← अध्यायः ९२ भैषज्यरत्नावली
अध्यायः ९३
[[लेखकः :|]]
अध्यायः ९४ →
भैषज्यरत्नावली अध्यायाः


अथ वृक्करोगचिकित्साप्रकरणम्।।93।।
वृक्करोगसय निदानम्-
<93-1>
प्रायेण शैत्यस्य विषेषयोगाद-
वृक्कद्वये वृक्कगदोऽभिजायते।
मसूरिकायां च विसूचिकायां-
किंवाऽऽमवाते चिरजे ज्वरेऽपि वा।।
उपद्रवत्वेन गृहीतजन्मा
भवेदसौ चिति मतं बुधानाम्।।1।।
</93-1>

<93-2>
विशेषतो वृक्करोगो रक्तस्य परिवर्त्तनात्।
नराणां जायते देहे भिषजामिति निर्णयः।।2।।
</93-2>

तस्य पूर्वरूपम्-
<93-3>
निद्रानाशो वह्निमान्द्यं च शोथोनेत्रे चास्येषादयोर्वृक्करोगे
नाडीस्तब्धावेगमुक्तथचोष्णात्वाचंरौक्ष्यं पूर्वरूपंप्रदिष्टम्।।3।।
</93-3>

रोगावस्थायां वृक्कयोः स्वरूपम्-
<93-4>
वृक्कद्वन्द्वे रोगयुक्ते भवेतां-
स्थौल्यं तद्वन्मार्दवं चापि नूनम्।
द्वैगुण्यं चाकारमध्ये सिराणा-
मुच्छुनत्वं तत्र संदृश्यतेऽपि।।4।।
</93-4>

<93-5>
नाडीमध्यगतस्यापि द्रवस्य बहुसञ्चयः।
तथा मूत्रं दधानायाः कलायाः क्षरणं परम्।।5।।
</93-5>

तस्य लक्षणम्-
<93-6>
छर्दिः शोथो वेदना चापि सर्वे-
ष्वङ्गेष्वद्वा शीर्षशूलं ज्वरश्च।
रक्तह्नासात्पाण्डुवर्णत्वमास्ये
स्वेदाभावस्त्वाचरौक्ष्याग्निमान्द्ये।
पीडा कटयां चोदरे वृक्कदेशे
  नाडी नूनं वेगयुक्ता भवेच्च।।6।।
</93-6>

<93-7>
मूत्रं शश्वद्विन्दुरूपेण चोष्णं पीडायुक्तं वृक्करोगे स्त्रवेद्वै।
एवं तीव्रं लक्षणं वृक्कयुग्मे जातुस्यादेवाश्मरीयोगतोऽपि।।7।।
</93-7>

<93-8>
<93-9>
<93-10>
शिश्रस्याग्रे जायते चातिपीडा
मूत्रं रक्तेनान्वितं स्यात्कदाचित्।
शौत्योपेतं पाणिपादं भवेद्वै दाहश्चाल्पो मूत्रकाले ध्वजाग्रे
वृक्कद्वन्द्वे कार्यशैथिल्यहेतोर्घोरैः स्वैः स्वैर्लक्ष्णैर्लक्ष्यमाणः
रोगः प्लीह्नो दृद्यकृत्सं भवोनुर्वृक्कग्रस्तस्येतिचिह्नं प्रदिष्टम्
नादः कर्णे नेत्रतरोगो ध्वजोत्थो
भङ्गः शाखागैरवं चापि मूर्च्छा।
अंसे ग्रीवायां च मूर्ध्नि प्रपीडा।
मोहो लिङ्गान्येवमेतानि च स्युः।।10।।
</93-8>
</93-9>
</93-10>

उपद्रवाः-
<93-11>
मूर्च्छा कासः फुफ्फुसभित्तौ श्वयथुस्तथा ह्यरस्तोयः।
सलिलोदरश्च तद्वन्मूत्रविषस्य संक्रमणमध्यस्त्रम्।।11।।
</93-11>

<93-12>
अधिबृक्करोगमेते ननु भवन्त्युपद्रवा विशेषेण।।12।।
</93-12>

चिकित्साक्रमः-
<93-13>
आदौ तु भिषजा कार्यं विचार्यैव विधानतः।
रक्तसम्मोक्षणं रोगिरोगयोस्तु बलाबलम्।।13।।
</93-13>

<93-14>
ततो विरेकः स्वेदश्च तथा मूत्रलमुत्तमम्।
अन्नपानं भेषजं च वृक्करोगे प्रयोजयेत्।।14।।
</93-14>

<93-15>
व्याधिवृबन्धे तु संजाते स्नेहवस्तिः शुभावहः।
दूरतः षरिवर्ज्यं स्यादित्यायुर्विदुषां मतम्।।15।।
</93-15>

<93-16>
विड्‌विबन्धे तु संजाते स्नेहवस्तिः शुभावहः।
वृक्काश्मर्यां क्रमः सर्वः सुखदस्त्वश्मरीहरः।।16।।
</93-16>

सर्वतोभद्रावटी-
<93-17>
हेमरौप्याभ्रलौहानि जतु गन्धं च माक्षिकम्।
वटीं रक्तिमितां कुर्याद्विमर्द्य वरूणाम्भसा।।17।।
</93-17>

<93-18>
वटीयं सर्वतोभद्रा निखिलान् वृक्कजान् गदान्।
हरेद्वस्तिभवांश्चापि बलं वीर्यं च वर्द्वयेत्।।18।।
</93-18>

माहेश्वरवटी-
<93-19>
गगनं कान्तलौहं च स्फटिकास्वर्णमौक्तिकम्।
सहदेवीजटा क्षीरपुष्पी सर्वं समांशकम्।।19।।
</93-19>

<93-20>
संचूर्ण्य सितवर्षाभूर्गोक्षुरः शुष्कमूलकम्।
एषां क्काथैस्तु विधिना पृथक्‌ संभाव्यं सप्तधा।।20।।
</93-20>

<93-21>
गुजाद्वयोन्मिताः कार्या वटिकाः सद्भिषग्जनैः।
इयं माहेष्वरीनाम्नी वटिका सेवनाद् ध्रुवम्।।21।।
</93-21>

<93-22>
वृक्करोगं च सलिलोदरं पाण्ड्वामयं तथा।
विषमज्वरं च शोथं सर्वदेहसमुद्गतम्।।22।।
</93-22>

<93-23>
मूर्च्छां च सत्वरं हन्याद् यथा वज्रं तु पादपान्।
सेवनीयं प्रयत्नेन क्षीरान्नं पथ्यरूपतः।।23।।
</93-23>

<93-24>
रसायनाधिकारो,क्तान्यौषधान्यत्र योजयेत्।
न चास्ति शमने कतिंचिन्निदिष्चमस्य भेषजम्।।24।।
</93-24>

<93-25>
कालं बलं च रूग्णानं सुविचार्य विशेषतः।
पथ्यैर्बस्यैः सुपाच्यैश्च भिषगेनं प्रयापयेत्।।25।।
</93-25>

इति भैषज्यरत्नावल्यां विशिष्टरोगधिकारे वृक्करोग-
चिकित्साप्रकरणम्।।93।।