम्बरेणाच्छादयेद्भिषक्।।17।।
</102-17>

<102-18>
सहस्त्रघारया स्नानमंशुतापामयापहम्।।18।।
</102-18>

<102-19>
दन्तीतैलेन संप्रोक्तं हितकॉं रेचनमुत्तमम्।
अंशुघातगदार्त्तस्य विङ्‌विबन्धे भिषग्वरैः।।19।।
</102-19>

<102-20>
सिक्तमत्युष्णानीरेण गुरूर्णामयमम्बरम्।
ततो निहृचनीरं च श्रीवासस्नेहाबन्दुभृत्।
कदुष्णमेव घाटयां संस्थाप्यान्येन वाससा।।20।।
</102-20>

<102-21>
अनार्द्रेणाथवा रम्भादलः कोमलबन्धनम्।
दाहावझि विधातव्यं विधानं भिषजेदृशम्।।21।।
</102-21>

<102-22>
एवंविधेन विधिना तन्मूर्च्छा द्रागपेत्यपि।
अन्ते गदी सुखं पकृातस्थो भवेद्‌ भृशम्।।22।।
<102-22>

<102-23>
यदाऽङ्गोष्मविनाशः स्यात्‌ किंवा नाडीव्यतिक्रमः।
तदा तदपनोदार्थं युक्त्या स्वेदनमाचरेत्।।23।।
</102-23>

<102-24>
पाययेच्च यथामात्रं मृतसंजीवनीं सुराम्।।24।।
</102-24>

रत्नेश्वररसः-
<102-25>
वज्रं वैक्रान्तमभ्रं च रससिन्दूरमाक्षिके।
सुवर्णं मौक्तिकं तारं सममिक्षुभवाम्भसा।।25।।
</102-25>

<102-26>
शतावरीविदार्योश्च स्वरसाभ्यां पृथक्‌ पृथक्‌।
विभाव्य वटिकाः कार्या भिषग्भी रक्तिकोन्मिताः।।26।।
</102-26>

<102-27>
त्रिफलाऽम्वनुपानेन प्रयोक्तव्याः प्रयत्नतः।
मस्तिष्कस्नायुसंभूतान् गदान् रत्नेश्वरो रसः।
निहन्यादंशुघातं च विशेषान्नात्र संशयः।।27।।
</102-27>

महाशिशिरपानकम्-
<102-28>
सिता द्विपलिका ग्राह्या चन्दनं चैकतोलकम्।
जम्बीरस्य तथा वर्याः स्वरसश्च पृथक्‌ पलम्।।28।।
</102-28>

<102-29>
शाणकं मधुरीतैलमर्द्वप्रस्थमिते जले।
संमिश्रय सामलोडय स्तोकमात्रं पुनः पुः।।29।।
</102-29>

<102-30>
अंशुघातगदाक्रान्तं पाययेत् सुखदं हि तत्।
महाशिशिरनामेदं पानकं हरिणोदितम्।।30।।
</102-30>

<102-31>
अंशुघातेऽपि कुशला वैद्या मूर्च्छाविनाशिनीम्।
क्रियां सर्वां प्रकुर्वन्ति रोगिणः सुखहेतवे।।31।।
</102-31>

<102-32>
अंशुघाते निवृत्तेऽपि मिथ्याहारविहारिणः।
अपस्मारादयः प्रायो जायन्ते बहवो गदाः।।32।।
</102-32>

<102-33>
तन्मुक्तोऽतो हितं नित्यं सेवेताबलाभतः।
मनःप्रीतिप्रदं कर्म विदधीत निरत्नरम्।।33।।
</102-33>

<102-34>
अन्नपानादिकं स्निग्धं बलदं पुष्टिदं सरम्।
हितं स्यादंशुघातिभ्यो विपरीतं न शर्मकृत्।।34।।
</102-34>

इति भैषज्यरत्नावल्यां विशिष्टरोगाधिकारेंऽशुघातरोग-
चिकित्साप्रकरणम्।।102।।