मोक्षोपायटीका/उत्पत्तिप्रकरणम्/सर्गः १०

← सर्गः ९ मोक्षोपायटीका/उत्पत्तिप्रकरणम्
भास्करकण्ठः
सर्गः ११ →
मोक्षोपायटीका/उत्पत्तिप्रकरणम्



ओम् । अत्र मोहमापन्न इव श्रीरामः पृच्छति

महाप्रलयसम्पत्तौ यदेतदवशिष्यते ।

भवत्वेतदनाकारं नाम नास्त्यत्र संशयः ॥ ३,१०.१ ॥

"अत्र संशयो नास्ति" । "एतत्" वस्तु । "अनाकारम्" आकाररहितम् । "भवतु" । अत्र ममापि विश्वासोऽस्तीतीति भावः । "एतत्" किम् । "महाप्रलयसम्पत्तौ" सर्वभावक्षये । "यतेतत्" सद्वस्तु । "अवशिष्यते" अवशिष्टतया तिष्ठति ॥ ३,१०.१ ॥

 

 

 

बहिरनुभूयमानाकाररहितशून्यादिवस्तुरूपतानिरासस्तु तस्य न युज्यत इति कथयति

न शून्यं कथमेतत्स्यान्न प्रकाशः कथं भवेत् ।

कथं वा न तमोरूपं कथं वा नैव खात्मकम् ॥ ३,१०.२ ॥

तत्"शून्यं कथं न भवेत्" । तदेव भवत्वित्यर्थः । एवं सर्वत्र योज्यम् । "प्रकाशः" महाभूतप्रकाशः । "खात्मकम्" आकाशरूपम् ॥ ३,१०.२ ॥

 

 

कथं वा नैव चिद्रूपं जीवो वा न कथं भवेत् ।

कथं न बुद्धितत्त्वं स्यात्कथं वा न मनो भवेत् ॥ ३,१०.३ ॥

चिद्रूपत्वस्यापि तत्र परमार्थतया निवारणादेतदुक्तम् ॥ ३,१०.३ ॥

 

 

कथं वा न न किञ्चित्स्यात्कथं वा सर्वमित्यपि ।

अनया च वचोभङ्ग्या मम मोह इवोदितः ॥ ३,१०.४ ॥

"न किञ्चित्" केनापि रूपेण स्थितं न भवति । नकिञ्चित्त्वस्यापि निराकरणात् । "सर्वमित्यपि कथं वा" न भवति ॥ ३,१०.४ ॥

 

 

श्रीवसिष्ठ उत्तरमाह

विषमोऽयमति प्रश्नो भवता समुदाहृतः ।

भिनद्म्येनं त्वयत्नेन नैशं तम इवांशुमान् ॥ ३,१०.५ ॥

"अति"शब्दो भिन्नक्रमः । "भवता अयं प्रश्नः अतिविषमः" दुर्बोधतरः । "समुदाहृतः" । "तु" विशेषे ।ऽहं "एनमयत्नेन" सुखेनैव । "भिनद्मि" । मनोग्रन्थिरूपत्वात्प्रश्नस्य "भिनद्मी"ति कथनम् । क "इवांशुमानिव" सूर्य इव । अंशुमान् यथा "नैशं" निशासम्बन्धि । "तमः" भिनत्ति । तथेत्यर्थः ॥ ३,१०.५ ॥

 

 

प्रश्नमेव भिनत्ति

महाकल्पान्तसम्पत्तौ यत्तत्सदवशिष्यते ।

तद्राम न यथा शून्यं तदिदं शृणु कथ्यते ॥ ३,१०.६ ॥

"महाकल्पान्तसम्पत्तौ" तुर्ये तुर्यातीते महाप्रलयसमयनिष्पत्तौ वा । "तत्" प्रसिद्धं केनापि अपलपितुमशक्यम् । हे "राम" । "तत्" "यच्"छब्दकथितं "सद्" वस्तु । "यथा" येन प्रकारेण । "शून्यं न" भवति । "तत्" तमेव प्रकारम् । "इदं" समनन्तरमेव कथ्यमानम् । "शृणु" । यतो मया "कथ्यते" ॥ ३,१०.६ ॥

 

 

तदेव कथयति

अनुत्कीर्णा यथा स्तम्भे संस्थिता सालभञ्जिका ।

तथा विश्वं स्थितं तत्र तेन शून्यं न तत्पदम् ॥ ३,१०.७ ॥

"अनुत्कीर्णा" तक्षकारेण निस्तक्ष्य न प्रकटीकृता । स्तम्भे संस्थितत्वमस्या अग्रे प्रकटीभावात् । विश्वस्य सद्रूपे स्थितत्वमद्यैव भासमानत्वाद् । इति तु विशेषः । "तत्पदं" परमात्माख्यं पदम् । यदि तच्"छून्यं" स्यात्तदा जगत्कुत्र भूयात् । निरधिष्ठानस्य भ्रमस्यायुक्तत्वादिति भावः । भेदेनैव भातीत्य्"अनुत्कीर्णे"त्युक्तम् ॥ ३,१०.७ ॥

 

 

 

एतदेवं विस्तरं कथयति

अयमित्थं महाभोगो जगदाख्योऽवभासते ।

सत्यो भवत्वसत्यो वा यत्र तत्र क्व शून्यता ॥ ३,१०.८ ॥

"अयम्" अनुभूयमानः विस्तारः । "सत्यो भवतु" सत्स्वरूपो भवाख्यः । "जगद्" इति नामधेयः । "महाभोगः" महाविस्तारः । "सत्यो भवतु" सत्स्वरूपो भवत्व् । "असत्यो वा"सत्स्वरूपो वा भवतु । सः "यत्र" आधारभूते यस्मिन् वस्तुनि । "अवभासते" स्फुरति । "तत्र क्व शून्यता" । न युक्तेति भावः ॥ ३,१०.८ ॥

 

 

 

यथा न पुत्रिकाशून्यः स्तम्भोऽनुत्कीर्णसालिकः ।

तथा तात जगद्ब्रह्म तेन शून्यं न तत्पदम् ॥ ३,१०.९ ॥

"अनुत्कीर्णसालिकः" अनुत्कीर्णपुत्रिकः । दार्ष्टान्तिके योजयति "तथे"ति । हे "तात" हे पूज्य । "तथे"त्यनेन पूर्ववाक्यस्थं "ने"ति "शून्य" इति च पदद्वयमाकृष्यते । तेनायमर्थः । "तथा ब्रह्म" "जगच्छून्यं न" भवति । फलितमाह "तेने"ति ॥ ३,१०.९ ॥

 

 

 

सोम्याम्भसि यथा वीचिर्न चास्ति न च नास्ति च ।

तथा जगद्ब्रह्मणीदं शून्याशून्यपदं गतम्  ॥ ३,१०.१० ॥

"सोम्याम्भसि" क्षोभरहिते जले । "न चास्ति" । तदानीमलभ्यत्वात् । "न च नास्ति" । अग्रे स्फुटीभविष्यमाणत्वात् । दार्ष्टान्तिकमाह "तथे"ति । भासमानत्वाद्"अशून्यपदं गतं" । परमार्थतो नकिञ्चिद्रूपत्वाच्"छून्यपदं गतम्" इति योज्यम् ॥ ३,१०.१० ॥

 

 

ननु तर्हि पुत्रिकादिसादृश्येन सिद्धा एव ब्रह्मणि जगत्स्थितिरित्य् । अत्राह

देशकालादिशान्तत्वात्पुत्रिकारचनं द्रुमे ।

सम्भवत्यजधातौ तु केन नान्तर्विमुह्यते ॥ ३,१०.११ ॥

"द्रुमे" लक्षणया स्तम्भे । "पुत्रिकारचनं" देशवशेन कालवशेन कर्त्रादिवशेन च "सम्भवति" । "तु" विशेषे । "अजधातौ" नवीनप्रादुर्भावरहितचिदाख्यमूलकारणविषये । "ऽन्तः" मनसि । "केन" पुरुषेण । "न मुह्यते" मोहितेन भूयते ।ऽपि तु सर्वेणैवेत्यर्थः । कुतो "मुह्यते" । "देशकालादिशान्तत्वात्" । "आदि"शब्देन कर्त्रादीनां ग्रहणम् । देशकालकर्त्रादिशान्तेरित्यर्थः । तच्छान्तिश्चात्र शुद्धचिन्मात्रतयैव ज्ञेया । मोहश्च देशकालादिस्पर्शरहिते ब्रह्मणि कथं जगद्भाति इत्येवंरूपो ज्ञेयः ॥ ३,१०.११ ॥

 

 

 

फलितमाह

तत्स्तम्भपुत्रिकाद्येतत्परमार्थजगत्स्थितेः ।

एकदेशेन सदृशमुपमानं न सर्वतः ॥ ३,१०.१२ ॥

यतः देशकालादिसम्भवेन स्तम्भे पुत्रिकारचनं युक्तम् । तच्छान्त्या तु चिद्धातौ तु न युक्तम् । "तत्" ततो हेतोः । "एतत्" समनन्तरमेवोक्तं "स्तम्भपुत्रिकादि" । "आदि"शब्देन वीच्यम्भसोर्ग्रहणम् । "परमार्थे" या "जगत्स्थितिस्" । तस्याः "एकदेशेन" शून्यतानिवारणमात्रेण । "सदृशमुपमानं" भवति । "न सर्वतः" न सर्वेण प्रकारेण । न भवतीत्यर्थः ॥ ३,१०.१२ ॥

 

 

 

जगदाधारत्वेन शून्यत्वं निरस्य तद्रूपतया निरस्यति

न कदाचिदुदेतीदं परस्मान्न च शाम्यति ।

इदंरूपं केवलं सद्ब्रह्म स्वात्मनि संस्थितम् ॥ ३,१०.१३ ॥

"परस्मात्" परमात्मनः । ननु यदि जगन्नोदेति न च शाम्यति तर्हि किमिदं भासत इत्य् । अत्राह "इदम्" इति । "केवलम्" अद्वितीयम् । "सत्" सत्स्वरूपम् । "ब्रह्म" बृंहितं वस्तु । "स्वात्मनि" स्वस्वरूपे । "संस्थितं" भवति । कथम्भूतं "इदंरूपं" । "इदं" शान्त्युदयसहितं जगत् । "रूपं" स्वरूपम् । यस्य । तत् । तादृशम् । शान्त्युदयसहितस्य जगतो ब्रह्मत्वं ब्रह्माश्रयबृंहाविषयत्वेन ज्ञेयम् । बृंहाविषयो हि ब्रह्मस्वरूपमेव भवति । तथा च ब्रह्मणः शून्यत्वं न युक्तमिति भावः ॥ ३,१०.१३ ॥

 

 

अशून्यत्वासम्भवेन शून्यत्वनिरासमाह

अशून्यापेक्षया शून्यशब्दार्थपरिकल्पना ।

अशून्यत्वासम्भवतः शून्यत्वाशून्यते कुतः ॥ ३,१०.१४ ॥

"अशून्यत्वापेक्षयाशून्यत्वस्य" किञ्चिद्रूपत्वस्य्"आपेक्सया" तदपेक्ष्येत्यर्थः । "शून्यत्वपरिकल्पना "। "शून्यत्वस्य" नकिञ्चिद्रूपत्वस्य । "परिकल्पना" कल्पनम् । भवति । ततः किमित्य् । अत्राह "अशून्यत्वे"ति । "अशून्यत्वासम्भवतः" उक्तयुक्त्या किञ्चिद्रूपत्वासम्भवेन । "शून्यत्वाशून्यते" नकिञ्चित्त्वकिञ्चित्त्वे । "कुतः" । न स्त इत्यर्थः । सापेक्षयोरेकनाशे द्वयोरपि नाशादिति भावः । किञ्चिद्रूपत्वाभावश्च निरालम्बशुद्धचिन्मात्रतया ज्ञेयः ॥ ३,१०.१४ ॥

 

 

 

शून्यत्वं निवार्य प्रकाशरूपत्वं निवारयति

ब्रह्मण्ययं प्रकाशो हि न सम्भवति भूतजः ।

सूर्यानलेन्दुतारादि कुतस्तत्र किलाव्यये ॥ ३,१०.१५ ॥

"अयं" नेत्रेण दृश्यमाणः । "भूतजः" अग्न्यादिभूतोत्पन्नः । "प्रकाशः" तेजः । "हि" निश्चये । "ब्रह्मणि" व्यापके वस्तुनि । "न सम्भवति" । चिन्मात्रतया तदुत्तीर्णत्वात् । अत्र हेतुत्वेनोत्तरार्धमाह "सूर्ये"ति । "किल"शब्दो हेतुत्वद्योतनार्थः । "अव्यये" नाशरहिते । "सूर्यादीनाम्" आकृतिमत्त्वेन नाशसम्भवान्नात्र स्थितिर्युक्ता । तद्रूपतायास्तु का कथा इति भावः ॥ ३,१०.१५ ॥

 

 

 

तमोरूपत्वं निवारयति

महाभूतप्रकाशानामभावस्तम उच्यते ।

महाभूताभावजं तु तेनात्र न तमः क्वचित् ॥ ३,१०.१६ ॥

तेजोऽभावस्यैव तमस्त्वं वादिभिः प्रतिपादितमिति भावः । फलितमाह "महाभूते"ति । "तु" विशेषे । "महाभूताभावजं" लक्षणया महाभूतप्रकाशाभावात्जातम् । तद्रूपमिति यावत् । "तमो" । "ऽत्र" सद्वस्तुनि । "तेन" महाभूतप्रकाशाभावत्वेन हेतुना । "ना"स्ति । कुत्र । "क्वचित्" कस्मिन्नप्यंशे महाभूतस्थित्यायतने । महाभूतप्रतियोगिकाभावासम्भवेन तमोऽप्यत्र न युक्तम् । तद्रूपस्य तु का कथेति भावः ॥ ३,१०.१६ ॥

 

 

 

ननु तेजसोऽभावे कथं तत्प्रकाशत इत्य् । अत्राह

स्वानुभूतिप्रकाशोऽस्य केवलं व्योमरूपिणः ।

योऽन्तरस्ति स तेनैव न त्वन्येनानुभूयते ॥ ३,१०.१७ ॥

"व्योमरूपिणः" नकिञ्चिद्रूपस्य्"आस्य" सद्वस्तुनः । "स्वानुभूतिः" स्वास्वरूपभूता चासाव्"अनुभूतिः" अनुभवः । "स्वानुभूतिः" । सैव "प्रकाशः" प्राकट्यकरणभूतं तेजः । स्वानुभूत्यैवासौ भाति न बाह्यतेजसेत्यर्थः । कथम्भूतदित्य् । अत्राह "योऽन्तर्" इति । "योऽन्तरस्ति" । पुरुषेण "स तेनैवा"करणभूतेन तेनैव्"आनुभूयते" । स्वप्रतीतिविषयतां नीयते । "न त्वन्येन" । अन्यस्य तत्र प्रवेशासम्भवात् । स्वयमेवासावनुभवोऽनुभवितानुभवनमनुभूतिविषयश्चेति । न तत्र कस्याप्यपेक्षेति भावः ॥ ३,१०.१७ ॥

 

 

 

प्रकृतमनुसन्धत्ते

मुक्तं तमःप्रकाशाभ्यामित्येतदजरं पदम् ।

आकाशकोशमेवैनं विद्धि कोशं जगत्स्थितेः ॥ ३,१०.१८ ॥

"इति" अनेन प्रकारेण । "एतत्" अवशेषतया कथ्यमानम् । "अजरं" जरादोषरहितम् । "पदं" स्थानम् । "तमःप्रकाशाभ्यां" तमसा प्रकाशेन च । "मुक्तं" भवति । खात्मकत्वमस्य निवारयितुं प्रस्तौति । "आकाशे"ति । त्वम् "एनं" परमात्मानम् । "आकाशकोशमेव" आकाशमध्यमेव । "जगत्स्थितेः कोशं" भाण्डागारम् । "विद्धि" जानीहि ॥ ३,१०.१८ ॥

 

 

दृष्टान्तेनैतदेव दृढयति

बिल्वस्य बिल्वसंज्ञस्य यथा भेदो न कश्चन ।

तथेह ब्रह्मजगतोर्न मनागपि भिन्नता ॥ ३,१०.१९ ॥

"बिल्वस्य" बिल्वफलस्य । "बिल्वसञ्ज्ञस्य" बिल्वेति संज्ञाप्रवृत्तिनिमित्तस्य वस्तुनः । "यथा" येन प्रकारेण । "कश्चन" कोऽपि । "भेदः ना"स्ति । "तथा" तेन प्रकारेण्"एहा"स्मिंल्लोकत्रये । "ब्रह्मजगतोर्" "मनागपि भिन्नता न" भवति । यदेव ब्रह्म तदेव जगत् । यदेव जगत्तदेव ब्रह्मेति भावः । "बिल्वस्य" "बिल्वमध्यस्ये"ति वा पाठः ॥ ३,१०.१९ ॥

 

 

 

ननु तथापि प्रकृते किमायातमित्य् । अत्राह

सलिलेऽन्तर्यथा वीचिर्मृदोऽन्तर्घटको यथा ।

तथा यत्र जगत्सत्ता तत्कथं खात्मकं भवेत् ॥ ३,१०.२० ॥

"सलिले" जले । "ऽन्तः वीचिः यथा" भवति । "तथा" तेन प्रकारेण । "यत्र" यस्मिन्नुपादानभूते । "जगत्सत्ता" भवति । "तद्" वस्तु । "खात्मकम्" आकाशस्वरूपम् । "कथं भवेत्" ॥ ३,१०.२० ॥

 

 

चिद्रूपतानिवारणार्थं प्रक्रियामारभते

मृज्जलाद्युपमानश्रीः साकारात्र समा न सा ।

ब्रह्म त्वाकाशविशदं तस्यान्तःस्थं तथैव तत् ॥ ३,१०.२१ ॥

"मृज्जलाद्युपमानश्रीः" । "अत्र" ब्रह्मविषये । "समा" योग्या । "न" भवति । कुत इत्यपेक्षायामाह । "साकारे"ति । यतः "साकारा" आकारसहिता भवति । साकारत्वेन कथं मृज्जलादेरुपमानयोग्यत्वमित्य् । अत्राह "ब्रह्मे"ति । "तुः" विशेषे । "ब्रह्माकाशविशदं" निराकारम् । भवति । साकारस्य मृदादेः निराकारं ब्रह्म प्रति उपमानत्वं न युक्तमिति भावः । फलितमाह । "तस्ये"ति । "तत्" ततो हेतोः । तद्"अन्तःस्थं" तदन्तरे स्थितम् । जगत्"तथैव" निराकारं भवतीत्यर्थः ॥ ३,१०.२१ ॥

 

 

 

पुनरप्युपसंहारव्याजेन जगतो निराकारत्वं साधयति

तस्माद्यादृक्चिदाकाशमाकाशादपि निर्मलम् ।

तदन्तःस्थं तादृगेव जगच्छब्दार्थभागपि ॥ ३,१०.२२ ॥

"आकाशाद्" "अपि" निर्मलत्वं चिदाकाशस्य जडत्वाभावेन ज्ञेयम् । "तदन्तःस्थं" जगत् । "तादृगेव" निराकारमेव भवति । कथम्भूतम् "अपि" । "जगच्छब्दार्थभागपि" । भावप्रधानो निर्देशः । तेन जगद्रूपतया भासमानत्वेन जगच्छब्दार्थताभागपीत्यर्थः ॥ ३,१०.२२ ॥

 

 

 

मरिचेऽन्तर्यथा तैक्ष्ण्यमृते भोक्तुर्न लक्ष्यते ।

चिन्मात्रत्वं पराकाशे तथा चेत्यकलां विना ॥ ३,१०.२३ ॥

"यथा" केनचित्"मरिचेऽन्तः" मरिचान्तरे । स्थितं "तैक्ष्ण्यं" तिक्तता । "भोक्तुः ऋते न लक्ष्यते" न दृश्यते । भोक्तरि तु सति तेनैव लक्ष्यते इत्यर्थः । "तथा पराकाशे" परमात्मनि । स्थितं "चिन्मात्रत्वं" । "चेत्यकलां" चेत्यांशं "विना" । "न लक्ष्यते" । चेत्यचर्वणादेव हि चिन्मात्रस्य चिन्मात्रता ज्ञायते ॥ ३,१०.२३ ॥

 

 

फलितमाह

तस्माच्चिदप्यचिद्रूपा चेत्यरिक्ततयात्मनि ।

जगत्ता तादृश्येवेयं तादृङ्मात्रात्मतावशा ॥ ३,१०.२४ ॥

"तस्मात्" ततो हेतोः । "चेत्यरिक्ततया" चेत्यराहित्येन्"आत्मनि" चिन्मात्राख्ये स्वस्वरूपे । "चिदपि अचिद्" एव भवति । चेत्यस्यैव पूर्वनयेन चिन्मात्रतादृढीकरणसामर्थ्यात्तस्य चात्राभावात् । तस्याभावश्चात्र ब्रह्मान्तःस्थत्वेन ब्रह्मतयैव ज्ञेयः । ब्रह्माभिन्ने जगत्यपि अचित्त्वमतिदिशति । "जगत्ते"ति । "इयं" "जगत्ता"पि । "तादृशी एव" चिद्रूपब्रह्माभिन्नत्वेनाचिद्रूपैव भवति । अत्र हेतुतया विशेषणमाह । "तादृङ्मात्रात्मतावशे"ति । यतः "तादृङ्मात्रात्मतायाः" अचिद्रूपब्रह्ममात्रस्वरूपतायाः । "वशा" आयत्ता । अचिद्ब्रह्मस्वरूपिणीत्यर्थः । एतेन ब्रह्मजगतोः सर्वथाभेदोऽपि साधितः । न ब्रह्मणोऽचिद्रूपमात्रता । तस्या अग्रेऽपि साध्यमानत्वात् ॥ ३,१०.२४ ॥

 

 

 

ननु जगतः सर्वथाभिन्नत्वे रूपालोकमनस्काराः किंरूपा इत्य् । अत्राह

रूपालोकमनस्कारास्तन्मया एव नेतरत् ।

यथास्थितमतो विश्वं सुषुप्तं तुर्यमेव वा ॥ ३,१०.२५ ॥

"रूपालोकमनस्काराः" । "रूपं" नीलपीतादि । "आलोकः" तद्दर्शनं करणभूतः प्रकाशो वा । "मनस्कारः" मानसः परामर्शः । तद्विषयाः एते "तन्मया एव" । "एव"शब्दार्थमाह "नेतरद्" इति । तन्मयत्वं चैषां तद्विषयत्वं विनासत्कल्पत्वात् । फलितमाह "यथे"ति । "अतो" हेतोः । "विश्वं" जगत् । "यथास्थितम्" अनेन प्रकारेणैव वर्तमानम् । न तु यया कयापि शक्त्यान्तर्धिमापादितम् । "सुषुप्तं" भवति । सुषुप्तौ भेदसंस्कारमाशङ्क्याह "तुर्यम्" इति । तुर्यस्वरूपचिन्मात्रैकमयमेव वा भवतीत्यर्थः ॥ ३,१०.२५ ॥

 

 

जगतः तुर्यरूपब्रह्मत्वेन योगिनो व्यवहारेऽपि ब्रह्ममयतामाह

तेन योगी सुषुप्तात्मा व्यवहार्यपि शान्तधीः ।

आस्ते ब्रह्म निराभासं सर्वभासां समुद्गकम् ॥ ३,१०.२६ ॥

"तेन" पूर्वोक्तेन हेतुना । "योगी" जगद्ब्रह्मैकत्वे समाहितः । "ब्रह्म" ब्रह्मस्वरूपम् । "आस्ते" । कुत एवंरूप आस्ते । यतः "व्यवहार्यपि" व्यवहारं कुर्वाणोऽपि । "शान्तधीः" क्षोभरहितबुद्धिः । ईदृशोऽपि कुतः । यतः "सुषुप्तात्मा" प्रपञ्चं प्रति सुप्तान्तःकरणः । प्रपञ्चं प्रति सुप्तमनसो हि शान्तधीत्वं युक्तमेव । कथम्भूतं "ब्रह्म" । "निराभासं" नानाभासेभ्यो निष्क्रान्तम् । तदुत्तीर्णमित्यर्थः । पुनः कथम्भूतम् । "सर्वभासां" सर्वेषां घटपटादिज्ञानानाम् । "समुद्गकम्" उद्भूतिस्थानम् ॥ ३,१०.२६ ॥

 

 

 

पुनरपि प्रकृतं ब्रह्मजगदभेदमेव कथयति

आकारिणि यथा सौम्ये स्थितस्तोये द्रवक्रमः ।

अनाकृतौ तथा विश्वं स्थितं तत्सदृशं परे ॥ ३,१०.२७ ॥

"आकारिणि" बाह्येन्द्रियग्राह्यस्वरूपयुक्ते । "सौम्ये" क्षोभरहिते । "तोये" । "द्रवक्रमः" आद्यस्पन्दनासमवायिकारणभूतगुणविशेषपरिपाटी । "यथा स्थितः" भवति । "तथानाकृतौ परे" परब्रह्मणि । "विश्वं" "स्थितं" भवति । कथम्भूतम् । "तत्सदृशम्" अनाकृतीत्यर्थः । सौम्ये जले यथा स्फुटीभविष्यमाणत्वेन किञ्चित्त्वार्होऽपि द्रवाख्यो गुणः तन्मयः । तथा भासमानत्वेन भिन्नत्वार्होऽपि प्रपञ्चः ब्रह्ममय इति भावः ॥ ३,१०.२७ ॥

 

 

 

अभेदमुक्त्वा तत्त्वमेव कथयति

पूर्णात्पूर्णं प्रसरति निराकारान्निराकृति  ।

ब्रह्मणो विश्वमाभातं तद्विश्वार्थविवर्जितम् ॥ ३,१०.२८ ॥

"पूर्णाद्" ब्रह्मणः । "पूर्ण"रूपं जगत् । "प्रसरति" विलसति । प्रसरणं चात्र प्रपञ्चाक्रान्तबुद्धिं शिष्यं प्रयुक्तम् । "निराकारात्" ब्रह्मणः । "निराकृति" जगत् । "प्रसरति" । अतः "ब्रह्मणः" यद्"विश्वमाभातं" भानमागतम् । तत्"विश्वार्थविवर्जितम्" विश्वार्थैः घटपटादिभिः विवर्जितं भवति । ब्रह्मैकमयं भवतीत्यर्थः ॥ ३,१०.२८ ॥

 

 

 

पूर्णात्पूर्णं प्रसरति संस्थितं पूर्णमेव तत् ।

अतो विश्वमनुत्पन्नं यच्चोत्पन्नं तदेव तत् ॥ ३,१०.२९ ॥

"पूर्णाद्" ब्रह्मणः । "पूर्ण"रूपं जगत् । "प्रसरति" विलसति । प्रसरणं "संस्थितं" भवति । न तु तत्प्रसरणेन काचित्खण्डनास्य जायते इत्यर्थः । फलितमाह्"आत" इति । "अतः" पूर्वोक्ताद्धेतोः । "विश्वमनुत्पन्नं" भवति । ब्रह्मत्वेन तस्य सदा स्थितत्वात् । विश्वानुत्पन्नत्वमसहमानं प्रत्याह "यच्चे"ति । "यत्चोत्पन्नं" भवति । "तत्तदेव" ब्रह्मैव । भवति । उत्पन्नस्यापि ब्रह्मत्वाविरुद्धत्वादित्यर्थः ॥ ३,१०.२९ ॥

 

 

 

एतावत्या प्रक्रियया सिद्धमचिद्रूपत्वं ब्रह्मणः कथयति

चेत्यासम्भवतस्तस्मिन् पदे केव चिदर्थता ।

आस्वादकासम्भवतो मरिचे केव तीक्ष्णता ॥ ३,१०.३० ॥

अत इत्यध्याहार्यम् । अतो हेतोः । "चेत्यासम्भवतः" । "चेत्यस्य" चिद्विषयस्य जगतो । "ऽसम्भवतः" । "तस्मिन् पदे" ब्रह्मस्वरूपे पदे । "केव चिदर्थता" चिच्छब्दप्रवृत्तिनिमित्तता । भवति । न कापीत्यर्थः । चेत्यविषयीकरणेनैव हि चितः चिदिति नाम युक्तम् । चेत्याभावे तु तन्न युक्तम् । चेत्याभावश्च सविस्तरं पूर्वं साधितः । चिदर्थतानिषेधश्चात्र तदुत्तीर्णतया ज्ञेयः न जडतयेति । अत्र समर्थकं दृष्टान्तमाह "आस्वादके"ति । "केव" न कापीत्यर्थः । "आस्वादकासम्भवत" आस्वादकासम्भवेन इत्यर्थः ॥ ३,१०.३० ॥

 

 

पुनरप्येतदेव कथयति

सत्येवेयमसत्यैव चितेश्चित्तोदिता परे ।

अभावात्प्रतिबिम्बस्य प्रतिबिम्बार्हता कुतः ॥ ३,१०.३१ ॥

"चितेः" "चित्ता" चित्सम्बन्धी चिद्भावः । "परे" परमात्मनि । "असत्यैव" परमार्थतोऽसत्स्वरूपैव सती । "सत्येव" सत्यवद् । "उदिता"त्र दृष्टान्तमाह "अभावाद्" इति । दर्पणस्येति शेषः । यथा दर्पणस्य "प्रतिबिम्बार्हता" प्रतिबिम्बेनैव ज्ञायते । तदभावे तु सा न ज्ञायते । एवं परस्य चित्ता चेत्येनैव ज्ञायते । तदभावे तु "कुतो" ज्ञायते इति भावः ॥ ३,१०.३१ ॥

 

 

 

जीवादिरूपतानिरासार्थं परमात्मतत्त्वं विशिनष्टि

परमाणोरपि परं तदणीयोऽप्यणीयसः ।

शुद्धं सूक्ष्मं परं शान्तं तदाकाशोदरादपि ॥ ३,१०.३२ ॥

"तत्" ब्रह्म । "परमाणोरपि परमणीयः" अतिसूक्ष्मम् । भवति । कथम्भूताद्"अपि" । "अणीयसोऽपि" द्व्यणुकाद्यपेक्षया सूक्ष्मतरादपि । सूक्ष्मतरत्वं चास्य बाह्येन्द्रियाग्राह्यत्वेन ज्ञेयम् । "तत्" ब्रह्म । कथम्भूतम् । "शुद्धं" रागादिरजोऽदूषितम् । "सूक्ष्मं" । "परम्" उत्तीर्णम् । "शान्तं" सर्वप्रचारशून्यम् । कस्माद्"अपि" । "आकाशोदरादपि" ॥ ३,१०.३२ ॥

 

 

दिक्कालाद्यनवच्छिन्नरूपत्वादतिविस्तृतम् ।

तदनाद्यन्तमाभासं भासनीयविवर्जितम् ॥ ३,१०.३३ ॥

"तत्" ब्रह्म्"आतिविस्तृतम्" अतिविस्तीर्णं भवति । कुतः । "दिक्कालाद्यनवच्छिन्नरूपत्वात्" । "आदि"शब्देन वस्तुपरिग्रहः त्रिविधपरिच्छेदशून्यत्वादित्यर्थः । ननु कथमस्य दिगादिपरिच्छेदशून्यत्वम् । तथात्वेऽप्यतिविस्तृतत्वमिति चेत् । "दिक्" तावत्चेत्यमाना न वा । न चेत्तर्हि स्वयमेवासिद्धा कथमन्यं परिच्छेदयेत् । चेत्यमाना चेत्तर्हि चितैव सा परिच्छिन्ना कथं तां परिच्छेदयेत् । एवं "काला"देरपि ज्ञेयम् । "दिग्"आदिभिः परिच्छिन्नमेव परिच्छिन्नं भवति । तदभावे त्वतिविस्तृतमेवेति स्थितमस्यातिविस्तृतत्वम् । पुनः कथम्भूतम् । "अनाद्यन्तं" यथा तथा कल्प्यमानयोरप्याद्यन्तयोः साक्षित्वादाद्यन्तरहितम् । पुनः कथम्भूतम् । "भासनीयविवर्जितम्" आभासज्ञेयरहितज्ञानस्वरूपमित्यर्थः ॥ ३,१०.३३ ॥

 

 

 

प्रोक्तविशेषणावष्टम्भेन जीवादिरूपतामस्य निवारयति

चिद्रूपमेव नो यत्र लभ्यते तत्र जीवता ।

कथं स्याच्चित्तताकारा वासनानिलरूपिणी ॥ ३,१०.३४ ॥

"यत्रै"वंविधगुणविशिष्टे ब्रह्मणि । "चिद्रूपमेव" भावप्रधानो निर्देशः चिद्रूपत्वमेव । "नो लभ्यते" पूर्वन्यायेन नानुभूयते । "तत्र" तादृशे ब्रह्मणि । "जीवता" जीवभावः । "कथं स्यात्" । कथम्भूता । "चित्तताकारा" चेत्यशयनाविष्टं चित्तत्वं चित्तम् । तद्रूपिणीत्यर्थः । पुनः कथम्भूता । "वासनानिलरूपिणी" । चेत्यभावना "वासना" । सैव चलत्तय्"आनिलः" । तद्"रूपिणी" । शुद्धा चिद्रूपतापि यत्र नास्ति चेत्यशयनाविष्टाया जीवतायाः का तत्र वार्तेति भावः ॥ ३,१०.३४ ॥

 

 

 

चिद्रूपत्वाभावेनैव युगपज्जीवादितां निराकरोति

चिद्रूपानुदयादेव तत्र नास्त्येव जीवता ।

न बुद्धिता न चित्तत्त्वं नेन्द्रियत्वं न वासनाः ॥ ३,१०.३५ ॥

"चिद्रूपानुदयादेव" चित्स्वरूपानुद्भूतेरेव । न त्वन्येन हेतुना । तद्रूपानुदयस्तु पूर्वं कथितः । सूक्ष्मरूपेण स्थिता चेत्यभावना वासना । ननु चिद्रूपानुदयेन कथमत्र जीवादिता नास्ति । सत्यम् । चिदुच्छूनताया एव जीवादिभावेन तद्रूपत्वानुदये युक्तमेव जीवताद्यभावत्वमिति न विरोधः ॥ ३,१०.३५ ॥

 

 

फलितमाह

एवं स्थितं लयारम्भपूर्णमप्यजरं पदम् ।

अस्मद्दृष्ट्या स्थितं शान्तं शून्यमाकाशतोऽधिकम् ॥ ३,१०.३६ ॥

"लयारम्भपूर्णं स्थितमपि अजरं" जराख्यशरीरधर्मरहितम् । "पदं" परमात्मलक्षणं स्थानम् । "अस्मद्दृष्ट्याकाशतः" आकाशापेक्षय्"आधिकं शान्तं" । तथा "शून्यं" नकिञ्चिद्रूपम् । "स्थितं" भवति । कथम् । "एवं" पूर्वोक्तया युक्त्येत्यर्थः ॥ ३,१०.३६ ॥

 

 

परमात्मस्वरूपं दुर्बोधं ज्ञात्वा पुनरपि श्रीरामः पृच्छति

परमार्थस्य किं रूपं तस्यानन्तचिदाकृतेः ।

पुनरेतत्समाचक्ष्व निपुणं बोधवृद्धये ॥ ३,१०.३७ ॥

त्वं "पुनः निपुणं" सम्यक् । "बोधवृद्धये" परमात्मविषयज्ञानवृद्धये । "एतत्समाचक्ष्व" कथय । "एतत्" किम् । "तस्य" प्रसिद्धस्य्"आनन्तचिदाकृतेः" दिगाद्यपरिच्छिन्नचित्स्वरूपस्य । "परमार्थस्य" सत्यस्वरूपस्य परमात्मनः । "किं रूपम्" अस्तीति ॥ ३,१०.३७ ॥

 

 

श्रीवसिष्ठ उत्तरमाह

महाप्रलयसम्पत्तौ सर्वकारणकारणम् ।

शिष्यते यत्परं ब्रह्म तदिदं वर्ण्यते शृणु ॥ ३,१०.३८ ॥

"महाप्रलयसम्पत्तौ" तुर्ये तुर्यातीते महाकल्पान्तसमये वा । "कारणकारणं" मूलकारणम् । "यत्परं ब्रह्म" जगद्भावेन बृंहां गतं परमात्मलक्षणं वस्तु । "शिष्यते" महाप्रलयसाक्षिभावेन शिष्टं भवति । मया "तदिदं वर्ण्यते" ।ऽतः त्वं "शृणु" ॥ ३,१०.३८ ॥

 

 

परमात्मस्वरूपमेव वर्णयति

नाशयित्वा स्वमात्मानं मनसो वृत्तिसङ्क्षये ।

यद्रूपं यदनाख्येयं तद्रूपं तस्य वस्तुनः ॥ ३,१०.३९ ॥

"तस्य वस्तुनः" परं ब्रह्मापरपर्यायस्य परमात्मलक्षणस्य वस्तुनः । "तत्रूपं" भवति । "तत्" किम् । "यत्तद्रूपं" । शिष्यत इति शेषः । "शिष्यते" स्वनाशसाक्षिभावेन शिष्टं भवति । कस्य । "मनसः" । किं कृत्वा । "स्वमात्मानं नाशयित्वा" शुद्धचिन्मात्रे लयं नीत्वा । कस्मिन् सति । "वृत्तिसङ्क्षये" वृत्तिनाशे सति इत्यर्थः । "तद्रूपं" किम् । "यतनाख्येयं" भवति । अतिशुद्धत्वेन आख्यायोग्यं न भवतीत्यर्थः । अयं भावः । मनसैव मनः छित्त्वेति न्यायेन किञ्चिन्मात्रं सम्यक्ज्ञानेन संसारकलनाभ्यो निष्क्रान्तं शुद्धं मनः भावनाबलेन शुद्धाशुद्धवृत्तिक्षयेण हेतुना शुद्धाशुद्धं स्वं रूपं नाशयति । ततः तन्मनः शुद्धतरे कुत्राप्यनाख्येये लयीभूतमनाख्येयं भवति । एतद्रूपता च सुषुप्तौ सर्वैरनुभूयते । किं तु मूढतामिश्रा । तच्च मनो यदा तादृक्स्यात्तदास्य परमात्मताभावः भवतीति । तत्रैव योगिना सावधानेन भाव्यमिति ॥ ३,१०.३९ ॥

 

 

 

नास्ति दृश्यं जगद्द्रष्टा दृश्याभावाद्विलीनवत् ।

भातीति भासनं यत्स्यात्तद्रूपं तस्य वस्तुनः ॥ ३,१०.४० ॥

"तस्य वस्तुनः" परमात्मलक्षणस्य वस्तुनः । "तद्रूपं" भवति । "तत्" किम् । "यद्" "इति" एवम् । "भासनं" स्फुरणं "स्यात्" । "इति" किम् । "इति दृश्यं" दृशिक्रियाविषयो । "जगत्नास्ति" प्रतीतिमात्रसिद्धत्वात् । "द्रष्टा" दृशिक्रियाकर्ता । "दृश्याभावाद्विलीनवत्" लीन इव । "भाती"ति । अयं भावः । पूर्वं सम्यग्ज्ञानेन दृश्यात्यन्ताभावो युक्त्या निश्चेयः । ततः दृश्यात्यन्ताभावेन द्रष्टापि लयीभूत इव भवति । ततश्च द्रष्टा दृश्यं च नास्तीति स्फुरति । तत्स्फुरणं च द्रष्टृदृश्यलेपरहितत्वेन नकिञ्चिद्रूपत्वादनाख्येयं भवति । तदेव च परमात्मस्वरूपमिति । तत्र योगिना सावधानेन भाव्यमिति ॥ ३,१०.४० ॥

 

 

 

चितेर्जीवस्वभावो यो यदि चेत्योन्मुखो वपुः ।

चिन्मात्रं विमलं शान्तं तत्तत्कारणकारणम् ॥ ३,१०.४१ ॥

"तत्" प्रसिद्धम् । "तच्" चिन्मात्रम् । "कारणकारणं" मूलकारणभूतं परमात्मस्वरूपं भवति । "तत्चिन्मात्रं" किम् । "चितेः" जीवोपादानकारणभूतायाः चितेः । "वपुः" स्वरूपम् । चिन्मात्रस्वरूपत्वात्चितेः । पुनः कथम्भूतम् । "विमलं" चेत्यमालिन्येनादूषितम् । पुनः कथम्भूतम् । "शान्तं" चेत्यक्षतक्षोभरहितम् । "तत्चिन्मात्रं" किम् । "यः जीवस्वभावः" जीवस्य रूपो । भवति । "स्वभाव"शब्दापेक्षया "यच्"छब्दस्य पुंलिङ्गता । ननु कदासौ जीवस्वभावो भवतीत्याह "यदी"ति । "यदि चेत्योन्मुखः" स्यात् । चेत्योन्मुखायाः चितेरेव जीवत्वात् । अयं भावः । यच्चिन्मात्रं चेत्योन्मुखं सत्जीवतां याति तदेव सम्यग्ज्ञानेन चेत्यासत्त्वं निश्चित्य शुद्धीकृतं सतनाख्येयं भवति । तदेव च परमात्मरूपमिति । तत्र योगिना सावधानेन भाव्यमिति । चितिश्च स्वपरामर्शकारितया परामर्शकर्तृत्वेन परामर्शविषयत्वेन च द्विविधास्ति । तत्र प्रथमायाः चिन्मात्रमिति नाम द्वितीयस्याः चितिरिति ॥ ३,१०.४१ ॥

 

 

 

अङ्गुष्ठस्याथ वाङ्गुल्या वाताद्यस्पर्शने सति ।

जीवतश्चेतसो रूपं यत्तत्परममात्मनः ॥ ३,१०.४२ ॥

रूपमिति शेषः । "तत्परमम्" उत्कृष्टं वस्तु । परम्"आत्मनः" रूपं भवति । "तत्" किम् । "चेतसः" मनसः । "यद्रूपं" भवति । कथम्भूतस्य "चेतसः" । "जीवतः" स्वव्यापारं प्रति समर्थस्य । न तु मूर्छाद्यवस्थावत्तत्राशक्तस्य । तदा हि तस्य मूढत्वमेव भवति । न परमात्मत्वम् । कस्मिन् "सति" । "अङ्गुष्ठस्याथ वाङ्गुल्या" । उपलक्षणं चैतत् । सर्वशरीरावयवानां "वाताद्यस्पर्शने सति" । "आदि"शब्देन तेजःप्रभृतीनां ग्रहणम् । "अस्पर्शनम्" अस्पर्शः । अयं भावः । पुरुषस्य यस्मिन् कस्मिंश्चिच्छरीरावयवे कस्यापि द्रव्यस्य स्पर्शे असति तदा निरालम्बमेव तदवयवव्यापि चैतन्यं भवेत् । तदा तदवयवमात्रानुसन्धानपरस्य तस्य बाह्यग्रहणसमर्थमपि मनः शुद्धनिरालम्बाचेत्यचिन्मात्ररूपपरमात्मरूपमेव तिष्ठतीति । तदैव सर्वाः मनोवृत्तीः विहाय योगिना सावधानेन परीक्ष्यमिति ॥ ३,१०.४२ ॥

 

 

 

अस्वप्नाया अनन्ताया अजडाया घनस्थितेः ।

यद्रूपं चिरचिन्तायास्तत्तदानघ शिष्यते  ॥ ३,१०.४३ ॥

हे "ऽनघ" रागादिदोषरहित । "तत्" वस्तु । "तदा" महात्मलयसमये । "शिष्यते" । "तत्" किम् । "यत्रूपं" भवति । कस्याः । "चिरचिन्तायाः" । "चिरं" सर्वरात्रम् । कृता या "चिन्ता" प्राप्तेष्टविषयमाध्यानम् । तस्याः चिन्ताविशेषणान्याह्"आस्वप्नाया" इत्यादि । "अस्वप्नायाः" स्वप्नत्वेनापरिणतायाः । जाग्रति क्रियमाणा चिन्ता स्वप्नत्वेन परिणमते । स्वप्नतया परिणतत्वे तु अनायत्ततयान्यविषयिण्यपि स्यादिति युक्तमुक्तम् "अस्वप्नाया" इति । "अनन्तायाः" अच्छिन्नसन्तानत्वेन प्रवृत्तायाः । अन्या काचिच्चिन्ता तत्र मध्ये नायातीत्यर्थः । "अजडायाः" काचिद्धि चिन्ता नैरन्तर्येण क्रियमाणा मूर्छामावहति । तन्निवारणार्थम् "अजडाया" इति विशेषणम् । "घनस्थितेः" । "घना" निबिडा । चिन्त्यमानस्यापि प्रवेशमदधती । "स्थितिर्" अवस्थानम् । यस्याः । सा । तादृश्याः । निरालम्बाया इत्यर्थः । अयं भावः । जाग्रति क्रियमाणा छिन्ना जाड्यदोषरहिता चिन्त्यमानस्पर्शदूषिता चिन्ताच्छिन्नबोधमयाचेत्यचिन्मयतामेव यात्य् । अचेत्यचिन्मयमेव च परमात्मरूपमिति योगिना तत्र सावधानेन भाव्यमिति ॥ ३,१०.४३ ॥

 

 

 

यद्व्योम्नो हृदयं यद्वा शिलायाः पवनस्य च ।

तस्याचेत्यस्य चिद्व्योम्नस्तद्रूपं परमात्मनः ॥ ३,१०.४४ ॥

"तस्य" प्रसिद्धस्य । "अचेत्यस्य" स्पर्शादूषितस्य । "चिद्व्योम्नः" भानाकाशरूपस्य । "परमात्मनः रूपं" स्वरूपम् । "तत्" भवति । "तत्" किम् । "यत्व्योम्नः हृदयं" शून्याख्यम् । भवति । "यद्वा" । "यत्" हृदयम् । "शिलायाः पवनस्य च" भवति । तत्र "शिलाया हृदयं" अन्यस्य प्रवेशानर्हं सूक्ष्मावयवनैविद्ध्यरूपं भवति । "पवनस्य" "हृदयं" मृग्यमानं शून्यतायामेव विश्राम्यति । नन्वेतेन जडत्वमस्यायातमिति चेन् । न । "चिद्व्योम्न" इति नामधेयकथनेन तन्निवारणात् । विचारे क्रियमाणे व्योमादीनां हृदयं यथायथं शून्यरूपमन्यप्रवेशामर्हं भवति । तादृगेव च परमात्मनो रूपमिति योगिना तत्र सावधानेन भाव्यम् ॥ ३,१०.४४ ॥

 

 

 

अचेत्यस्यामनस्कस्य जीवतो या क्रियावतः ।

स्यात्स्थितिः सा परा शान्ता सत्ता तस्याद्यवस्तुनः  ॥ ३,१०.४५ ॥

"परा" उत्कृष्टा । "शान्ता" क्षोभरहिता । "सत्ता"वस्थितिः । "तस्याद्यवस्तुनः" परमात्मलक्षणस्य वस्तुनः । "सा स्यात्" । "सा" का । "या स्थितिः सत्ता स्यात्" । कस्य । "जीवतः" जीवयुक्तस्य पुरुषस्य । न तु मृतस्य । कथम्भूतस्य्"आचेत्यस्य" । सम्यग्ज्ञानेन चेत्याभावे निश्चितत्वात् । चेत्यरहितस्यात एव्"आमनस्कस्य" मनोरहितस्य । पुनः कथम्भूतस्य । "क्रियावतः" चलनादिक्रियाकारिणः । अयं भावः । चेत्यं प्रति मनोव्यापारमकुर्वनत एव सर्वथानुसन्धानशून्यः पुरुषः चलनादिक्रियाकारी यादृशो भवति तादृगेव सृष्ट्यादिव्यापारकारि परमात्मतत्त्वं भवतीति । तत्र योगिना सावधानेन भाव्यमिति ॥ ३,१०.४५ ॥

 

 

 

चित्प्रकाशस्य यन्मध्यं प्रकाशस्य घनस्य च ।

दर्शनस्य च यन्मध्यं तद्रूपं ब्रह्मणो विदुः ॥ ३,१०.४६ ॥

पण्डिताः । "ब्रह्मणः" नानापदार्थभावेन बृंहितस्य परमात्मनः । "तद्रूपं विदुः" जानन्ति । "तत्" किम् । "चित्प्रकाशस्य" चित उत्थितस्य चेत्यप्रकाट्यरूपस्य प्रकाशस्य । "यत्मध्यं" मध्यावस्था । भवति । तथा "घनस्य" निबिडस्य । "प्रकाशस्य" सूर्यमण्डलादेरुत्थितस्य । "यन्मध्यं" मध्यावस्था । भवति । तथा "दर्शनस्य" द्रष्टुरुत्थितायाः दृशिक्रियायाः । "यन्मध्यं" मध्यावस्था । भवति । अयं भावः । चित्प्रकाशस्य बाह्यप्रकाशस्य दर्शनस्य च तिस्रोऽवस्था भवन्ति । आद्यावस्था मध्यावस्थान्त्यावस्था । तत्र बाह्यप्रकाशस्यादित्यादेरुत्थानसमये याद्यावस्था सादित्यस्पर्शदूषिता । या च पदार्थप्रकाशनसमयेऽन्त्यावस्था सा पदार्थस्पर्शदूषिता । मध्यावस्था तु शुद्धप्रकाशस्वरूपानाख्या च भवति । तादृगेव च परमात्मस्वरूपमिति । तत्र योगिना सावधानेन भाव्यम् । चित्प्रकाशदर्शनयोरप्येवं योज्यम् । चित्प्रकाशस्य दर्शनस्य च परिमितत्वापरिमितत्वमात्रकृतो भेदो ज्ञेयः ॥ ३,१०.४६ ॥

 

 

वेदनस्य प्रकाशस्य दृश्यस्य तमसस्तथा ।

वेदनं यदनाद्यन्तं तद्रूपं परमात्मनः ॥ ३,१०.४७ ॥

"तत्परमात्मनः रूपं" भवति । "तत्" किम् । "यद्वेदनम्" अनुसन्धानम् । भवति । कथम्भूतम् । "अनाद्यन्तं" नैरन्तर्येण प्रवृत्तम् । सान्तरस्यैव हि मध्ये पुनः पुनः सादित्वं सान्तत्वं च भवति । कस्य । "प्रकाशस्या"र्थप्रकाशरूपस्य । "वेदनस्य" ज्ञानस्य । पुनः कस्य । "तमसः" ग्राह्यैकस्वरूपस्य । "दृश्यस्य" अवश्यदर्शनीयतया कल्पितस्य कस्यचिद्देवताविशेषस्य । अयं भावः । ज्ञानधारणा ज्ञेयैकरूपदेवताधारणा च नैरन्तर्येण प्रवर्तमाना ज्ञानैकमयतया देवतैकमयतया च परिणता सती एकस्वरूपपरमात्मरूपा भवतीति । तत्र योगिना सावधानेन भाव्यम् । अथ वा "वेदनस्य" ज्ञानकरणस्य । "प्रकाशस्य" । "दृश्यस्या"लोकाभाम् []कृतचक्षुर्ग्राह्यस्य । "तमसः" बाह्यतमस इति योज्यम् । बाह्यतेजसः बाह्यतमसश्च धारणायाः कैश्चिदुक्तत्वात् ॥ ३,१०.४७ ॥

 

 

 

यतो जगदुदेतीव नित्यानुदितरूप्यपि ।

विभिन्नवदिवाभिन्नं तद्रूपं पारमात्मिकम् ॥ ३,१०.४८ ॥

"तत्पारमात्मिकम्" परमात्मसम्बन्धि । "रूपं" भवति । किं "तत्" । "यतः" यस्मात् । "जगदुदेतीव" उदयं यातीव । भासमानत्वात् । कथम्भूतम् "अपि" । "नित्यानुदितरूप्यपि" नित्यमनुदितम् । परमार्थतः चिन्मात्ररूपतया जगद्रूपेणाप्रादुर्भूतं "रूपम्" अस्यास्तीति । तादृशम् "अपि" । पुनः कथम्भूतम् । "अभिन्नं" तन्मयम् । पुनः कथम्भूतम् । स्थितमिति शेषः । "स्थितं" वर्तमानम् । कथम् । "विभिन्नवत्" विभिन्नमिव । परमार्थतः भिन्नत्वनिरासाय "वत्"इशब्दोपादानम् । अयं भावः । यतः सूक्ष्मतराद्वस्तुन इदं जगत्पयस इव वीचिकदम्बकं निर्याति । तदेव परमात्मनो रूपमिति । तत्र योगिना सावधानेन भाव्यमिति ॥ ३,१०.४८ ॥

 

 

व्यवहारपरस्यापि यत्पाषाणवदासनम् ।

अव्योम्न एव व्योमत्वं तद्रूपं पारमात्मिकम् ॥ ३,१०.४९ ॥

"तत्पारमात्मिकम्" परमात्मसम्बन्धि । "रूपं" भवति । किं "तत्" । "यत्व्यवहारपरस्यापि" व्यवहारं कुर्वाणस्यापि । "पाषाणवतासनं" स्थितिः । भवति । तद्"आसनं" किम् । "अव्योम्न एव" जडत्वादिव्योमधर्मरहितत्वेनाकाशस्वरूपव्यतिरिक्तस्य एव । "व्योमत्वं" व्योमभावः । अयं भावः । व्यवहारं कुर्वन्नपि पुरुषः तत्रत्यसिद्ध्यसिद्ध्यनुसन्धानरहितः परमात्मरूप एव भवतीति । तत्र योगिना सावधानेन भाव्यमिति ॥ ३,१०.४९ ॥

 

 

वेद्यवेदनवेत्तृत्वरूपत्रयमिदं पुनः ।

यत्रोदेत्यस्तमायाति तत्तत्परममुत्तमम्  ॥ ३,१०.५० ॥

"तत्तत्" प्रसिद्धम् । "परमम्" उत्कृष्टम् । "उत्तमम्" निरतिशयं परमात्मलक्षणं वस्तु । भवति । "तत्" किम् । "यत्र" यस्मिन् । "इदम्" अनुभूयमानम् । "वेद्यं" विदिक्रियाविषयो । "वेदनं" विदिक्रिया । "वेत्ता" विदिक्रियाकर्ता । तेषां भावः "वेद्यवेदनवेत्तृत्वम्" । तदाख्यं "रूपत्रयं" "वेद्यवेदनवेत्तृत्वरूपत्रयमुदेति अस्तं याति" । अयं भावः । वेद्यादित्रिपुटी चेत्यमानत्वेन कुत्रचिच्चिन्मात्राख्ये वस्तुनि उदेति लयीभवति च । तदेव परमात्मनो रूपमिति । योगिना तत्र सावधानेन भाव्यमिति ॥ ३,१०.५० ॥

 

 

 

वेद्यवेदनवेत्तृत्वं यत्रेदं प्रतिबिम्बति ।

अबुद्ध्यादौ महादर्शे तद्रूपं परमं स्मृतम् ॥ ३,१०.५१ ॥

पण्डितैः । "तत्परमं" उत्कृष्टम् । "रूपं" परमात्मलक्षणं स्वरूपम् । "स्मृतम्" । "तत्" किम् । "यत्र महादर्शे वेद्यवेदनवेत्तृत्वं" वेद्यादित्रिपुटी । "प्रतिबिम्बति" प्रतिबिम्बतया स्फुरति । कथम्भूते । "ऽबुद्ध्यादौ" बुद्ध्यादिरहिते । युक्तं चादर्शस्य बुद्ध्यादिरहितत्वम् । आदर्शस्य जाड्येन बुद्ध्यादिरहितत्वमस्य उत्तीर्णत्वेनेति विशेषः । अयं भावः । वेद्यादित्रिपुटी क्षण एव स्फुरमाणा क्षण एव च लयभागिनी स्वस्फूर्त्याश्रयस्य किमपि मालिन्यमनादधती प्रतिबिम्बतयैव भाति । यतः प्रतिबिम्बमपि क्षण एव स्फुरति क्षण एव च लयीभवति स्वाश्रयस्य मकुरादेः मालिन्यं न दधाति । तव वेद्यादित्रिपुटीप्रतिबिम्बाश्रयं त्रिपुटीव्यतिरिक्तं किमपि वस्तु स्वीकार्यम् । अन्यथा त्रिपुटीप्रतिबिम्बायोगात् । तच्च तादृशं स्वीक्रियमाणमनाख्यमेव भवति । तदेव च परमात्मतत्त्वमिति । तत्र योगिना सावधानेन भाव्यमिति ॥ ३,१०.५१ ॥

 

 

मनष्षष्ठेन्द्रियातीतं यद्रूपं स्यान्महाचितेः ।

जङ्गमे स्थावरे वापि तत्सर्गान्तेऽवशिष्यते ॥ ३,१०.५२ ॥

"तत्" वस्तु । "सर्गान्ते" महाप्रलये । "ऽवशिष्यते" । "तत्" किम् । "यत्महाचितेः" चिन्मात्रस्य । "रूपं स्यात्" । कथम्भूतम् । "मनष्षष्ठेन्द्रियातीतं" । मन एव षष्ठं येषाम् । तानि "मनःषष्ठानि" । तानि च तानीन्द्रियाणि "मनःषष्ठेन्द्रियाणि" । तान्यतीतं "मनःषष्ठेन्द्रियातीतं" । तदगोचरमित्यर्थः । कुत्र । "जङ्गमे स्थावरे वापि" । अयं भावः । "जङ्गमे" चित्तत्वं तावन्निर्विवादमेव । "स्थावरे" तृणादावपि तथैव पर्वतादावपि । तृणाद्युद्गमेन नैव निर्णीतम् । न । न हि निश्चेतनात्कस्याप्युद्गमो युक्तः । मृतशरीराद्रोमाद्युद्गमादर्शनात् । तथा च येन रूपेण सर्वत्र चिदस्ति तदनाख्यमेव । तदेव च परमात्मतत्त्वमिति । तत्र योगिना सावधानेन भाव्यमिति ॥ ३,१०.५२ ॥

 

 

 

स्थावराणां हि यद्रूपं तच्चेद्बोधमयं भवेत् ।

मनोबुद्ध्यादिनिर्मुक्तं तत्परेण समं भवेत् ॥ ३,१०.५३ ॥

"हि"शब्दोपादानं पादपूरणार्थम् । "तत्परेण" परमात्मना । "समं" तुल्यम् । "भवेत्" स्यात् । "तत्"तदा । कदा । "तत्बोधमयं" बोधनस्वरूपम् । "चेत्" स्यात् । "तत्" किम् । "स्थावराणां यद्रूपं" भवति । अयं भावः । स्थावराणां रूपमवश्यं क्षोभरहितमेव किं तु जाड्यदूषितम् । अतः जाड्यं विहाय ज्ञेयास्पर्शेनैव स्वं ज्ञानतत्त्वं क्षोभरहितं कार्यम् । ततश्च परमात्मप्राप्तिर्भवतीति । तत्र योगिना सावधानेन भाव्यमिति । एताश्च धारणाः प्रत्येकं परमात्मप्राप्त्युपायभूता इति स्फुटीकृताः इति ॥ ३,१०.५३ ॥

 

 

 

सर्गान्तश्लोकेन पूर्वोक्तमुपसंहरति

ब्रह्मार्कशक्रहरविष्णुसदाशिवादि

शान्तौ शिवं परममेतदिहैकमास्ते ।

शिष्टं प्रदिष्टमविनष्टमकष्टम्

इष्टं मिश्रं न मिश्रमणुनाश्रितमाश्रितेन ॥ ३,१०.५४ ॥

"एतत्" स्वात्मत्वेन स्थितम् । "शिवं" परानन्दस्वरूपम् । "परमम्" उत्कृष्तम् । वस्तु । "आस्ते" स्वस्वरूपे तथैव तिष्ठति । न तु नश्यति । कस्यां सत्याम् । "ब्रह्मार्कशक्रहरविष्णुसदाशिवादिशान्तौ" सत्याम् । "आदि"शब्देन सुरादितृणान्तानां ग्रहणम् । "ब्रह्मादीनां" तत्तद्भुवनाधिपतीनाम् । "शान्ति"रूपे महाकल्पान्तसमये सति । "हरः" संहारकारी । "सदाशिवः" सर्वस्य स्वमयतापादनेनानन्दकारी । अथ वा "ब्रह्मादीनां" सङ्कल्पोत्पत्त्यादिकारिणां मनःप्रभृतीनाम् । "शान्तौ" तुर्याख्ये सतीत्यर्थः । कथम्भूतम् । "शिष्टं प्रदिष्टं" सर्वशान्तिसाक्षितया शेषत्वेन कथितम् । पुनः कथम्भूतम् । "अविनष्टम्" नाशागोचरम् । पुनः कथम्भूतम् । "अकष्टं" सुबोधम् । पुनः कथम्भूतम् । "इष्टं" सर्वस्य प्रियतमम् । पुनः कथम्भूतम् । "मिश्रं" नानाभावाभावस्वरूपम् । पुनः कथम्भूतम् । "न मिश्रं" शुद्धचिन्मात्ररूपम् । पुनः कथम्भूतम् । "अणुना" परिमितेन्"आश्रितेन" धर्मभूतेन जगत्"आश्रितम्" आधारत्वेन गृहीतम् । इति शिवम् ॥ ३,१०.५४ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे दशमः सर्गः ॥ ३,१० ॥